"ऋग्वेदः सूक्तं १.१२३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११४:
भगस्य । स्वसा । वरुणस्य । जामिः । उषः । सूनृते । प्रथमा । जरस्व ।
पश्चा । सः । दध्याःदघ्याः । यः । अघस्य । धाता । जयेम । तम् । दक्षिणया । रथेन ॥ ५ ॥
 
"सूनृते सुष्ठु मनुष्याणां नेत्रि "उषः हे उषोदेवते "भगस्य सर्वैर्भजनीयस्य आदित्यस्य “स्वसा असि स्वसृस्थानीयसि । तेन सहोत्पद्यमानत्वात् तद्वत्पूज्येत्यर्थः। तथा “वरुणस्य तमोवारकस्य सवितुर्देवस्य "जामिः असि भगिनीस्थानीयासि। एकस्मिन्नेव स्थाने उत्पद्यमानत्वात्।जनयन्त्युत्पादयन्ति अस्यामपत्यम् अन्ये इति जामिः। यद्वा । जमति गच्छति स्वोत्पत्तिस्थानात् अन्यत्रेति । उक्तनिर्वचनद्वयम् अभिप्रेत्य यास्क आह-' न जामये भगिन्यै जामिरन्येऽस्यां जनयन्ति जामपत्यं जमतेर्वा स्याद्गतिकर्मणो निर्गमनप्राया भवति ' (निरु. ३. ६ ) इति । तादृशी त्वं “प्रथमा इतरदेवेभ्यः पूर्वा उत्कृष्टा वा सती “जरस्व स्तुता भव । जरतिः स्तुत्यर्थः । ‘ जरा स्तुतिर्जरतेः स्तुतिकर्मणः ' ( निरु. १०. ८) इति यास्कः । “पश्चा पश्चात् त्वत्प्रीत्यनन्तरं “यः "अघस्य “धाता यः कश्चिद्दुःखस्य तदुत्पादकपापस्य वा धारयितास्ति "सः "दध्याः गच्छतु । वचनव्यत्ययः । दध्यतिर्गत्यर्थः ।' दृध्यति दभ्नोति ' ( नि. [[निघण्टुशास्त्रम्/द्वितीयोध्यायः|२. १४. ६१]]) इति गत्यर्थेषु पाठात् । यदि स पापी बलीयान् तं दक्षिणया प्रवृद्धया सहायभूतया त्वया “रथेन अस्मदीयरथादिसाधनेन च “जयेम ॥ ॥ ४ ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१२३" इत्यस्माद् प्रतिप्राप्तम्