"ऋग्वेदः सूक्तं १.१६४" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
अद्धि । तृणम् । अघ्न्ये । विश्वऽदानीम् । पिब । शुद्धम् । उदकम् । आऽचरन्ती ॥४०
 
हे "अघ्न्ये । गोनामैतत् । अहननीये हे गौः त्वं "सूयवसात् शोभनयवसस्य तृणादिकस्य अत्त्री सती "भगवती । भग इति धननाम । सर्वैर्भजनीयप्रभूतक्षीरादिधनवती “भूयाः भव । हिः पूरणः प्रसिद्धौ वा । लोके यवसादिभक्षणेन क्षीरादिसमृद्धिः प्रसिद्धा । "अथो अनन्तरसेवअनन्तरमेव “वयं यजमाना अपि "भगवन्तः प्रभूतेन धनेन तद्वन्तः "स्यामः । अथ एकवारं पूर्वमुक्तमिदानीं सर्वदा कर्तव्यमिति प्रार्थयते । "विश्वदानीं विश्वकालं सर्वदा “तृणम् "अद्धि भक्षय। “आचरन्ती सर्वतो निर्गच्छन्ती “शुद्धं निर्मलम् “उदकं "पिब । अयं मन्त्रो यास्केनैवं व्याख्यातः- ‘ सूयवसादिनी भगवती हि भवाथेदानीं वयं भगवन्तः स्यामाद्धि तृणमघ्न्ये सर्वदा पिब च शुद्धमुदकमाचरन्ती' (निरु. ११. ४४ ) इति ॥ ॥ २१ ॥
 
 
२९,७७६

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/224034" इत्यस्माद् पुनः प्राप्तिः