"तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः २/प्रपाठकः ०६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३४:
सीसेन तन्त्रं मनसा मनीषिणः । ऊर्णासूत्रेण कवयो वयन्ति । अश्विना यज्ञꣳ सविता सरस्वती ।इन्द्रस्य रूपं वरुणो भिषज्यन् । तदस्य रूपममृतꣳ शचीभिः । तिस्रो दधुर्देवताः सँरराणाः । लोमानि शष्पैर्बहुधा न तोक्मभिः । त्वगस्य माँसमभवन्न लाजाः । तदश्विना भिषजा रुद्रवर्तनी ।सरस्वती वयति पेशो अन्तरः १
 
अस्थि मज्जानं मासरैः । कारोतरेण दधतो गवां त्वचि । सरस्वती मनसा पेशलं वसु । नासत्याभ्यां वयति दर्शतं वपुः । रसं परिस्रुता न रोहितम् । नग्नहुर्धीरस्तसरं न वेम । पयसा शुक्रममृतं जनित्रम् । सुरया मूत्राज्जनयन्ति रेतः । अपामतिं दुर्मतिं बाधमानाः । ऊवध्यं वातꣳ सबुवं तदारात् २</span></poem>
{{सायणभाष्यम्|
उलूकपक्षिसदृशो मांसवििशेषो वनिष्ठुः। योऽयमत्र द्रवद्रव्यस्थापनार्थः कुम्भः स वनिष्ठुस्थानीयः। स च शचीभिः स्वशक्तिभिर्जनितोत्पादयिता। यस्मिन्वनिष्ठावग्रे पुरोभागे योन्यामन्तर्यो गर्भो वर्तते। अत्र सुरावनयनार्थं शतच्छिद्रयुक्तः कुम्भो योऽस्ति सोऽयं व्यक्तः स्पष्टः। बहुच्छिद्रोपेतत्वाच्छतधारः। सुरास्रवणयुक्तत्वादुत्सः। तादृशः कुम्भः प्लासी(शी)र्नासिकाछिद्रस्थानीयः। येयं द्रवद्रव्यधारणार्था कुम्भी तां कुम्भीं पितृभ्यः पित्रर्थं स्वधां दुहे नामृतं दोग्धीव। अध्वर्युरिति शेषः।
}}
 
<poem><span style="font-size: 14pt; line-height: 200%">इन्द्रः सुत्रामा हृदयेन सत्यम् । पुरोडाशेन सविता जजान । यकृत्क्लोमानं वरुणो भिषज्यन् । मतस्ने वायव्यैर्न मिनाति पित्तम् । आन्त्राणि स्थाली मधु पिन्वमाना । गुदा पात्राणि सुदुघा न धेनुः । श्येनस्य पत्रं न प्लीहा शचीभिः । आसन्दी नाभिरुदरं न माता । कुम्भो वनिष्ठुर्जनिता शचीभिः । यस्मिन्नग्रे योन्यां गर्भो अन्तः
2.6.4.3
इन्द्रः सुत्रामा हृदयेन सत्यम् । पुरोडाशेन सविता जजान । यकृत्क्लोमानं वरुणो भिषज्यन् । मतस्ने वायव्यैर्न मिनाति पित्तम् । आन्त्राणि स्थाली मधु पिन्वमाना । गुदा पात्राणि सुदुघा न धेनुः । श्येनस्य पत्रं न प्लीहा शचीभिः । आसन्दी नाभिरुदरं न माता । कुम्भो वनिष्ठुर्जनिता शचीभिः । यस्मिन्नग्रे योन्यां गर्भो अन्तः १
 
प्लाशीर्व्यक्तः शतधार उत्सः । दुहे न कुम्भीꣳ स्वधां पितृभ्यः । मुखꣳ सदस्य शिर इत्सदेन । जिह्वा पवित्रमश्विना सꣳ सरस्वती । चप्यं न पायुर्भिषगस्य वालः । वस्तिर्न शेपो हरसा तरस्वी ।अश्विभ्यां चक्षुरमृतं ग्रहाभ्याम् । छागेन तेजो हविषा शृतेन । पक्ष्माणि गोधूमैः क्वलैरुतानि । पेशो न शुक्लमसितं वसाते
 
अविर्न मेषो नसि वीर्याय । प्राणस्य पन्था अमृतो ग्रहाभ्याम् । सरस्वत्युप वाकैर्व्यानम् । नस्यानि बर्हिर्बदरैर्जजान । इन्द्रस्य रूपमृषभो बलाय । कर्णभ्याꣳ श्रोत्रममृतं ग्रहाभ्याम् । यवा न बर्हिर्भ्रुवि केसराणि । कर्कन्धु जज्ञे मधु सारघं मुखात् । आत्मन्नुपस्थे न वृकस्य लोम । मुखे श्मश्रूणि न व्याघ्रलोमम्
 
केशा न शीर्षन्यशसे श्रियै शिखा । सिꣳ हस्य लोम त्विषिरिन्द्रि याणि । अङ्गान्यात्मन्भिषजा तदश्विना । आत्मानमङ्गैः समधात्सरस्वती ।इन्द्र स्य रूपꣳ शतमानमायुः । चन्द्रे ण ज्योतिरमृतं दधाना । सरस्वती योन्यां गर्भमन्तः । अश्विभ्यां पत्नी सुकृतं बिभर्ति । अपाꣳ रसेन वरुणो न साम्ना । इन्द्रꣳ श्रियै जनयन्नप्सु राजा । तेजः पशूनाꣳ हविरिन्द्रियावत् । परिस्रुता पयसा सारघं मधु । अश्विभ्यां दुग्धं भिषजा सरस्वत्या । सुतासुताभ्याममृतः सोम इन्दुः
 
2.6.5.1 सौत्रामणेः कौकिल्या अभिषेकः