"लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १८७" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
({{header | title = लक्ष्मीनारायणसंहिता - लक्ष्मीनारा... नवीन पृष्ठं निर्मीत अस्ती)
 
 
| notes =
}}
<poem><span style="font-size: 14pt; line-height:200%">श्रीकृष्ण उवाच-
गोलोकराशेश्वरि बालकृष्णो
विमानमध्याद् बहिराजगाम ।
ददर्श लक्षाधिकमानुषाणां
सम्मर्दमाश्चर्यकरं तदानीम् ।। १ ।।
चकोरजातीयसमस्तकानां
यथेन्दुतेजोवलयेऽक्षिवृत्तिः ।
तथाऽखिलस्वागतकारकाणां
परेश्वरेऽभूद् वरदेऽक्षिवृत्तिः।। २ ।।
यथा मयूरा घनदर्शनेन
भवन्ति केकानिनदेऽतिमग्नाः ।
तथा प्रजाः श्रीहरिदर्शनेन
तदाऽभवन् वै जयनादमग्नाः ।। ३ ।।
यथा घने स्वातिजलेऽतिहृष्टा
नन्दन्ति वै चातकपक्षिसार्थाः ।
तथा घनश्यामफलेऽतिहृष्टा
आनन्दिताः स्वागतपक्षिसार्थाः ।। ४ ।।
यथा तु बाला मधुरां सुशर्करा-
मासाद्य मोदातिभृता भवन्त्यपि ।
तथा प्रजाः स्वेष्टसुधाननं प्रभुं
सम्प्राप्य मोदातिभृतास्तदाऽभवन् ।। ५ ।।
यथा सती कान्तमतीव सुन्दरं
चिरं वियुक्तं ह्यधिगम्य मोदते ।
तथा प्रजास्तं परकान्तमच्युतं
सदावियुक्तं प्रतिलभ्य हर्षिताः ।। ६ ।।
यथा पतंगा ह्यतितेजसानलं
विलोक्य कृष्टा अभियन्ति मोहिताः ।
तथा प्रजांगानि समुज्ज्वलं प्रभुं
विलोक्य कृष्टानि पतन्ति मोहिनि ।। ७ ।।
यथा निशेशं प्रसमीक्ष्य पूर्णिनं
जगत्सु वारांनिधयो द्रवन्त्यभि ।
तथाऽक्षरेशं प्रसमीक्ष्य पूर्णकं
प्रजाब्जकोट्योऽभिमुखं द्रवन्त्यपि ।। ८ ।।
यथाऽऽप्य लौहानि तु लौहकान्तं
निसर्गतस्तत्परितोऽभियन्ति ।
तथाऽऽप्यलोका बहुलोककान्तं
निसर्गतो बालहरिं प्रयान्ति ।। ९ ।।
यथा तु नद्यो जलधिं प्रयान्ति
यथेष्टलभ्ये हृदयानि यान्ति ।
तथा प्रजानां हृदयानि कृष्णे
समस्तदिग्भ्यो ह्यभवन् गतानि ।। 2.187.१० ।।
श्रीबालकृष्णोऽमिततेजसाऽन्वितो
बभूव मध्याह्नगभास्करोपमः ।
सुश्वेतरूपातिमनोहरप्रजा
बभूवुरुन्निद्रसरोजसन्निभाः ।। ११ ।।
तदा विमानं हरिणा त्वधिष्ठितं
पुष्पाब्जलक्षैः कुसुमायनं ह्यभूत्। ।
विचित्रजातीयसुमाधिवाटिका-
भ्रमोद्वहं मन्दरशृंगमीक्षितम् ।। १ २।।
हरिस्तदाऽभूत् खलु पुष्पवृक्षः
सर्वौषधिमिश्रणगुच्छशोभः ।
निजाक्षरस्याननगह्वराद्वा
विनिष्क्रमन्नक्षरमुक्तशोभः ।। १ ३।।
धृतोऽच्युतेनाऽच्युतहीरकान्वितः
सुवर्णमाणिक्यसुरत्नमुक्तवान् ।
किरीटवर्यो निजमूर्ध्नि कल्गियुग्
यथास्थितः संशुशुभे दिवस्पतिः ।। १४।।
निसर्गजाऽसंख्यकरश्मिजालवान्
मुखाभितेजः परिधिः समन्ततः ।
सहस्रभावृत्तनिशांपतिः स्थितो
ह्यभिन्नतायाः स्मृतिमातनोत्यपि ।। १५।।
विशालभालं सितकैसरद्वयो-
र्ध्वरेखयुक्सत्तिलकेन भायुजा ।
जनेभ्य आवेदयति द्विमार्गकौ
सुरेश्वरस्याऽक्षरधामकस्य च ।। १६।।
नेत्रे विशाले च मनोहरे प्रिये
सुचञ्चले प्रेमभरेऽतिमञ्जुले ।
अनन्तवात्सल्यविवर्षिणी हरे-
स्तदा विभिन्नाङ्गितबोधिनी मते ।। १७।।
प्रवालरक्तायनकाधरौ हरेः
सानन्दमन्दस्मितसंभृतौ तदा ।
आकर्षणं चाऽऽदधतश्च योषितां
समस्तभावैर्मनसां तथाऽऽत्मनाम् ।। १८।।
सुवर्तुलौ कुंकुमरंगसंस्पृशौ
समुन्नतौ कान्तिविलासिनौ हरेः ।
आनन्दपूर्णौ मणितुल्यभास्वरौ
मृदू समास्तां हृदयंगमौ शुभौ ।। १९।।
अदक्षहस्तो धृतपुष्पगुच्छको
वरप्रदोऽभूच्च तदा समुन्नतः ।
धनुर्ध्वजस्वस्तिकशूलमत्स्यका-
ऽऽबाणाढ्यदक्षोऽभयदः करोऽभवत् ।।2.187.२० ।।
विशालवक्षःस्थलशोभिचञ्च-
न्नवीनवैचित्र्यसुपुष्पमालाः ।
सम्मिश्रणं प्राप्य च कौस्तुभेन
श्रियो मुखं वक्षसि दर्शयन्ति ।।२ १ ।।
स्कन्धौ दृढौ पुष्पसुमालिकाभि-
र्व्याप्तौ तथा कर्णसुकुण्डलाक्तौ ।
रत्नत्विषा पारवतीप्रभे च
राधारमेऽदर्शयतां भुजस्थले ।।२२।।
तदोदरं दिव्यसुपुष्पहारै-
श्छन्नं हरेर्व्यंजयति प्रजाभ्यः ।
हारात्मनिःश्रेणिकया विशन्तु
वक्षःस्थले भक्तियुजो मदूर्ध्वम् ।।२३ ।।
असंख्यदासीपरिसेवितांऽघ्रि-
द्वयं व्यराजत् स्थलपद्मकाभम् ।
जनप्रवाहैः सततं नतं चाऽऽ-
नन्यप्रदं स्वल्पसमर्पितस्य ।। २४।।।
हरिस्तदा भूपतिभिस्तु सम्राड्
राजा प्रजाभिश्च गुरुः प्रशिष्यैः ।
सद्भिश्च साधुः प्रमदाभिरिष्टो
दीनैश्च दाता कविभिः पुराणः ।।२५।।
प्राप्यश्च भक्तैरणुरेव योगिभिः
रूपप्रियाभिर्नटवर्यवेशकः ।
कान्तः सतीभिः ऋषिभिश्च वैदिको
मनोहरः सर्वजनैरपेक्षितः ।। २६।।
सोपानमार्गेण हरिर्हसन् शनै-
रवाततारेश्वरपुष्पवार्ष्टितः ।
पुरांगनाद्यक्षतवर्धितो जनै-
र्जयध्वनिश्रावित आप्तकामनः ।। २७।।
प्रदर्शयन् नैजजनूँषि वै मुहुः
सोपानकेभ्यः समवाततार ह ।
राजा सृतौ कौशिककोमलाम्बरं
समास्तरत्पादनिधानकक्रमात् ।।२८।।
यत्राऽभवच्छोभनकानको रथः
शतैकसौवर्णघटाधिशृंगवान् ।
अष्टैकचक्रातिसुवेगवानपि
चतूरदैर्वारणसप्तकैर्युतः ।।२९।।
मध्ये परीभिः परितः परीभिः
सुराङ्गनाद्यर्पितमालिकाभिः ।
भ्रसन्मुखाभिः प्रियसुन्दरीभिः
शृंगारितः पुष्पविमानतुल्यः ।।2.187.३० ।।
राजा परीशानक एव तं हरिं
निनाय तूर्णं सकुटुम्बकं प्रभुम् ।
रथे समारोहयदीश्वरेश्वरं
न्यषादयत् कानकवारणासने ।। ३१ ।।
पुपूज हारैर्विविधैर्विचित्रैः
सुगन्धिसारैः सुमचन्दनैश्च ।
लाजाऽक्षतैः शीतसुगन्धिवार्भिः
सौवर्णभूषाभिरमूल्यवस्त्रैः ।।३२।।
ददौ च राजा सुरवालमुत्तमं
कौशेयमप्युत्तमरुक्मबुट्टुकम् ।
तथा ददौ कञ्चुकमुज्ज्वलं तथा-
विधं महाभूपतिधार्यमुत्तमम् ।।३ ३।।
ददौ च हीराञ्चितरत्नराजिभिः
. समन्वितं सन्मुकुटं सकल्गिकम् ।
ददौ विभूषाश्च सुवर्णवैकृता
दधार सर्वान् भगवान् परेश्वरः ।।३४।।
पपौ जलं श्रीहरिपादधौतं
दधार मूर्ध्नि स्वकुटुम्बयुक् च ।
हरिर्ददौ कण्ठगतां सुमालां
गुच्छं च राज्ञे स्वकृपाभिशंसम् ।।३५ ।।
जनास्तु लक्षाधिकगौरमूर्तयः
सुरालयात् किं सुगतास्तदाऽभवन् ।
चन्द्राभशोभाः खलु शुक्लवर्णकाः
सुपिंगनेत्रास्तनुदीर्घयष्टयः ।।३६।।
गौर्यश्च कन्या प्रमदा युवत्यो
वृद्धा अपि स्वल्पनिगूढदेह्य ।
समानरङ्ग्यो धृतचित्रछत्र्यो
विवृत्तकेश्यश्च पिशंगनेत्र्यः ।।३७।।
संलग्नवेषा मृदुशोणकान्तिकाः
सुसूक्ष्मपार्ष्णिभ्रमिपादरक्षिकाः ।
सुकुण्ठितान्ताम्बरदृश्यवर्णिका
गौर्यः प्रगौर्योऽप्यभवन् सुहर्षिताः ।।३ ८।।
नेदुर्महादुन्दुभयस्तदानीं
व्यंगूलवाद्यानि मयूरकाणि ।
विपञ्चिका वंशनिनादकानि
वीणास्तथा बन्दिकतूर्यकाणि ।।३ ९ ।।
जयप्रणादा ह्यभवँस्तदाऽभितो
यशोगुणानां बहुकीर्तनान्यपि ।
सहस्रकण्ठस्वरमिश्रितान्यपि
तदाऽभवन् गीतिककीर्तनान्यपि ।।2.187.४०।।
सहस्रशो यान्त्रिकबन्धुकीकृता-
स्तूपीकृता गोलकभेदनैः कृताः ।
शब्दाः सुकर्ण्याश्च तदाऽभवन् शुभाः
ओंनादमाप्ताः परमेशबोधकाः ।।४१ ।।
महामहासैन्यकृता निनादाः
प्रहर्षशब्दा व्यगमन् ककुत्सु ।
गजाभिनादास्तुरगाभिनादा
व्यानेशिरे ब्रह्मगमा विदिक्षु ।।४२।।
दन्तिप्रगन्त्रीमनु गन्त्र्य आशु
विमानतुल्याः शतशः सहस्रम् ।
श्रीबालकृष्णानुगरोहिताश्चा-
ऽगच्छन् शनैस्तुल्यसुशोभिताश्च ।।४३ ।।
ध्वजापताकोत्तमवावटाद्यैः
सौवर्णशृंगैः कलशैरनेकैः ।
दिव्यातिदिव्यैरभितोरणैश्च
रथा अशोभन्त महर्षियुक्ताः ।।४४।।
परीप्रभाभाससमूर्ध्ववर्णा
ब्रह्मप्रियाः काञ्चनचारुभास्यः ।
सौवर्णयानेषु विराजयन्त्यो
गोलोकवैकुण्ठमतिं नयन्ति ।।४५।।
तदा जना दर्शनकारिणस्ते
नराश्च नार्यो मुमुहुर्हरौ वै ।
रूपानुरूपावयवेतिरम्ये
गोपालबाले ह्यति काम्भरेये ।।४६।।
तदाऽश्ववारी खलु योजनायता-
ऽभवज्जनानामतिमर्दसंकुला ।
अनेकहस्त्यश्वकरेणुकर्षभै-
र्हंसैः प्रगेण्डैर्गरुडैर्गवेयकैः ।।४७।।
यानैर्विमानैरनसोभिरुत्तमै-
र्वाष्पोपयानैश्चरणाभियायिभिः ।
सद्भिर्नृपै राजकुमारकैः प्रजा-
जनैः समस्तैर्नगरीनिवासिभिः ।।४८।।
आर्षैर्जनैः सद्गुरुसांख्ययोगिभिः
पतिव्रताभिः परमाश्रमादिभिः ।
गांगेयकैः रौद्रगणादिभिस्तथा-
ऽश्ववारिका सैन्ययुता हि शोभते ।। ४९।।
निशम्य विज्ञाय पुरान्तरस्था
नरा विलासिन्य अपीश्वरेशम् ।
ससंभ्रमं त्यक्तसमस्तकार्या
द्रष्टुं हरिं यान्ति बहिर्गृहेभ्यः ।।2.187.५ ० ।।
तद्दर्शनात्युत्सुकमानसास्ते
घण्टापथान्ते कृतपंक्तिदुर्गाः ।
अन्योन्यसम्मर्दितदेहभागा
विलोकयामासुरुदग्रनेत्राः ।।५ १ ।।
स्थितास्तु मार्गे ह्यपि विप्रकष्टे
निशम्य वादित्रनिनादमुच्चैः ।
हर्यागमाशैकनिबद्धनेत्राः
समुच्छ्रिताः प्राञ्जलयः प्रणेमुः ।।५२।।
सौवर्णछत्रेण सुचामराद्यैः
साम्राज्यचिह्नैः सुविराजमानः ।
पुरीं ददर्शाऽद्भुतभूरिशोभां
सुसंस्कृतां सर्वरसैः प्रपूर्णाम् ।।५३ ।।
सुगन्धिवार्भिश्च मदैर्गजानां
संसिक्तघण्टापथचत्वरां च ।
सुस्वस्तिकैः स्वर्णघटैश्च रंभा-
स्तम्भै रसालादिदलैः सुशोभाम् ।।५४।।
पुष्पाक्षतैः कृत्रिमगोपुरैश्च
महोच्चदुर्गाढ्यसुगोपुरैश्च ।
तथोच्चसौधैर्बहुभूमिकैश्च
सोद्यानभागैरतिशोभमानाम् ।।५५।।
गृहे गृहे पुष्पितवल्लिकाभिः
सुगन्धितैः पल्लवितैर्द्रुमैश्च ।
कुण्डस्थमूलैः स्तबकैः सुमाढ्यै-
र्युतां च सस्याढ्यसुवाटिकाभिः ।।५६।।
सरोवरैर्मध्यसुपट्टभूमि-
श्चारामभूमिश्च विहारभूमिः ।
व्याख्यानभूमिर्नटिकादिभूमिः
प्रदर्शनै रंजनकैर्युतां च ।।५७।।
कलाप्रशालाभिरनन्तिकाभि-
र्भिषक्प्रशालाभिरभीष्टिकाभिः ।
रसप्रशालाभिरवन्तिकाभिः
सद्धर्मशालाभिरतीव युक्ताम् ।।५८।।
विद्याध्रशालाभिरनुग्रिकाभिः
सङ्गीतशालाभिरमीतशोभाम् ।
सत्संगशालाभिरभीष्टमोदां
यन्त्रादिशालाभिरजस्रघोषाम् ।।९९।।
नक्षत्रवेधैर्घनवेधकैश्च
सामुद्रवेधैर्ग्रहवेधकैश्च ।
विदेशवेधैः समयप्रवेधै-
र्वायुप्रवेधैः समतत्त्ववेधैः ।।2.187.६०।।
उष्णप्रवेधैः सहितां प्रशीत-
वेधैर्घटीवेधकयन्त्रयुक्ताम् ।
विद्युत्प्रवेधै रसवेधकैश्च
स्वरादिवेधैश्च प्रदर्श्यवेधैः ।।६१।।
गन्त्रीप्रवेधैः शकटीप्रवेधै
र्देहप्रवेधैः पृथिवीप्रवेधैः ।
जलान्तवेधैः सहितां सुशोभां
' विज्ञानधां तां नगरीं ददर्श ।।६२।।
विमानसंघैः सततं रवाढ्यां
परीसमाभिः प्रमदाभिराप्ताम् ।
व्योमान्तचुम्ब्यूर्ध्वसुभौमशालां
द्यां चापरां तां नगरीं ददर्श ।।६३।।
शृंगारितां चागुरुधूपदीपै-
र्ध्वजैः पताकाभिरभीष्टभाव्याम् ।
जलस्रवाभिर्नलनालिकाभि-
स्तारैः स्वनाकर्षणकारिभिश्च ।।६४।।
दूरश्रवैस्तारकदीपकैश्च
स्थले स्थले मानससंहरां च ।
परीशनाम्नीं भगवान् ददर्श
सुरांगनामंदिरशोभितां च ।।६५।।
तां सम्प्रविष्टं सुमनोहरांगं
पूर्णेन्दुतुल्यं नवयौवनाढ्यम् ।
स्वर्णातपत्रेण च चामराभ्यां
सम्मानितं तं ददृशुः प्रजाश्च ।।६६।।
आरुह्य हर्म्याणि परीस्त्रियस्तदा
ससंभ्रमास्त्यक्तसमस्तवृत्तिकाः ।
व्यत्यस्तवस्त्राभरणा गवाक्षकैः
स्थिरेक्षणास्तं ददृशुः परं प्रियम् ।।६७।।
स्थले स्थले सौधकवल्लभीगत-
स्त्रीमण्डलैरक्षतपुष्पचन्दनैः ।
संवर्धितः श्रीपतिरीश्वरेश्वरो
जग्राह तासां हृदयार्पितार्पितम् ।।६८।।
तथैव हट्टाग्रकृतेक्षणास्तदा
वणिक्जना माननमस्य वै व्यधुः ।
नारीफलैः शुष्कफलैश्च बीजकै-
र्मुद्राभिरिष्टाभिरथाम्बरादिभिः ।।६९।।
विप्रास्तदा साक्षतचन्दनाद्यैः
पुष्पीयहारैरभिवादनाद्यैः ।
वेदस्थमन्त्रैः सुभगां प्रचक्रु-
रुच्चैश्च सामानि जगुः सहर्षाः ।।2.187.७ ०।।
धनाढ्यवर्गा धनदानकैश्च
दीना जना मानसदानकैश्च ।
भक्ता जना भक्तिसमर्पणैश्च
हरेस्तदा स्वागतकं व्यधुश्च ।।७१ ।।
राजा नगर्यां परितः ससैन्यकः
प्रभुं समभ्रामयदन्तसीम्निकाम् ।
पुरीं विलोक्यैव हरिः प्रशासनं
व्यधात् परीशानपुरीप्रशंसनम् ।।७२।।
नृपस्य सौधे च महर्षिकुट्यां
श्रेष्ठिप्रधानादिकमन्दिरेषु ।
विधाय पद्भ्यां बहुपावनीं क्ष्मां
पुरीं सुतीर्थं प्रचकार कृष्णः ।।७३ ।।
एवं परिभ्रम्य निवर्तनं व्यधाद्
राजाधिराजो नृपमन्दिरं प्रति ।
आगत्य यानाद् बहिरेत्य मन्दिरं
प्रति प्रपन्नोऽभवदिष्टशान्तये ।।७४।।
जलं पपौ शान्तिमवाप वै क्षणं
ततः सभायां समुपाजगाम च ।
उच्चासने राजकृते विधापिते
विराजमानोऽभवदच्युतस्तदा ।।७५।।
उपादिदेशाऽथ जनान् नृपादिकान्
परावरेशो जगदुद्धृतिस्थितिः ।
तूष्णीं न्यषीदन् सकलाः प्रजाजना
राधे चकोरा इव चन्द्रमानसाः ।। ७६।।
दधुर्मनांसीन्द्रियवृत्तिका हरौ
समस्तकान्ते निजभक्तकान्तिदे ।
सदा सुधावर्षिणि साधुवृत्तिके
निजात्मकान्ते प्रियकृष्णवल्लभे ।।७७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रजानां सम्मर्दो हरेः शोभा गजयानारोहणं प्रजानामाकर्षणं परीशानानगर्या भ्रमणं राजसौधागमनं चेत्यादिनिरूपणनामा सप्ताशीत्यधिकशततमोऽध्यायः ।। १८७ ।।
 
</span></poem>
३२,०२३

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/224935" इत्यस्माद् प्रतिप्राप्तम्