"लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १८८" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
({{header | title = लक्ष्मीनारायणसंहिता - लक्ष्मीनारा... नवीन पृष्ठं निर्मीत अस्ती)
 
 
| notes =
}}
<poem><span style="font-size: 14pt; line-height:200%">श्रीकृष्ण उवाच-
राधिके श्रीबालकृष्ण उपादिदेश संसदम् ।
परीशाननगर्यां यत् तत्ते संश्रावयाम्यहम् ।। १ ।।
हरिः प्राह हि संसारे मरणं ध्रुवमेव हि ।
शरीरं गत्वरं प्राणा गत्वरा गत्वराः श्रियः ।। २ ।।
संयोगा गत्वराः सर्वं ब्रह्माण्डं चापि गत्वरम् ।
गत्वराणि हि भूतानि चात्माऽन्यत्र गमिष्यति ।। ३ ।।
पुनर्नैतादृशं प्राप्यं गत्वरं कृतबुद्धिना ।
आत्मना स्थास्नुना लभ्यः स्थास्नुर्मोक्षो हि शाश्वतः ।। ४ ।।
अग्रिमाणां क्षितिभुजां मान्यो देवमहर्षिभिः ।
वर्धितः स्वस्तिवचनैराशीर्भिर्योजितो नृपः ।। ५ ।।
आविक्षितो मरुत्तश्च महाभागवतो ह्यभूत् ।
यस्य सेन्द्राः सवरुणा बृहस्पतिपुरोगमाः ।। ६ ।।
देवा विश्वसृजो राज्ञो यज्ञमीयुर्महात्मनः ।
यस्मिन् शासति पृथिवी चाऽकृष्टपाकदाऽभवत् ।। ७ ।।
यस्य यज्ञे तदाऽऽसँश्च विश्वेदेवाः सभासदः ।
मरुतः परिवेष्टारः साध्याश्च साधवस्तथा ।। ८ ।।
अहमासं क्रतौ भोक्ता मूर्तिमाननले तदा ।
स राज्यं मत्परं कृत्वा कृत्वा स्वं मत्परायणम् ।। ९ ।।
ययौ धामाऽक्षरं मे च तथा कार्यं नृपैरिह ।
सुहोत्रो नाम नृपतिस्तथा भागवतोऽभवत् ।। 2.188.१ ०।।
यस्मिन् हिरण्यं ववृषे मघवा परिवत्सरम् ।
सत्यनामा वसुमती स्वर्णं नद्योऽवहँस्तदा ।। ११ ।।
इन्द्रो ववर्ष मकरान् कूर्मान् यादांसि यानि च ।
हिरण्यमयानि सम्राट् स ब्राह्मणेभ्यः समार्पयत् ।। ११।।
अहं श्रीबालकृष्णोऽस्मि सर्वपात्रेषु मां स तु ।
सुयष्ट्वा सोऽतिथिर्भूत्वा ययौ मे परमं पदम् ।। १३।।
अंगो बृहद्रथो राजा महाभागवतो ह्यभूत्। ।
यः सहस्रं सहस्राणां श्वेतानश्वान् प्रदत्तवान् ।। १४।।
सहस्रं च सहस्राणां कन्या हेमपरिष्कृताः ।
सहस्रं च सहस्राणां गजानामतिपद्मिनाम् ।। १५।।
शतं शतसहस्राणि वृषाणां हेममालिनाम् ।
सहस्राणि सुवर्णानां निष्काणां प्रतिमानवम् ।। १६।।
ईजानो वितते यज्ञे सोमसंस्थासु सप्तसु ।
भिक्षुकेभ्योऽपि विप्रेभ्यो दक्षिणा अत्यकालयत् ।। १७।।
कृत्वा मां सुप्रसन्नं च भजित्वा मां क्रतौ नृपः ।
महाभागवतो भूत्वा ययावन्ते तु मत्पदम् ।। १८।।
शिबिश्चौशीनरो राजा महाभागवतोऽभवत् ।
य इमां पृथिवीं सर्वां सुवर्णैरभ्यवेष्टयत् ।। १ ९।।
यावदस्यां गवाश्वं च हस्तिगवयकं तथा ।
अभूत् सर्वं प्रददौ स दानेऽसंख्यगुणं ततः ।।2.188.२०।।।
प्राप्य प्रसन्नतां मेऽत्र भूत्वा भागवतो महान् ।
मां भजित्वा ययौ धामाऽक्षरं मे शाश्वतं शिबिः ।।२१ ।।
भगीरथोऽनयद् गंगां पित्रुद्धारणहेतवे ।
महाभगवतो भूत्वा ययौ धामाऽक्षरं मम ।।२२।।
दिलीपः कृतवान् यज्ञं वैष्णवं मम तुष्टये ।
सहस्रं वारणान् हैमान् दक्षिणामत्यकालयत् ।।।२३।।
चषाले यस्य सौवर्णे तस्मिन् यूपे हिरण्मये ।
ननृतुर्देवगन्धर्वाः षट्सहस्राणि सप्तधा ।।२४।।
स प्रसाद्य परंब्रह्म मां भक्त्या सेवया सताम् ।
ययौ धामाऽक्षरं मे तु शाश्वतं चाऽपुनर्भवम् ।। २५।।
मान्धाता यौवनाश्वोऽभूद् राजा भागवतो महान् ।
इन्द्रो पोष्टाऽभवद् यस्य सर्वक्ष्माशासकोऽभवत् ।।२६।।
अश्वमेधशतं चक्रे राजसूयशतं तथा ।
हैरण्यान् रोहितान् मत्स्यान् ब्राह्मणेभ्योऽददत् स च ।। २७।।
यज्ञेषु मां प्रतर्प्यैव कृत्वा भक्तिं ममाऽधिकाम् ।
प्राप धामाऽक्षरं मे स कृतकृत्योऽभवत् सदा ।।२८।।
ययातिश्चाऽभवद् राजा नाहुषो भक्तिमान् मम ।
तीरक्षेपेण कुण्डं स कारयित्वाऽयजद्धि माम् ।।२९।।
चक्रे यज्ञसहस्रं स वाजपेयशतं तथा ।
ददौ दाने त्रीन् सुयोग्यान् स्वर्णशैलान् मदर्थकान् ।।2.188.३ ०।।
वने गत्वा स मां कृष्णं प्रसाद्याऽक्षरमाप्तवान् ।
अम्बरीषश्च नाभागो महाभागवतोऽभवत् ।। ३१ ।।
यः सहस्रं सहस्राणां राज्ञामयुतयाजिनाम् ।
ईजानो वितते यज्ञे मयि सर्वार्पणं न्यधात् ।।३२।।
सुदर्शनं मया चक्रं तद्रक्षार्थं समर्पितम् ।
सोऽन्ते धामाऽक्षरं प्राप प्रसाद्य मां परेश्वरम् ।। ३३।।
शशबिन्दुरभवच्च भूपो भागवतो महान् ।
यज्ञे राज्यं च सर्वस्वं दत्त्वा वनं जगाम ह ।।३४।।
मामाराध्य ययौ धामाऽक्षरं मे शाश्वतं स्थिरम् ।
गयो राजाऽभवच्छ्रेष्ठो महाभागवतः शुचिः ।। ३५।।
स च वर्षशतं राजा हुतशिष्टाशनोऽभवत् ।
अग्निस्तुष्टो वरदानं भक्तिरूपं ददौ हरौ ।। ३६।।
अयजद् वाजिमेधेन सहस्रं परिवत्सरम् ।
सौवर्णां पृथिवीं कृत्वा ददौ दानं द्विजातये ।। ३७।।
यावत्यो गांगसिकतास्तावतीः प्रददौ स गाः ।
माम् आराध्य चायुषोऽन्ते ममाऽक्षरपदं ययौ ।।३८।।
रन्तिदेवोऽभवद् राजा महाभागवतश्च सः ।
अतिथौ मां विलोक्यैव पुष्कसाय जलं ददौ ।। ३९।।
शतकोटिसहस्राणि भुञ्जते तद्गृहे द्विजाः ।
स मां प्रसाद्य सम्प्राप धामाऽक्षरपदं मम ।।2.188.४० ।।
सगरो नाम राजा च वाजिमेधसहस्रकम् ।
कृत्वा दत्वा च सर्वस्वं मामाराध्य गतोऽक्षरम् ।।४१ ।।
पृथुः साक्षादहमासं सोऽपि चाराधनां मम ।
कृत्वा विवेश मद्रूपे तथा कुर्वन्तु भूमिपाः ।।।४२।।
रुक्मांगदश्च राजर्षिर्धर्मांगदश्च तत्सुतः ।
आराध्य मां ययतुश्च मम धामाऽक्षरं परम् ।।४३ ।।
रुक्मांगदगृहे कन्या वेधसो मोहिनी प्रिया ।
पत्नीरूपाऽभवद् या तु वेधा तिथिः समुच्यते ।।४४।।
सुद्युम्नश्चाऽभवद् राजा ध्यात्वा नारायणं तु माम् ।
प्रापद् धामाऽक्षरं भक्त्या शाश्वतं मम वै प्रजाः ।।४५।।
इन्द्रद्युम्नोऽभवद् राजा पुरुषोत्तमभक्तराट् ।
मामारध्य ययौ धामाऽक्षरं वै शाश्वतं मम ।।४६।।
पुण्डरीकोऽभवद् राजा महाभागवतो मम ।
भक्त्या धामाऽक्षरं प्राप शाश्वतं परमं पदम् ।।४७।।
प्रह्लादश्च बलिर्बाणो भूपाः पातालवासिनः ।
राजस्था अपि भक्त्या मां तोषयन्ति दिवानिशम् ।।४८।।
उदयनो महाराजस्तथा रणंगमोऽपि च ।
चित्रकेतुस्तथा नन्दस्त्वेते भागवता मम ।।४९।।
कन्थाधरश्च भद्राश्वो लक्ष्मणो मुचुकुन्दकः ।
विशालश्च प्रजापालो दुर्जयोऽश्वशिरास्तथा ।।2.188.५०।।
चमत्कारः सत्यसन्धोऽमित्रजित् कलशो नृपः ।
पुण्यनिधिः सुयशश्च पंचालनृपतिस्तथा ।।५ १ ।।
अलर्कस्तोण्डमाँश्चापि नाभिः ऋतध्वजस्तथा ।
रन्तिर्वेदश्रवाश्चापि नन्दसावर्णिरित्यपि ।।५२।।
निमिध्रुवस्तथा धर्मध्वजः कुशध्वजस्तथा ।
दृढधन्वा दिवोदासश्चानर्त्तो रैवतादयः ।।।५ ३ ।।
एते त्वन्ये च बहवो राजानो वैष्णवा मम ।
मत्प्राप्तिं दुर्लभां प्राप्य संसिद्धाश्चाऽभवन् खलु ।।५४।।
सप्रजा बहवस्तत्र वैकुण्ठं प्रययुः परम् ।
प्रजानां पालनं धर्मो राज्ञां भक्तियुतो हरौ ।।५ ५ ।।
राजाज्ञापालनं धर्मः प्रजानां भक्तियुक् हरौ ।
एवं परस्परं कृत्वा साहाय्यं धर्मकांक्षिणः ।।५६।।
मम स्मृत्याऽन्वयेनैव ते बोध्या मोक्षभागिनः ।
मया नियुक्तः पुरुषः साध्वसाधु करोति हि ।।५७।।
स्वयं साधुप्रवाहः स्यान्न त्वसाधुप्रवाहणः ।
ज्ञानदृष्ट्या विचार्यैव साधु कुर्यान्न चेतरत् ।।५८।।
सर्वकर्मसु साधुत्वं मय्यर्पणं मया मतम् ।
मय्यर्पितं भवेत् साधु तद्भिन्नं नैव साधु तत्। ।।५९।।
नान्यद्रोहकरं कुर्यान्नोद्वेजनपरं क्वचित् ।
नात्महानिकरं कुर्यान्न कुर्याल्लोकगर्हितम् ।।2.188.६०।।
एवं वर्तेत मेधावी सर्वं प्रक्षिप्य वै मयि ।
तदा शान्तिं परां लब्धा तिष्ठेदन्तेऽक्षरे परे ।।६ १ ।।
नरा नार्यः कर्मनद्धा नाऽकर्माणो भवन्ति वै ।
नैसर्गिकी क्रिया या च साऽपि क्षिपेन्मयीश्वरे ।।६२।।
वह्नौ क्षिप्तं यथा काष्ठं शुष्कमार्द्रं च वेतरत् ।
द्रुतं चिरेण वा भस्मीभवेन्नैवात्र संशयः ।।६३ ।।
तथा कर्म शुभं वाऽन्यत् क्षिपेन्मयि परेश्वरे ।
भस्मीकुर्या समर्थोऽस्मि मोक्षयाम्यपि कर्मदम् ।।६४।।
अथवा तदुपादानात् प्राप्नुयात् कर्मणः फलम् ।
प्राप्नुयादिति हेतोश्च मयीश्वरे निवेदयेत् ।।६१।।
तथापि पुरुषः कर्ता कर्मणोः शुभपापयोः ।
साभिमानोऽज्ञानवृत्त्या भोक्ता स्यात् तत्फलेऽपि च ।।६६।।
कर्मसूत्रात्मकं सर्वं सन्नद्धं क्रमशः खलु ।
सुखदुःखगुणोदर्कं मयि न्यस्तं विशीर्यते ।।६७।।
यो हि कर्मसमारम्भे भवेत् तद्भावभावितः ।
तदा तेनाभिभूयेत मयीते नाभिभूयते ।।६८।।
मय्येव कलुषं सर्वं समाप्तं जायते ततः ।
प्रायश्चित्तं न तस्यास्ति भोगो वा विद्यतेऽस्य न ।।६९।।
अकुर्वन् विहितं कर्म प्रतिषिद्धं तथाऽऽचरन् ।
प्रायश्चित्तीयते देही मय्यर्पणविवर्जितः ।।2.188.७० ।।
अकार्याणि न मनुजो जातु कुर्यात् तथाहि वै ।
स्वधर्मस्य परित्यागं परधर्मानुवर्तनम् ।।७१ ।।
शरणागतसन्त्यागं भृत्यस्याऽऽभरणादिकम् ।
परस्वापाभिहरणं पित्रा वादं न वै चरेत् ।।७२।।
स्त्रीत्यागं च युवा कान्तो न वै कुर्यात् कदाचन ।
पत्नी च युवती कान्तं न त्यजेद्वै कदाचन ।।७३।।
आश्रितानां सुभरणं कर्तव्यं सर्वदा मतम् ।
वृद्धानां सेवनं कार्यं दीनानां तु सहायता ।।७४।।
असत्यं न वदेत् क्वापि पारुष्यं छलसंभृतम् ।
जीवानां हिंसनं नैव कुर्याद् दयापरो भवेत् ।।७५।।
आश्रितानां पशूनां च कुर्यात् क्षुत्तृट्निवारणम् ।
परोपकारं कुर्याच्च सतश्च भोजयेत् सदा ।।७६।।
सतां सेवां प्रकुर्याच्च मम सेवां च सर्वदा ।
आत्मानं सुखिनं कुर्यान्नोद्वेगे स्वं नयेत् क्वचित् ।।७७।।
नाऽन्यानुद्वेजयेत् क्वापि वृथामृषाऽनृतादिभिः ।
हरेः संकीर्तनं कुर्यात् सततं वचसा हृदा ।।७८।।
ध्यानं हरेः सदा कुर्यान्मुक्तिदं पापनाशकम् ।
कुर्याच्छुभानि कर्माणि निवर्तेत शुभेतरात् ।।७९।।
दद्याद् वित्तादि नित्यं च तेन मुच्येत किल्बिषात् ।
शिष्टाचारः परो धर्मो देशकालादियोजितः ।।2.188.८० ।
सेवितव्यः स एवात्र प्रेत्येह च सुखेप्सुना ।
दैवदेशे जपं कुर्यात् होमं चोपोषणादिकम् ।।८ १ ।।
दैवसन्दर्शनं ज्ञानं कुर्यादात्मप्रशोधनम् ।
न गर्वेण भवेत् प्राज्ञः कदाचिन्मृत्युधर्मवान् ।।८२।।
देवानृषीन्मनुष्याँश्च पितॄन् गृह्याश्च देवताः ।
पूजयित्वा हरिं चापि गृहस्थो भोक्तुमर्हति ।।।८३ ।।
एवं कृत्वा न लिप्येत राजा प्रजाऽथ साधवः ।
स्त्रियो दीना वृन्दलाश्च तथा कुर्वन्तु सर्वथा ।।८४।।
मम नाम गृणन्नित्यं स्मरन्मां सर्वतः क्षणम् ।
कुर्वन् सर्वाणि कर्माणि मयि न्यस्य न लिप्यते ।।८५।।
तथा कुर्वन्तु सततं मां स्मृत्वा मयि चार्पणम् ।
अहं मोक्ष्यामि सर्वान् मे वैष्णवान् मत्परायणान् ।।८६।।
अस्तु स्वस्ति तु भवतां राज्ञां राजकुटुम्बिनाम् ।
प्रजानां च प्रजेशानां दीनानां तु विशेषतः ।।८७।।
अस्तु स्वस्त्यबलानां च मदर्थकृतकर्मणाम् ।
सर्वदा स्वस्ति चास्त्वेव हरिः शं विदधातु वः ।।८८।।
इत्युक्त्वा राधिके बालकृष्णः श्रीकृष्णवल्लभः ।
परीशानसभायां तु क्षणं तूष्णीमभूत्तदा ।।८९।।
राजा पूजां च विदधेऽसंख्यमौक्तिकहीरकैः ।
हाराद्यैरम्बराद्यैश्च चन्दनाद्यैः सुगन्धिभिः ।। 2.188.९०।।
आरार्त्रिकं महच्चक्रे राज्ञी राजकुमारिकाः ।
कुमाराश्च प्रधानाश्च प्रजाश्चापि प्रचक्रिरे ।।९ १ ।।
वन्दनं स्तवनं कृत्वा चखदुश्च प्रसादकम् ।
हरिणा करदत्तं च ततश्च राजकन्यकाः ।।९२।।
एकविंशतिसंख्याका युवत्यो मुग्धमानसाः ।
हरेः करं जगृहुश्च विवाहविधिना तदा ।।९३ ।।
करगृहोत्तरं शीघ्रं राजा महोत्सवं निशि ।
भोजयित्वा महीमानान् हरिं प्राघूणिकादिकान् ।।९४।।
कारयामास ललितं नृत्यगीतिकलादिभिः ।
रात्रौ प्राघूणिकाः सर्वे विश्रान्तिं चापुरुत्तमाम् ।।९५।।
कन्यकास्तु नवं कान्तं सिषेविरेऽतिभावतः ।
प्रातरुत्थाय भगवान् नैजं ध्यानं चकार ह ।।९६।।
राजाऽपि त्वाययौ कृष्णपूजार्थं च पुपूज तम् ।
एवं महोत्सवो राधे वृत्तो वै पारमेश्वरः ।।९७।।
परीशानानगर्यां चोपदाः प्रजास्ततो ददुः ।
विदायं जगृहे कृष्णनारायणस्तदा नृपः ।।९८।।
दुग्धपानादिकं सर्वान् कारयामास भावतः ।
लोमशस्तु प्रजाभ्यो वै मनुं ददौ च तारकम् ।।९९।।
हरिः सज्जो त्रभूवाऽथ गन्तु परीजपर्वतम् ।
इन्दुरायो नृपस्तस्याऽऽग्रहं चाति चकार ह ।। 2.188.१० ०।।
तदा वाद्यान्यवाद्यन्त हरिर्विमानमास्थितः ।
अन्ये विमानगास्तत्राऽभवँस्ततो नृपाज्ञया ।। १०१ ।।
व्योममार्गेण च ययुश्चेन्दुरायस्य राष्ट्रकम् ।
हरिर्विलोकयामास भूतलं पर्वतान्वितम् ।। १ ०२।।
स्वागतार्थं चेन्दुरायस्त्वग्रे ययौ कुटुम्बवान् ।
सन्मानतूर्यनिनदास्तदाऽभवन् समन्ततः ।। १० ३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने परीशानाप्रजादिभ्य उपदेशदानं पूजनं विमानैः सप्तम्यां प्रातः परीजराष्ट्रागमनं चेत्यादिनिरूपणनामाऽष्टाशीत्यधिकशततमोऽध्यायः ।। १८८ ।।
 
</span></poem>
२९,७६९

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/224950" इत्यस्माद् पुनः प्राप्तिः