"पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/६७" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: [अ०१. सू०१.] ५४१ अष्टादशं काण्डम। मित्रश्चिद्धि... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१०:३५, १० फेब्रवरी २०२० इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ०१. सू०१.] ५४१ अष्टादशं काण्डम। मित्रश्चिद्धि मा जुहुराणो देवांलोको न यातामपि वाजो अस्ति ॥ ३३ ॥ . किम् । स्वित् । नः । राजा । जगृहे । कत् । अस्य । अति । व्रतम् । चक- म। कः। वि । वेदु । मित्रः । चित् । हि। स्म । जुहुराणः । देवान् । श्लोकः । न । याताम् । अपि । वाजः । अस्ति ॥ ३३ ॥ राजा देवेषु मध्ये क्षत्रियजातिर्यमो नः अस्माकं संबन्धि किंचिद्धवि- रादिकं किं स्वित् जगृहे गृह्णाति । कत् कदा अस्प यमस्य मीणनं व्रतम् कर्म यमप्रीतिकरं नित्यनैमित्तिकरूपं कर्म अति चकृम अतिक्रम कृतवन्तः स्मः । को वि वेद तत् को जानाति । अविद्यमानं ज्ञातुं [कः शक्रोति । यमविषयापराधपरिहारोस्तीत्याह । देवान ह्वातव्यान जु- हुराणः आह्वयन । हृ कौटिल्ये । कानचि रूपम् । धातूनाम् अनेकार्थवाद् अत्र यत्यर्थः । मित्रः मित्रवद्धितकारी अग्निर्वि- द्यते । चित हि स्म इति पादपूरणाः । सर्व स एव परिहरिष्यतीत्यर्थः । यातन देवानभिगच्छतो नः अस्मान् रक्षितुं श्लोको न । नेति उपमा- र्थे । श्लोकः स्तुतिः । स्तुतियथास्ति एवं वाजोपि हविर्लक्षणम् अन्नं च विद्यते । अस्मान रक्षितुं स्तुत्या हविषा च अमिं परितोष्य तन्मुखाद् यमस्यापराधं परिहरिष्याम इत्यभिप्रायः ॥ चतुर्थी॥ दुर्मन्वत्रामृतस्य नाम सलक्ष्मा यद् विधूरूपा भवाति । यमस्य यो मनवते सुमन्वने तमृष पाह्यमयुच्छन् ॥ ३४ ॥ दुःऽमन्तु । अत्र । अमृतस्य । नाम । सऽलक्ष्मा। यत् । विषुऽरूपा। भवाति । यमस्य । यः। मनवते । सुऽमनु । अमे। तम्। ऋष्व । पाहि । अमेऽयु- च्छन् ॥ ३४॥ B मिचिद्धि. We with AC KRV De. २ BAG k v देवानलो . We with R Dc. Ekv Dc यातानपि. We with ABC R. ४P यताम् ।. C यातान् ।. ५P भतु . ६ CP पाहि।