"अथर्ववेदः/काण्डं १/सूक्तम् ०३" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
({{header | title = अथर्ववेदः - अथर्ववेदः/काण्डं १|काण्... नवीन पृष्ठं निर्मीत अस्ती)
 
 
एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥९॥
</span></poem>
 
{{सायणभाष्यम्|
विद्मा शरस्य इति तृतीयसूक्तेन मूत्रपुरीषनिरोधे प्रमेहणसाधनहरीतकीकर्पूरबन्धनम्, मूषिकामृत्तिकापूतीकतृणदधिमथितजरत्प्रमन्ददारुतक्षणशकलानाम् अन्यतमस्य पायनम्, हस्त्यश्वादियानारोहणम, शरविसर्जनम्, शरेण मूत्रनालविदारणम्, लोहशकलस्य मूत्रद्वारे प्रवेशनम् इत्येवमादीन्यपि सूत्रोक्तप्रकारेण व्याधितस्य कुर्यात् । 'विषितं ते वस्तिबिलम्' इति द्व्यृचेन मूषिकामृत्तिकाद्युक्तद्रव्येषु निरुद्धमूत्रपुरीषं पुरुषम् आस्थापयेत् । “ 'विद्मा शरस्य' इति प्रमेहणं बध्नाति इत्यादि फाण्टं पाययति इति । उदावर्तिने च'” (कौसू २५,१०-१९) इत्येतदन्तं सूत्रं द्रष्टव्यम्
 
 
विद्मा शरस्य पितरं पर्जन्यं शतवृष्ण्यम् ।
 
तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥१॥
 
विद्म । शरस्य । पितरम् । पर्जन्यम् शतऽवृष्ण्यम् ।
 
तेन । ते । तन्वे । शम् । करम् । पृथिव्याम् । ते । निऽसेचनम् । बहिः । ते। अस्तु । बाल् । इति ॥ १ ॥
 
शरस्य हिंसकस्य बाणस्य पितरं पालकम् उत्पादकं वा विद्म यथावज्जानीमः। कीदृशम् । शतवृष्ण्यम् अपरिमितवीर्योपेतम् । विचित्रस्य तरुगुल्मादिरूपस्य स्थावरस्य पशुमृगनरादिरूपस्य जङ्गमस्य च उत्पादने पोषणे च समर्थम् इत्यर्थः । ईदृशं पर्जन्यं वृष्टिप्रदं देवम् । पितृत्वेन जानीम इति पूर्वेण संबन्धः। वर्षतीति वृषा । वृष सेचने । 'कनिन् युवृषितक्षि' ( पाउ १,१५६ ) इत्यादिना कनिन् प्रत्ययः । वृष्णि भवं वृष्ण्यम् । 'भवे छन्दसि' (पा ४,४.११० ) इति यत् । 'अल्लोपोऽनः' (पा ६,४,१३४) इत्युपधालोपः। 'ये चाभावकर्मणोः' (पा ६,४,१६८ ) इति प्रकृतिभावस्तु व्यत्ययेन न प्रवर्तते । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । तेन उक्तलक्षणेन शरेण । 'अन्येषामपि दृश्यते' (पा ६,३,१३७ ) इति सांहितिको दीर्घः। हे मूत्रनिरोधादिव्याधिग्रस्त ते तव तन्वे । आडभावश्छान्दसः। षष्ट्यर्थे चतुर्थी । तनुशब्दात् 'ऊङ् उतः' (पा ४, १,६६ ) इत्यूङ् । 'उदात्तयणो हल्पूर्वात्' ( पा ६,१,१७४) इति विभक्त्युदात्तत्वस्य 'नोङ्धात्वोः' (पा ६,१,१७५ ) इति प्रतिषेधे 'उदात्तस्वरितयोर्यणः स्वरितोनुदात्तस्य' (पा ८,२,४) इति विभक्तिः स्वर्यते। तन्वाः शरीरस्य शं रोगाणाम् उपशमनम् । आह च यास्कः - 'शमनं च रोगाणां यावनं च भयानाम्' ( या ४,२१) इति । करं करोमि। शमिति । शमु उपशमने। अस्मात् भावे विच् । करम् । डुकृञ् करणे 'छन्दसि लुङ्लङ्लिटः' (पा ३,४,६) इति वर्तमाने लुङ् । 'कृमृदृरुहिभ्यश्छन्दसि' (पा ३,१,५९) इति च्लेरङादेशः । 'बहुलं छन्दस्यमाङयोगेऽपि' ( पा ६,४,७५ ) इति अडभावः । 'आशंसायां भूतवच्च' (पा ३, ३,१३२) इति प्रार्थनायां वा लुङ् । शमनप्रकारमेव दर्शयति ते तव मूत्ररोगार्तस्य पृथिव्यां भूमौ । पृथिवीशब्दो ङीषन्तः अन्तोदात्तः । 'उदात्तयणो हल्पूर्वात्' (पा ६,१,१७४ ) इति विभक्तेरुदात्तत्वम् । निषेचनं नितरां सेकः प्रस्तावः । अस्त्विति संबन्धः । निपूर्वात् सिञ्चतेर्भावे ल्युट् । 'उपसर्गात्सुनोति'( पा ८,३,६५) इत्यादिना षत्वम् ‘लिति' (पा ६,१,१९३) इति प्रत्ययात् पूर्वस्य उदात्तत्वम् । समासेपि कृदुत्तरपदप्रकृतिस्वरत्वेन स एव अवशिष्यते । निषेचनप्रकारम् आह - ते तव शरीरान्तर्निरुद्धं मूत्रं बाल् । अनुकरणशब्दोयम् । इति अनेन प्रकारेण शब्दं कुर्वत् बहिरस्तु बाह्यप्रदेशे भवतु । मन्त्रसामर्थ्याद् विविधं शब्दं कुर्वत् त्वरया शरीरात् निर्गच्छतु इत्यर्थः । यद्वा बाल् । बल प्राणने । अस्मात् ण्यन्तात् क्विप् । इतिर्हेतौ । अस्य रोगार्तस्य जीवनहेतोः मूत्रं बहिरस्त्विति ।
 
 
विद्मा शरस्य पितरं मित्रं शतवृष्ण्यम् ।
 
तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥२॥
 
विद्म । शरस्य । पितरम । मित्रम् । शतऽवृष्ण्यम् ।
 
तेन । ते । तन्वे । शम् । करम् । पृथिव्याम् । ते । निऽसेचनम् । बहिः । ते । अस्तु । बाल् । इति ॥ २॥
 
अहरभिमानी देवो मित्रः । स च सर्वेषां प्राणिनां हि मित्रवत् हितकारित्वात् मित्र इत्युच्यते । तैत्तिरीयके मित्रस्य वाक्यम्--'सर्वस्य वा अहं मित्रमस्मि' (तै ६,४,८,१) इति । यास्कस्तु अन्यथा निरवोचत्- 'मित्रः प्रमीतेस्त्रायते' (या १०,२१) इति । सोपि वृष्टिहेतुत्वेन शरस्य उत्पादयितृत्वात् पितृत्वेन व्यपदिश्यते। श्रूयते हि-'मैत्रं वा अहः । वारुणी रात्रिः' (तैब्रा १,७,१०,१;२) । 'अहोरात्राभ्यां खलु वै पर्जन्यो वर्षति मित्रावरुणावेव स्वेन भागधेयेनोपधावति तावेवास्मा अहोरात्राभ्यां पर्जन्यं वर्षयतः' (तै २,४,१०,२) इति । शेषं पूर्ववद् योज्यम् ।
 
 
विद्मा शरस्य पितरं वरुणं शतवृष्ण्यम् ।
 
तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥३॥
 
विद्म । शरस्य । पितरम् । वरुणम् । शतऽवृष्ण्यम् ।
 
तेन । ते । त॒न्वे । शम् । करम् । पृथिव्याम् । ते । निऽसेचनम् । बहिः । ते । अस्तु । बाल् । इति ॥३॥
 
वरुणो राज्यभिमानी देवः । वृणोति तमसा पाशैर्वा प्राणिजातम् इति वरुणः 'वरुणो वृणोतीति सतः' ( या १०,३) इति यास्कः । वृञ् वरणे इत्यस्मात् ?क ॄतॄवृदारिभ्य उनन्' (पाउ ३,५३) इति उनन् प्रत्ययः। 'नित्यादिर्नित्यम्' (पा ६,१,१९७) इति आदिरुदात्तः। शेषं पूर्ववद् व्याख्येयम् ।
 
 
विद्मा शरस्य पितरं चन्द्रं शतवृष्ण्यम् ।
 
तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥४॥
 
विद्म । शरस्य । पितरम् । चन्द्रम् । शतऽवृष्ण्यम् ।
 
तेन । ते । तन्वे । शम् । करम् । पृथिव्याम् । ते । निऽसेचनम् । बहिः । त । अस्तु । बाल् । इति ॥ ४ ॥
 
चन्द्रः । चदि आह्लादने। 'स्फातियञ्चि' (पाउ २,१३) इत्यादिना रक् प्रत्ययः आह्लादकारी देवः । आह च यास्कः -- ‘चन्द्रश्चन्दतेः कान्तिकर्मणः' (या ११,५) इति । अस्य ओषधीशत्वात् शरस्य पितृत्वेन व्यपदेशः ।
 
 
विद्मा शरस्य पितरं सूर्यं शतवृष्ण्यम् ।
 
तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥५॥
 
विद्म। शरस्य । पितरम् । सूर्यम् । शतऽवृष्ण्यम् ।
 
तेन । ते । त॒न्वे । शम् । करम् । पृथिव्याम् । ते । निऽसेचनम् । बहिः। ते । अस्तु । बाल । इति ॥ ५॥
 
सूर्यः। सरति गच्छतीति वा सुवति प्रेरयति तत्तद्व्यापारेषु कृत्स्नं जगद् इति वा सूर्यः । यद्वा सुष्ठु ईर्यते प्रकाशप्रवर्षणादिव्यापारेषु जगद्विधात्रा परमेश्वरेण प्रेर्यत इति सूर्यः । श्रूयते हि -–'भीषास्माद् वातः पवते भीषोदेति सूर्यः' (तैउ २,८) इति । तद् एतत् सर्वं यास्केनोक्तम्--‘सूर्यः सर्तेर्वा सुवतेर्वा स्वीर्यतेर्वा' (या १२,१४) इति । अथ वा शोभनं वीर्यम् अस्यति सूर्यः । तथा च तैत्तिरीयकम्--'सुवीर्योमर्या यथा गोपायत इति । तत् सूर्यस्य सूर्यत्वम्' (तैब्रा २,२,१०,४) इति । पाणिनिना तु 'राजसूयसूर्य' (पा ३,१,११४) इत्यादिना क्यबन्तो निपातितः । क्यपः पित्त्वाद् अनुदात्तत्वे धातुस्वरेण आद्युदात्तत्वम् । अयमपि वृष्टिद्वारा सर्वेषां पोषकत्वात् पिता । श्रूयते हि – 'यदा खलु वा असावादित्यो न्यङ् रश्मिभिः पर्यावर्ततेऽथ वर्षति'(तै २,४,१०,२) इति ।
 
अनेन सूक्तेन क्रियमाणेषु कर्मसु पर्जन्यमित्रादयो देवतात्वेन मन्त्रवर्णाद् अवगन्तव्याः । यदाह --
 
'तद्धितेन चतुर्थ्या वा मन्त्रलिङ्गेन वेष्यते ।
 
देवतासंगतिस्तत्र दुर्बलं तु परं परम् ॥' इति।
 
यदि इह कर्मसु विनियुज्यमाना मन्त्रा उच्चारणमात्रेण अदृष्टजनकाः स्युः तदा अनुष्ठेयार्थपरत्वाभावाद् देवतानाम् असिद्धिर्भवेत् । न च तथा । मन्त्राणाम् अनुष्ठेयार्थप्रकाशकत्वस्य प्रमाणलक्षणे 'तदर्थशास्त्रात्' (मीसू १,२,३१) इत्यधिकरणे निर्णीतत्वात् । तथाहि-'उरु प्रथस्व' - (तै १,१,८,१) इत्यादिमन्त्रोच्चारणस्य किम् अदृष्टं प्रयोजनम् उत अनुष्ठयार्थप्रतिपत्तिरिति । अदृष्टमेवेति तावत् प्राप्तम् न तु प्रथनादिलक्षणस्यार्थस्य अवगतिः। तस्य ब्राह्मणवाक्येनापि भासमानत्वात् । 'उरु प्रथस्वेति पुरोडाशं प्रथयति' इति हि ब्राह्मणवाक्यम् । नैतद् युक्तम् । अर्थप्रत्यायनस्य दृष्टप्रयोजनस्य संभवे सति केवलादृष्टस्य कल्पयितुम् अशक्यत्वात् । तस्माद् दृष्टम् अर्थानुस्मरणमेव यागप्रयोगे मन्त्रोच्चारणस्य प्रयोजनम् । ब्राह्मणवाक्येनापि अर्थानुस्मरणसंभवे मन्त्रेणैव अनुस्मरणीयम् इति यो नियमः तस्य दृष्टासंभवाद् अदृष्टं प्रयोजनम् अस्तु । यदाहुः--
 
'मन्त्रा उरु प्रथस्वेति किम् अदृष्टैकहेतवः ।
 
यागेषूत पुरोडाशप्रथनाद्यवभासकाः ॥
 
ब्राह्मणेनापि तद्भानान्मन्त्राः पुण्यैकहेतवः ।
 
न तद्भानस्य दृष्टत्वाद् दृष्टं वरम् अदृष्टतः॥' (मीन्या १,२,११,१२) इति
 
 
यदान्त्रेषु गवीन्योर्यद्वस्तावधि संश्रितम् ।
 
एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥६॥
 
यत् । आन्त्रेषु । गवीन्योः । यत् । वस्तौ । अधि । सम्ऽश्रितम् ।
 
एव । ते । मूत्रम् । मुच्यताम् । बहिः । बाल् । इति । सर्वकम् ॥ ६॥
 
आन्त्रेषु उदरान्तर्गतेषु पुरीतत्सु । अधिः सप्तम्यर्थानुवादी। यत् मूत्रं संश्रितं समवस्थितं रोगवशाद् यथाकालं बहिरनिर्गच्छत् निरुद्धम् अभूत् तथा गवीन्योः । आन्त्रेभ्यो विनिर्गतस्य मूत्रस्य मूत्राशयप्राप्तिसाधने पार्श्वद्वयस्थे नाड्यौ गवीन्यौ इत्युच्यते । तयोरपि यत् मूत्रं संश्रितम् तथा वस्तौ । धनुराकारो मूत्राशयो वस्तिरुच्यते । तत्रापि यद् मूत्रं संश्रितम् अस्ति ते तव उक्तस्थानेषु निरुद्धं तत् मूत्रम् एव एवम् । अन्त्यलोपश्छान्दसः । 'निपातस्य च' (पा ६,३,१३६ ) इति सांहितिको दीर्घः । ‘एवमादीनामन्तः' (फि ४,१४ ) इत्यन्तोदात्तत्वम् । यथापूर्वं मुच्यतां निर्गच्छतु। निर्गमनप्रकारमेव आह । सर्वकं सर्वं तत् मूत्रम् । 'अव्ययसर्वनाम्नाम् अकच् प्राक् टेः' (पा ५,३,७१ ) इति अकच । 'चितः सप्रकृतेर्बह्वकजर्थम्' ( पावा ६,१,१६३ ) इति सप्रकृतिकस्य प्रत्ययस्य 'चितः' (पा ६,१,१६३ ) इत्यन्तोदात्तता। तत् मूत्रं बाल् । अनुकरणशब्दोयम् । इति एवमात्मकं शब्दं कुर्वद् बहिः शरीराद् बाह्यप्रदेशे मुच्यताम् इति संबन्धः ।
 
 
प्र ते भिनद्मि मेहनं वर्त्रं वेशन्त्या इव ।
 
एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥७॥
 
प्र । ते। भिनद्मि । मेहनम् । वर्त्रम् । वेशन्त्याःऽइव ।
 
एव । ते । मूत्रम् । मुच्यताम् । बहिः । बाल् । इति । सर्वकम् ॥ ७ ॥
 
हे मूत्रव्याधिपीडित ते तव मेहनम् । मिह्यति सिञ्चति अनेनेति मेहनम् मूत्रनालः । करणे ल्युट् । 'लिति' (पा ६,१,१९३ ) इति प्रत्ययात् पूर्वस्य उदात्तः । तत् मेहनं प्र भिनद्मि लोहशलाकया मूत्रनिर्गमनार्थं विदारयामि । 'व्यवहिताश्च' (पा १,४,८२ ) इति प्रोपसर्गस्य क्रियापदेन संबन्धः। तत्र दृष्टान्तः - वर्तम् । वर्तते प्रवहति जलम् अत्रेति वर्तो मार्गः। वृतु वर्तने । अस्माद् अधिकरणे घञ् । ते वेशन्त्या इव । विशन्ति तिष्ठन्ति अस्मिन् आप इति वेशन्तः पल्वलम् । विश प्रवेशने । 'जॄविशिभ्यां झच्' ( पाउ ३,१२६ ) इति झच् प्रत्ययः । 'झोन्तः' ( पा ७,१,३ ) इति झस्यान्तादेशः । तत्र भवा आपो वेशन्त्याः । 'भवे छन्दसि' (पा ४,४,११० ) इति यत् । ता यथा सुनिर्गमनमार्गं विदारयन्ति तथेत्यर्थः । एव एवम् इत्थं निरुद्धमूत्रनिःसरणाय मार्गस्य कृतत्वात् । ते मूत्रं मुच्यताम् इत्यादि पूर्ववद् व्याख्येयम् ।
 
 
विषितं ते वस्तिबिलं समुद्रस्योदधेरिव ।
 
एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥८॥
 
विऽसितम् । ते । वस्तिऽबिलम् । समुद्रस्य । उदधेःऽइव ।
 
एव । ते । मूत्रम् । मुच्यताम् । बहिः । बाल् । इति । सर्वकम् ॥ ८॥
 
हे मूत्ररोगार्त ते तव वस्तिबिलं वस्तिद्वारं व्याधिवशात् निरुद्धं मूत्रवर्त्म विषितं विमुक्तं मूत्रनिःसरणयोग्यम् अस्तु । षो अन्तकर्मणि । अस्माद् विपूर्वात् निष्ठा । 'द्यतिस्यतिमास्थामित्ति किति' (पा ७,४,४०) इति इत्त्वम् । 'उपसर्गात् सुनोति' (पा ८,३, ६५) इत्यादिना षत्वम् । तत्र दृष्टान्तः - समुद्रस्य । समुनत्ति स्वकीयेन जलेन कृत्स्नं जगत् क्लेदयतीति समुद्रः । उन्दी क्लेदने । 'स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दि' (पाउ २,१३) इत्यादिना रक् प्रत्ययः । समुद्रं यास्कस्तु बहुधा निरवोचत्--'समुद्रः कस्मात् । समुद्द्रवन्त्यस्मादापः, समभिद्रवन्त्येनमापः, संमोदन्तेऽस्मिन् भूतानि, समुदको भवति, समुनत्तीति वा' (या २, १०) इति । उदधेः । उदकानि धीयन्ते धार्यन्तेस्मिन्निति उदधिः । अनेन बिलवदवस्थितेषु नदीमुखेषु समुद्रजलस्य निःसरणयोग्यता उक्ता। डुधाञ् धारणपोषणयोः। अस्मात् 'कर्मण्यधिकरणे च' (पा ३,३,९३) इति किप्रत्ययः । 'आतो लोप इटि च' (पा ६,४,६४) इत्याकारलोपः। ‘पेषंवासवाहनधिषु च' (पा ६,३,५८) इत्युदकशब्दस्य उदभावः । 'गतिकारकोपपदात् कृत्' (पा ६,२,१३९) इति कृदुत्तरपदप्रकृतिस्वरत्वेन अन्तोदात्तता । उदकपूर्णसमुद्रस्य नदीमुखलक्षणं जलनिःसरणद्वारं यथा विवृतं भवति एवं वस्तिबिलमपि विवृतं भवत्वित्यर्थः। एव एवम् उक्तप्रकारेण । वस्तिबिले विषिते सतीत्यर्थः । शेषं पूर्ववद् व्याख्येयम् ।
 
 
यथेषुका परापतदवसृष्टाधि धन्वनः ।
 
एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥९॥
 
यथा । इषुका । पराऽअपतत् । अवऽसृष्टा । अधि । धन्वनः ।
 
एव । ते । मूत्रम् । मुच्यताम् । बहिः । बाल । इति । सर्वकम् ॥ ९॥
 
अज्ञाता इषुः इषुका । 'प्रागिवात् कः' (पा ५,३,७०) इति अज्ञातार्थे कप्रत्ययः। अधि धन्वनः। अधिः पञ्चम्यर्थानुवादी । आनतज्याद् धनुषः सकाशात् अवसृष्टा विमुक्ता सती यथा येन प्रकारेण परापतत् परापतति अनिरुद्धवेगा शीघ्रं लक्ष्योद्देशं गच्छति। पत गतौ। 'छन्दसि लुङ्लङ्लिटः' (पा ३,४,६) इति वर्तमाने लङ् । अवसृष्टेति । अवपूर्वात् सृज विसर्गे इत्यस्मात् कर्मणि निष्ठा । 'व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः' (पा ८,२,३६) इति षत्वे ष्टुत्वम् । ‘गतिरनन्तरः' (पा ६,२,४९) इति गतेः प्रकृतिस्वरत्वम् । एव एवम् । शेषं पूर्ववत् ।
 
इति प्रथमकाण्डे प्रथमेनुवाके तृतीयं सूक्तम् ।
 
 
}}
३०,१०१

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/225026" इत्यस्माद् पुनः प्राप्तिः