"अथर्ववेदः/काण्डं ६/सूक्तम् ०६८" इत्यस्य संस्करणे भेदः

{{header | title = अथर्ववेदः - अथर्ववेदः/काण्डं ६|काण्... नवीन पृष्ठं निर्मीत अस्ती
 
(भेदः नास्ति)

०५:३८, ११ फेब्रवरी २०२० समयस्य संस्करणम्

← सूक्तं ६.०६७ अथर्ववेदः - काण्डं ६
सूक्तं ६.०६८
ऋषिः - अथर्वा
सूक्तं ६.०६९ →
दे. १ सविता, आदित्याः, रुद्राः, वसवः, २ अदितिः, आपः, प्रजापतिः, ३ सविता, सोमः, वरुण-। १ पुरोविराड्तिशाक्वरगर्भा चतुष्पदा जगती, २ अनुष्टुप्, ३ अतिजगतीगर्भा त्रिष्टुप्।

आयमगन्त्सविता क्षुरेणोष्णेन वाय उदकेनेहि ।
आदित्या रुद्रा वसव उन्दन्तु सचेतसः सोमस्य राज्ञो वपत प्रचेतसः ॥१॥
अदितिः श्मश्रु वपत्वाप उन्दन्तु वर्चसा ।
चिकित्सतु प्रजापतिर्दीर्घायुत्वाय चक्षसे ॥२॥
येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् ।
तेन ब्रह्माणो वपतेदमस्य गोमान् अश्ववान् अयमस्तु प्रजावान् ॥३॥