"मत्स्यपुराणम्/अध्यायः ५७" इत्यस्य संस्करणे भेदः
Content deleted Content added
<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती |
No edit summary |
||
पङ्क्तिः १:
<poem>
रोहिणीचन्द्रशयनव्रतकथनम्।
दीर्घायुरारोग्यकुलाभिवृद्धियुक्तः पुमान् भूपकुलायुतः स्यात्।
मुहुर्मुहुर्जन्मनि येन सम्यक् व्रतं समाचक्ष्व तदिन्दुमौले!।। ५७.१ ।।
श्रीभगवानुवाच।
त्वया पृष्टमिदं सम्यक् उक्तञ्चाक्षय्यकारकम्।
रहस्यं तव वक्ष्यामि यत्पुराणविदो विदुः।। ५७.२ ।।
रोहिणीचन्द्रशयनं नाम व्रतमिहोत्तमम्।
तस्मिन्नारायणस्यार्च्यामर्चयेदिन्दुनामभिः।। ५७.३ ।।
यदा सोमदिने शुक्ला भवेत् पञ्चदशी क्वचित्।
अथवा ब्रह्मनक्षत्रं पौर्णमास्यां प्रजायते।। ५७.४ ।।
तदा स्नानं नरः कुर्यात् पञ्चगव्येन सर्षपैः।
आप्यायस्वेति तु जपेत् विद्वानष्टशतं पुनः।। ५७.५ ।।
शूद्रोऽपि परया भक्त्या पाषण्डालापवर्जितः।
सोमाय वरदायाथ विष्णवे च नमो नमः।। ५७.६ ।।
कृतजप्यः स्वभवनादागत्य मधुसूदनम्।
पूजयेत् फलपुष्पैश्च सोमनामानि कीर्तयन्।। ५७.७ ।।
सोमाय शान्ताय नमोऽस्तु पादावनन्तधाम्नेति च जानुजङ्घे।
ऊरुद्वयञ्चापि जलोदराय संपूजयेन्मेढ्रमनन्तब्राहवे।। ५७.८ ।।
नमो नमः कामसुखप्रदाय कटिः शशाङ्कस्य सदार्चनीया।
तथोदरञ्चाप्यमृतोदराय नाभिः शशाङ्काय नमोऽभिपूज्या।। ५७.९ ।।
नमोऽस्तु चन्द्राय मुखञ्च पूज्यं दन्ता द्विजानामधिपाय पूज्याः।
हास्यं नमश्चन्द्रमसेऽभिपूज्यमोष्ठौ कुमुद्वन्तवनप्रियाय।। ५७.१० ।।
नासा च नाथाय वनौषधीनां आनन्दभूताय पुनर्भ्रुवौ च।
नेत्रद्वयं पद्मिनिभन्तथेन्दो रिन्दीवरश्यामकराय शौरेः।। ५७.११ ।।
नमः समस्ताध्वरवन्दिताय कर्णद्वयं दैत्यनिषूदनाय।
ललाटमिन्दोरुदधिप्रियाय केशाः सुषुम्नाधिपतेः प्रपूज्याः।। ५७.१२ ।।
शिरः शशाङ्काय नमो मुरारेर्विश्वेश्वरायेति नमः किरीटिने।
पद्मप्रिये रोहिणि नाम लक्ष्मीः सौभाग्यसौख्यामृतचारुकाये।। ५७.१३ ।।
देवीं च संपूज्य सुगन्धपुष्पैर्नैवेद्यपुष्पादिभिरिन्दुपत्नीम्।
सुप्त्वाऽथ भूमौ पुनरुत्थितेन स्नात्वा च विप्राय हविष्ययुक्तः।। ५७.१४ ।।
देयः प्रभाते सहिरण्यवारिकुम्भो नमः पापविनाशनाय।
संप्राश्य गोमूत्रममांसमन्नमक्षारमष्टावथ विंशतिञ्च।।
ग्रामान् पयः सर्पियुतानुपोष्य भुक्त्वेतिहासं श्रृणुयान् मुहूर्त्तम्।। ५७.१५ ।।
कदम्बनीलोत्पलकेतकानि जातीसरोजं शतपत्रिका च।
अम्लानकुब्जान्यथ सिन्दुवारं पुष्पं पुनर्नारद! मल्लिकायाः।।
शुभ्रञ्च विष्णोः करवीरपुष्पं श्रीचम्पकं चन्द्रमसः प्रदेयम्।। ५७.१६ ।।
श्रावणादिषु मासेषु क्रमादेतानि सर्वदा।
यस्मिन् मासे व्रतादिः स्यात् तत्पुष्पैरर्चयेद्धरिम्।। ५७.१७ ।।
एवं संवत्सरं यावदुपास्य विधिवन्नरः।
व्रतान्ते शयनं दद्यात् दर्पणोपस्करान्वितम्।। ५७.१८ ।।
रोहिणीचन्द्रमिथुनं कारयित्वाऽथ काञ्चनम्।
चन्द्रः षडङ्गुलः कार्यो रोहिणी चतुरङ्गुला।। ५७.१९ ।।
मुक्ताफलाष्टकयुतं सितनेत्रपटावृतम्।
क्षीरकुम्भोपरि पुनः कांस्यपात्राक्षतान्वितम्।।
दद्यान्मन्त्रेण पूर्वाह्णे शालीक्षुफलसंयुतम्।। ५७.२० ।।
श्वेतामथ सुवर्णास्यां खुरै रौप्यैः समन्विताम्।
सवस्त्रभाजनां धेनुं तथा शङ्खञ्च शोभनम्।। ५७.२१ ।।
भूषणैर्द्विजदाम्पत्यमलङ्कृत्य गुणान्वितम्।
चन्द्रोऽहं द्विजरूपेण सभार्य्य इति कल्पयेत्।। ५७.२२ ।।
यथा न रोहिणीकृष्णशय्यां सन्त्यज्य गच्छति।
सोमरूपस्य ते तद्वन् ममाभेदोऽस्तु भूतिभिः।। ५७.२३ ।।
यथा त्वमेव सर्वेषां परमानन्दमुक्तिदः।
भुक्तिर्मुक्तिस्तथा भक्तिस्त्वयि चन्द्रास्तु मे सदा।। ५७.२४ ।।
संसारभयभीतस्य मुक्तिकामस्य चानघ!।
रूपारोग्यायुषामेतद्विधायकमनुत्तमम्।। ५७.२५ ।।
इदमेव पितॄणां च सर्वदा वल्लभं मुने!।
त्रैलोक्याधिपतिर्भूत्वा सप्तकल्पशतत्रयम्।।
चन्द्रलोकमवाप्नोति विद्युद् भूत्वा तु मुच्यते।। ५७.२६ ।।
नारी वा रोहिणीचन्द शयनं या समाचरेत्।
साऽपितत्फलमाप्नोति पुनरावृत्तिदुर्लभम्।। ५७.२७ ।।
इति पठति श्रृणोति वा य इत्थं मधुमथनार्चनमिन्दुकीर्तनेन नित्यम्।
मतिमपि च ददाति सोऽपि शौरेर्भवनगतः परिपूज्यतेऽमरौघैः।। ५७.२८ ।।
</poem>
|