"मत्स्यपुराणम्/अध्यायः ५८" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
तड़ागारामकूपादीनां प्रतिष्ठाविधिवर्णनम्।
 
सूत उवाच।
जलाशयगतं विष्णुमुवाच रविनन्दनः।
तड़ागारामकूपानां वापीषु नलिनीषु च।। ५८.१ ।।
 
विधिं पृच्छामि देवेश! देवतायतनेषु च।
के तत्र च ऋत्विजो नाथ! वेदी वा कीद्रृशी भवेत्।। ५८.२ ।।
 
दक्षिणावलयः कालः स्थानमाचार्य्य एव च।
द्रव्याणि कानि शस्तानि सर्वमाचक्ष्व तत्त्वतः।। ५८.३ ।।
 
मत्स्य उवाच।
श्रृणु राजन् महाबाहो! तड़ागादिषु यो विधिः।
पुराणेष्वितिहासोऽयं पठ्यते वेदवादिभिः।। ५८.४ ।।
 
प्राप्य पक्षं शुभं शुक्लमतीते चोत्तरायणे।
पुण्येऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम्।। ५८.५ ।।
 
प्रागुदक्प्रवणे देशे तड़ागस्य समीपतः।
चतुर्हस्तां शुभां वेदिं चतुरस्रां चतुर्मुखाम्।। ५८.६ ।।
 
तथा षोड़शहस्तः स्यान्मण्डपश्च चतुर्मुखः।
वेद्याश्च परितो गर्ता रत्नि मात्रास्ति मेखलाः।। ५८.७ ।।
 
नव सप्तार्थ वा पञ्च नातिरिक्ता नृपात्मज!।
वितस्तिमात्रा योनिः स्यात् षट्‌सप्ताङ्गुलिविस्तृता।। ५८.८ ।।
 
गर्ताश्चतस्रः शस्ताः स्यु स्त्रिपर्वोच्छ्रितमेखलाः।
सर्वतस्तुसवर्णाः स्युः पताकाध्वजसंयुताः।। ५८.९ ।।
 
अश्वत्थोदुम्बरप्लक्ष वटशाखाकृतानि तु।
मण्डपस्य प्रतिदिशं द्वाराण्येतानि कारयेत्।। ५८.१० ।।
 
शुभस्तत्राष्ट होतारो द्वारपालास्तथाष्ट वै।
अष्टौ तु जापकाः कार्य्याः ब्राह्मणा वेदपारगाः।। ५८.११ ।।
 
सर्वलक्षणसम्पूर्णो मन्त्रविद्विजितेन्द्रियः।
कुलशीलसमायुक्तः पुरोधाः स्याद्‌ द्विजोत्तमः।। ५८.१२ ।।
 
प्रतिगर्त्तेषु कलशा यज्ञोपकरणानि च।
व्यञ्जनञ्चमरे शुभ्रे ताम्रपात्रे सुविस्तृते।। ५८.१३ ।।
 
ततस्त्वनेकवर्णाः स्यु श्चरवः प्रति दैवतम्।
आचार्य्यः प्रक्षिपेद्‌ भूमावनुमन्त्र्य विचक्षणः।। ५८.१४ ।।
 
त्र्यरत्निमात्रो यूपः स्यात्‌ क्षीरवृक्षविनिर्मितः।
यजमानप्रमाणो वा संस्थाप्यो भूतिमिच्छता।। ५८.१५ ।।
 
हेमालङ्कारिणः कार्य्याः पञ्चविंशति ऋत्विजः।
कुण्डलानि च हैमानि केयूरकटकानि च।। ५८.१६ ।।
 
तथाङ्गुलयः पवित्राणि वासांसि विविधानि च।
पूजयेत्तु समं सर्वानाचार्य्या द्विगुणं पुनः।। ५८.१७ ।।
 
दद्याच्छयनसंयुक्तमात्मनश्चापि यत् प्रियम्।
सौवर्णकूर्म्ममकरौ राजतौ मत्स्यदुन्दुभौ।। ५८.१८ ।।
 
ताम्रौ कुलीरमण्डूकावायसः शिंशुमारकः।
एवमासाद्य तत्सर्वमादावेव विशाम्पते!।। ५८.१९ ।।
 
यजमानः सपत्नीकः पुत्रपौत्रसमन्वितः।
पश्चिमं द्वारमासाद्य प्रविशेद्यागमण्डपम्।। ५८.२० ।।
 
ततो मङ्गलशब्देन भेरीणां निस्वनेन च।
अञ्जसा मण्डलं कुर्य्यात् पञ्चवर्णेन तत्त्ववित्।। ५८.२१ ।।
 
षोड़शारन्ततश्चक्रं पद्मगर्भं चतुर्मुखम्।
चतुरस्रञ्च परितो वृत्तं मध्ये सुशोभनम्।। ५८.२२ ।।
 
वेद्याश्चोपरि तत् कृत्वा ग्रहान् लोकपतींस्ततः।
सन्यसेन्मन्त्रतः सर्वान् प्रतिदिक्षु विचक्षणः।। ५८.२३ ।।
 
कूर्मादि स्थापयेन्मध्ये वारुण्यां मन्त्रमाश्रितः।
ब्रह्माणञ्च शिवं विष्णुं तत्रैव स्थापयेद्‌ बुधः।। ५८.२४ ।।
 
विनायकञ्च विन्यस्य कमलामम्बिकां तथा।
शान्त्यर्थं सर्वलोकानां भूतग्रामं न्यसेत् ततः।। ५८.२५ ।।
पुष्पभक्ष्यफलैर्युक्तमेवं कृत्वाऽधिवासनम्।
कुम्भान्‌ सजलगर्भांस्तान्‌ वासोभिः परिवेष्टयेत्।। ५८.२६ ।।
 
पुष्पगन्धैरलङ्कृत्य द्वारपालान् समन्ततः।
पठध्वमिति तान् ब्रूयादाचार्यस्त्वभिपूजयेत्।। ५८.२७ ।।
 
बह्वृचौ पूर्वतः स्थाप्यौ दक्षिणेन यजुर्विदौ।
सामगौ पश्चिमे तद्वदुत्तरेण त्वथर्वणौ।। ५८.२८ ।।
 
उदङ्‌मुखी दक्षिणतो यजमान उपाविशेत्।
यजध्वमिति तान्‌ ब्रूयाद् हौत्रिकान्पुनरेव तु ।। ५८.२९ ।।
 
उत्कृष्टान् मन्त्रजापेन तिष्ठध्वमिति जापकान्।
एवमादिश्य तान् सर्वान् पर्युक्ष्याग्निं स मन्त्रवित्।। ५८.३० ।।
 
जुहुयाद्वारुणैर्मन्त्रैराज्यं च समिधस्तथा।
ऋत्विग्भिश्चाथ होतव्यं वारुणैरेव सर्वतः।। ५८.३१ ।।
 
ग्रहेभ्यो विधिवद्‌ हुत्वा तथेन्द्रायेश्वराय च।
मरुद्‌भ्यो लोकपालेभ्यो विधिवद्विश्वकर्मणे।। ५८.३२ ।।
 
रात्रिसूक्तञ्च रौद्रञ्च पावमानं सुमङ्गलम्।
जपेयुः पौरुषं सूक्तं पूर्वतो बह्वृचाः पृथक्।। ५८.३३ ।।
 
शाक्रं रौद्रञ्च सौम्यं च कृष्माण्डंा जातवेदसम्।
सौरसूक्तं जपेन्मन्त्रं दक्षिणेन यजुर्विदः।। ५८.३४ ।।
वैराज्यं पौरुषं सूक्तं सौवर्णं रुद्रसंहिताम्।
शैशवं पञ्च निधनं गायत्रं ज्येष्ठसाम च।। ५८.३५ ।।
 
वामदेव्यं बृहत्साम रौरवं सरथन्तरम्।
गवां व्रतं च काण्वञ्च रक्षोघ्नं वयसस्तथा।।
गायेयु सामगा राजन्! पश्चिमं द्वारमाश्रिताः।। ५८.३६ ।।
 
अथर्वणश्चोत्तरतः शान्तिकं पौष्टिकं तथा।
जपेयुर्मनसा देवमाश्रित्य वरुणं प्रभुम्।। ५८.३७ ।।
 
पूर्वेद्युरभितो रात्रावेवं कृत्वाधिवासनम्।
गजाश्वरथ्यावल्मीकात् सङ्गमाद्रदगोकुलात्।।
मृदमादाय कुम्भेषु प्रक्षिपेच्चत्वरात् तथा।। ५८.३८ ।।
 
रोचनाञ्च ससिद्धार्थां गन्धं गुग्गुलमेव च।
स्नपनं तस्य कर्तव्यं पञ्चभङ्गसमन्वितम्।। ५८.३९ ।।
 
प्रत्येकन्तु महामन्त्रैरेवं कृत्वा विधानतः।
एवं क्षिपति वा ह्यथ विधियुक्तेन कर्मणा।। ५८.४० ।।
 
ततः प्रभाते विमले सञ्जातेऽथ शतं गवाम्।
ब्राह्मणेभ्यः प्रदातव्यमष्टषष्टिश्च वा पुनः।।
पञ्चाशद्वाथ षट्‌त्रिंशत् पञ्चविंशतिरप्यथ।। ५८.४१ ।।
 
ततः साम्वत्सरप्रोक्ते शुभे लग्ने सुशोभने।
वेदशब्दैश्च गान्धर्वैर्वाद्यैश्च विविधैः पुनः।। ५८.४२ ।।
 
कनकालङ्कृतां कृत्वा जले गामवतारयेत्।
सामगाय च सा देया ब्राह्मणाय विशाम्पते।। ५८.४३ ।।
 
पात्रीमादाय सौवर्णीं पञ्चरत्नसमन्विताम्।
ततो निक्षिप्य मकर मत्स्यदींश्चैव सर्वशः।।
धृतां चतुर्विधैर्विप्रै र्वेदवेदाङ्गपारगैः।। ५८.४४ ।।
 
महानदीजलोपेतां दध्यक्षतसमन्विताम्।
उत्तराभिमुखीं धेनुं जलमध्ये तु कारयेत्।। ५८.४५ ।।
 
आथर्वणेन संस्नातां पुनर्मामेत्यथेति च।
आपोहिष्ठेति मन्त्रेण क्षिप्त्वाऽऽगत्य च मण्डलम्।। ५८.४६ ।।
 
पूजयित्वा सरस्तत्र बलिं दद्यात् समन्ततः।
पुनर्दिनानि होतव्यं चत्वारि मुनिसत्तमाः!।। ५८.४७ ।।
 
चतुर्थी कर्म कर्तव्यं देया तत्रापि शक्तितः।
दक्षिणा राजशार्दूल! वरुणक्ष्मापनं ततः।। ५८.४८ ।।
 
कृत्वा तु यज्ञपात्राणि यज्ञोपकरणानि च।
ऋत्विग्भ्यस्तु समं दत्त्वा मण्डपं विभजेत् पुनः।
हेमपात्रीञ्च शय्याञ्च स्थापकाय निवेदयेत्।। ५८.४९ ।।
 
ततः सहस्रं विप्राणामथवाष्टशतं तथा।
भोजनीयं यथाशक्ति पञ्चाशद्वाथ विंशतिः।।
एवमेषु पुराणेषु तडाग विधिरुच्यते।। ५८.५० ।।
 
कूपवापीषु सर्वासु तथा पुष्करिणीषु च।
एष एव विधिर्दृष्टः प्रतिष्ठासु तथैव च।। ५८.५१ ।।
 
मन्त्रतस्तु विशेषः स्यात् प्रसादोद्यानभूमिषु।
अयन्त्वशक्तावर्द्धेन विधिर्द्रृष्टः स्वयम्भुवा।
अल्पेष्वेकाग्निवत् कृत्वा वित्तशाठ्याद्रृते नृणाम्।। ५८.५२ ।।
 
प्रावृट्‌काले स्थिते तोये ह्यग्निष्टोमफलं स्मृतम्।
शरत्‌काले स्थितं यत् स्यात् तदुक्तफलदायकम्।
वाजपेयातिरात्राभ्यां हेमन्ते शिशिरे स्थितम्।। ५८.५३ ।।
 
अश्वमेधसमं प्राह वसन्तसमये स्थितम्।
ग्रीष्मेऽपि तत् स्थितन्तोयं राजसूयाद्विशिष्यते।। ५८.५४ ।।
 
एतान्‌ महाराज!विशेषधर्मान् करोति योऽप्यागमशुद्धबुद्धिः।
स याति रुद्रालयमाशु पूतः कल्पाननेकान् दिवि मोदते च।। ५८.४४ ।।
 
अनेकलोकान् स महत्तमादीन् भुक्त्वा परार्द्धद्वयमङ्गनाभिः।
सहैव विष्णोः परमम्पदं यत् प्राप्नोति तद्यागफलेन भूयः।। ५८.५६ ।।
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_५८" इत्यस्माद् प्रतिप्राप्तम्