"मत्स्यपुराणम्/अध्यायः ५९" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
पादपोद्यापनविधिवर्णनम्।
 
ऋषय ऊचुः।
पादपानां विधिं सूत! यथावद्विस्तराद्वद।
विधिना केन कर्तव्यं पादपोद्यापनं बुधैः।।
ये च लोकाः स्मृतास्तेषां तानिदानीं वदस्व नः।। ५९.१ ।।
 
सूत उवाच।
पादपानं विधिं वक्ष्ये तथैवोद्यानभूमिषु।
तडागविधिवत् सर्वमासाद्य जगदीश्वर!।। ५९.२ ।।
 
ऋत्विङ्मण्डपसम्भारश्चाचार्यश्चैव तद्विधः।
पूजयेत् ब्राह्मणां स्तद्वद्धेमवस्त्रानुलेपनैः।। ५९.३ ।।
 
सर्वौषध्युदकैः सिक्तान्‌ पिष्टातकविभूषितान्।
वृक्षान्मल्यैरलङ्कृत्य वासोभिरभिवेष्टयेत्।। ५९.४ ।।
 
सूच्या सौवर्णया कार्यं सर्वेषां कर्णवेधनम्।
अञ्जनञ्चापि दातव्यं तद्वद्धेमशलाकया।। ५९.५ ।।
 
फलानि सप्त चाष्टौ वा कालधौतानि कारयेत्।
प्रत्येकं सर्ववृक्षाणां वेद्यान् तान्यधिवासयेत्।। ५९.६ ।।
 
धूपोऽत्रगुग्गुलः श्रेष्ठः ताम्रपात्रैरधिष्ठितान्।
सर्वान् धान्यस्थितान्‌ कृत्वा वस्त्रगन्धानुलेपनैः।। ५९.७ ।।
 
कुम्भान् सर्वेषु वृक्षेषु स्थापयित्वा नरेश्वर!।
सहिरण्यानशेषांस्तान्‌ कृत्वा बलिनिवेदनम्।। ५९.८ ।।
 
यथास्वं लोकपालानामिन्द्रादीनां विशेषतः।
वनस्पतेश्च विद्वद्भिर्होमः कार्यो द्विजातिभिः।। ५९.९ ।।
 
ततः शुक्लाम्बरधरां सौवर्णकृतभूषणाम्।
सकांस्य दोहां सौवर्ण श्रृङ्गाभ्यामतिशालिनीम्।
 
पयस्विनीं वृक्षमध्यादुत्सृजेत् गामुदङ्‌मुखीम्।। ५९.१० ।।
ततोऽभिषेकमन्त्रेण वाद्यमङ्गलगीतकैः।
 
ऋग्यजुः साममन्त्रैश्च वारुणैरभितस्तथा।।
तैरेव कुम्भैः स्नपनं कुर्यात् ब्राह्मणपुङ्गवः।। ५९.११ ।।
 
स्नातः शुक्लाम्बरस्तद्वत् यजमानोऽभिपूजयेत्।
गोभिर्विभवतः सर्वान्‌ ऋत्विजस्तान्‌ समाहितः।। ५९.१२ ।।
 
हेमसूत्रैः सकटकैरङ्गुलीयपवित्रकैः।
वासोभिः शयनीयैश्च तथोपस्करपादुकैः।।
 
क्षीरेण भोजनं दद्याद्यावद्दिन चतुष्टयम्।। ५९.१३ ।।
होमश्च सर्षपैः कार्यो यवैः कृष्णतिलैस्तथा।
 
पलाशसमिधः शस्ता श्चतुर्थेऽह्नि तथोत्सवः।
दक्षिणा च पुनस्तद्वद्देया तत्रापि शक्तितः।। ५९.१४ ।।
 
यद्यदिष्टतमं किञ्चित् तत्तद् दद्यादमत्सरी।
आचार्ये द्विगुणं दद्यात् प्रणिपत्य विसर्जयेत्।। ५९.१५ ।।
 
अनेन विधिना यस्तु कुर्यात् वृक्षोत्सवं बुधः।
सर्वान्‌ कामानवाप्नोति फलञ्चानन्त्यमश्नुते।। ५९.१६ ।।
 
यश्चैकमाप राजेन्द्र! वृक्षं संस्थापयेन्नरः।
सोऽपि स्वर्गे वसेद् राजन्! यावदिन्द्रायुतत्रयम्।। ५९.१७ ।।
 
भूतान् भव्यांश्च मनुजां स्तारयेद्‌ द्रुमसंमितान्।
परमां सिद्धिमाप्नोति पुनरावृत्ति दुर्लभाम्।। ५९.१८ ।।
 
य इदं श्रृणुयान्नित्यं श्रावयेद्वापि मानवः।
सोऽपि संपूजितो देवैर्ब्रह्मलोके महीयते।। ५९.१९ ।।
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_५९" इत्यस्माद् प्रतिप्राप्तम्