"मत्स्यपुराणम्/अध्यायः ६६" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
मनुरुवाच।
 
मधुरा भारती केन व्रतेन मधुसूदन!।
तथैव जनसौभाग्यं मतिं विद्यासु कौशलम्।। ६६.१ ।।
 
अभेदश्चापि दम्पत्योस्तथा बन्दुजनेन च।
आयुश्च विपुलं पुंसां तन्मे कथय माधव!।। ६६.२ ।।
 
मत्स्य उवाच।
सम्यक् पृष्टं त्वया राजन्! श्रृणु सारस्वतं व्रतम्।
यस्य संकीर्तनादेव तुष्यतीह सरस्वती।। ६६.३ ।।
 
यो यद्‌भक्तः पुमान् कुर्य्यात्‌ एतद्‌ व्रतमनुत्तमम्।
तद्वासरादौ सम्पूज्य विप्रानेतान्‌ समाचरेत्।। ६६.४ ।।
 
अथवादित्यवारेण ग्रहताराबलेन च।
पायसं भोजयेद्विप्रान् कृत्वा ब्राह्मणवाचनम्।। ६६.५ ।।
 
शुक्लवस्त्राणि दत्त्वा च सहिरण्यानि शक्तितः।
गायत्रीं पूजयेद् भक्त्या शुक्लमाल्यानुलेपनैः।। ६६.६ ।।
 
यथा न देवि!। भगवान् ब्रह्मलोके पितामहः।
त्वां परित्यज्य सन्तिष्ठेत् तथा भव वरप्रदा।। ६६.७ ।।
 
वेदाः शास्त्राणि सर्वाणि गीतनृत्यादिकञ्च यत्।
न विहीनं त्वया देवि! तथा मे सन्तु सिद्धयः।। ६६.८ ।।
 
लक्ष्मीर्मेधा धरापुष्टिर्गौरी तुष्टा प्रभा मतिः।
एताभिः पाहि अष्टाभि स्तनूभिर्मां सरस्वती।। ६६.९ ।।
 
एवं सम्पूज्य गायत्रीं वाणीं क्षयनिवारिणीम्।
शुक्लपुष्पाक्षतैर्भक्त्या सकमण्डलुपुस्तकाम्।
मौनव्रतेन भुञ्जीत सायं प्रातस्तु धर्म्मवित्।। ६६.१० ।।
 
पञ्चम्यां प्रतिपक्षञ्च पूजयेद्‌ ब्रह्मवासिनीम्।
तथैव तण्डुलप्रस्थं घृतपात्रेण संयुतम्।।
क्षीरं दद्याद्धिरण्यञ्च गायत्री प्रीयतामिति।। ६६.११ ।।
 
सन्ध्यायाञ्च तथा मौनमेतत्कुर्वन्‌ समाचरेत्।
नान्तरा भोजनं कुर्याद्यावन्मासास्त्रयोदश।। ६६.१२ ।।
 
समाप्ते तु व्रते कुर्याद् भोजनं शुक्लतण्डुलैः।
पूर्वं सवस्त्रयुग्मञ्च दद्याद्विप्राय भोजनम्।। ६६.१३ ।।
 
देव्या वितानं घण्टाञ्च सितनेत्रे पयस्विनीम्।
चन्दनं वस्त्रयुग्मञ्च दद्याच्च शिखरं पुनः।। ६६.१४ ।।
 
तथोपदेष्टारमपि भक्त्या संपूजयेत् गुरुम्।
वित्तशाठ्येन रहितो वस्त्रमाल्यानुलेपनैः।। ६६.१५ ।।
 
अनेन विधिना यस्तु कुर्यात् सारस्वतं व्रतम्।
विद्यावानर्थसंयुक्तो रक्तकण्ठश्च जायते।। ६६.१६ ।।
 
सरस्वत्याः प्रसादेन ब्रह्मलोके महीयते।
नारी वा कुरुते या तु सापि तत्फलगामिनी।
ब्रह्मलोके वसेद्राजन्! यावत्कल्पायुतत्रयम्।। ६६.१७ ।।
 
सारस्वतं व्रतं यस्तु श्रृणुयादपि यः पठेत्।
विद्याधरपुरे सोऽपि वसेत् कल्पायुतत्रयम्।। ६६.१८ ।।
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_६६" इत्यस्माद् प्रतिप्राप्तम्