"मत्स्यपुराणम्/अध्यायः ७३" इत्यस्य संस्करणे भेदः
Content deleted Content added
<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती |
No edit summary |
||
पङ्क्तिः १:
<poem>
शुक्रगुरुप्रशान्तिकथनम्।
पिप्पलाद उवाच।
अथातः श्रृणु भूपाल! प्रति शुक्रं प्रशान्तये।
यत्रारम्भेऽवसाने च तथा शुक्रोदये त्विहा।। ७३.१ ।।
राजतेवाथ सौवर्णे कांस्यपात्रेऽथ वा पुनः।
शुक्लपुष्पाम्बरयुते सिततण्डुलपूरिते।। ७३.२ ।।
विधाय राजतं शुक्रं शुचि मुक्ताफलान्वितम्।
मन्त्रेणानेन तत्सर्वं सामगाय निवेदयेत्।। ७३.३ ।।
नमस्ते सर्वलोकेश! नमस्ते भृगुनन्दन!
कवे! सर्वार्थसिद्ध्यर्थं गृहाणार्घ्यं नमोऽस्तु ते।। ७३.४ ।।
एवमस्योदये कुर्वन् यात्रादिषु च भारत!।
सर्वान् कामानवाप्नोति विष्णुलोकेमहीयते।। ७३.५ ।।
यावच्छुकस्य न हृता पूजा सापाल्यकैः शुभैः।
वटकैः पूरिकाभिश्च गोधूमैश्चणकैरपि।
तावदन्नं नचाश्नीयात् त्रिभिः कामार्थसिद्धये।। ७३.६ ।।
तद्वद्वाचस्पतेः पूजां प्रवक्ष्यामि युधिष्ठिर!।
सुवर्णपात्रे सौवर्णममरेशपुरोहितम्।। ७३.७ ।।
पीतपुष्पाम्बरयुतं कृत्वा स्नात्वाथ सर्षपैः।
पलाशाश्वत्थयोगेन पञ्चगव्यजलेन च।। ७३.८ ।।
पीताङ्गरागवसनो घृतहोमन्तु कारयेत्।
प्रणम्य च गवा सार्द्धं ब्राह्मणाय निवेदयेत्।। ७३.९ ।।
नमस्तेऽङ्गिरसान्नाथ! वाक्पते! च बृहस्पते!।
क्रूरग्रहैः पीडितानाममृताय नमो नमः।। ७३.१० ।।
संक्रान्तावस्य कौन्तेय! यात्रास्वभ्युदयेषु च।
कुर्वन् बृहस्पतेः पूजां सर्वान् कामान् समश्नुते।। ७३.११ ।।
</poem>
|