"लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १९०" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
({{header | title = लक्ष्मीनारायणसंहिता - लक्ष्मीनारा... नवीन पृष्ठं निर्मीत अस्ती)
 
 
| notes =
}}
<poem><span style="font-size: 14pt; line-height:200%">श्रीकृष्ण उवाच-
शृणु त्वं राधिके राजा मुद्राण्डो माधवे तदा ।
पुष्पहारान् स्वर्णहारान् आर्पयत् समपूजयत् ।। १ ।।
राजवेषं बहुशोभमधारयत्तदा हरिम् ।
मद्रिटानगरीं सायं भ्रामयितुं समार्थयत् ।। २ ।।
सर्वांस्तत्र महीमानान् पुपूज राजकेशरी ।
सुपानर्षिश्च तिलकं चन्द्रकं हरयेऽकरोत् ।। ३ ।।
जलपानं ददौ पश्चाद् वाहनेषु नृपोऽखिलान् ।
न्यषादयद् सतूर्याणि व्यनादयच्छुभानि वै ।। ४ ।।
हरिर्नवं रथं शुभ्रं कम्बलाजिनसंवृतम् ।
युक्तं षोडशभिर्गोभिः पाण्डुहुरैर्देवलक्षणैः ।। ५ ।।
तथाऽग्र्यैकेन महता पाण्डुरेण वृषेण च ।
बन्दिभिः स्तूयमानश्चाऽभ्यर्च्यमानो महर्षिभिः ।। ६ ।।
आरुरोह रथं स्वर्णमणिमौक्तिकराजितम् ।
जग्राह रश्मीन् मौद्राण्डः कुमारस्त्रिग्रसाण्डकः ।। ७ ।।
गवादकवितर्षिश्च धारयामास छत्रकम् ।
ध्रियमाणं महच्छत्रं पाण्डुरं रथमध्यगम् ।। ८ ।।
शुशुभे तारकायुक्तचन्द्रमिव सुहीरकैः ।
चामरव्यजने त्वस्य मुनी जगृहतुर्मुदा ।। ९ ।।
सुपानर्षिस्तथा मित्रमहर्षिश्च महाव्रतौ ।
चन्द्ररश्मिसमकान्तियुते दीर्घातिमञ्जुले ।। 2.190.१० ।।
कृष्णस्य पितरौ राधे भ्रातरश्च स्वसा तथा ।
रथे स्थिता अदृश्यन्त सर्वेदेवसमास्तदा ।। ११ ।।
रथं शुभ्रं समास्थाय युक्तं तुरगसतमैः ।
अन्वयात् पृष्ठतो रुद्रश्चेशानो गणसेवितः ।। १ २।।
रथं हेममयं श्रेष्ठं महादीर्घाश्वयोजितम् ।
लोमशश्च समास्थायाऽन्वयाद् रुद्रं गुरुः स्वयम् ।। १ ३।।
वृकायनो नीलकर्णश्चोभौ पीतरथेन च ।
ययतुस्तु ततो नीलवर्णाश्वयोजितेन वै ।। १४।।
ब्रह्मप्रियास्ततः सर्वाः स्वलंकृताः सहस्रशः ।
नरयानैस्तथा यानैरुच्चावचैर्ययुस्ततः ।। १५।।
गांगेयाः ऋषयः सर्वे कन्यकाश्च तथाऽपरे ।
राजकन्याश्च राज्ञ्यश्चान्वयुर्भव्यैः रथादिभिः ।। १६।।
ततो रथाश्च बहुला नागाश्चोष्ट्रवृषान्विताः ।
पदातयो हयरूढाः पृष्ठतः समनुव्रजन् ।। १७।।
ततो वैतालिकाः सूता मागधाश्चारणास्तथा ।
सुभाषितानि गायन्तो ययुः प्रजाजनान्विताः ।। १८।।
तदा तु दर्शनं विष्णोर्बभूवाऽप्रतिमं सुखम् ।
अनादिश्रीकृष्णनारायणस्याऽनुपमं भुवि ।। १९।।
मद्रिटायां हरेः प्रवेशने नगरवासिभिः ।
नगरी राजमार्गाद्या बहुधा समलंकृताः ।। 2.190.२० ।।
पाण्डुरैर्माल्यवर्गैश्च पताकाभिश्च मेदिनी ।
संस्कृता राजमार्गाऽभूद् धूपनैश्च प्रधूपिता ।।२ १ ।।
तथा चूर्णैः सुगन्धानां नानापुष्पप्रियंगुभिः ।
माल्यदामभिः संसक्तैर्नगरी शोभिता कृता ।।२२।।
कुंभा द्वारि कृताश्चासन् जलपूर्णा नवाः शुभाः ।
सिताः सुमनसो गौरा निक्षिप्तास्तत्र तत्र च ।।२३।।
यथास्वलंकृतान्येव द्वाराणि रंगवल्लिभिः ।
एवं शृंगारितायां च नगर्यां स विवेश ह ।।२४।।
प्रवेशने हरेस्तत्र जनानां पुरवासिनाम् ।
दिदृक्षूणां सहस्राणि समाजग्मुः सहस्रशः ।।२५।।
राजमार्गोऽतिशुशुभे समलंकृतचत्वरः ।
चन्द्रोदयेऽब्धिवृद्धिश्च पूरागतागतैर्यथा ।।२६।।
प्रजानां राजमार्गेषु वृद्धिश्चाऽचिन्तिताऽभवत् ।
गृहाणि राजमार्गेषु रत्ननद्धानि सर्वथा ।।२७।।
प्राकम्पन्तीव भारेण गौरीणां पूर्णितानि वै ।
ताः स्त्रियश्च प्रशशंसुः कांभरेयं श्रियः पतिम् ।।२८।।
ब्रह्मप्रिया इमा धन्या याः प्राप्ताः पुरुषोत्तमम् ।
गौरीणां व्रतचर्याणि प्रशशंसुस्तथा स्त्रियः ।।२९।।
प्रशंसावचनैस्तासां प्रीतिशब्दैश्च राधिके ।
जयशब्दैः कीर्तनैश्च पुरमासीन्निनादितम् ।। 2.190.३० ।।
प्रतिरथ्यं प्रतिमार्गसंगमं प्रतिचत्वरम् ।
प्रतिहट्टं प्रतिहर्म्यं प्रजा आनर्चुरीश्वरम् ।।३ १ ।।
भ्रमित्वा नगरीं राजमार्गेण च ततो हरिः ।
अलंकृतं शोभमानमुपायाद् राजवेश्म ह ।।३२।।
तत्र प्रकृतयः सर्वाः पौरा जानपदा अपि ।
ऊचुः कर्णसुखा वाचो दिष्ट्या प्राप्तोऽसि माधव ।। ३३ ।।
भवत्कृपा भवतश्च दर्शनेऽत्र मता शुभा ।
अन्यथा दर्शनं कृष्ण कथं ते भाग्यमन्तरा ।।३४।।
एवं राजकुलद्वारि मंगलैरभितोषितः ।
प्रविवेश हरिर्यानादुत्तीर्य राजमन्दिरम् ।। ३५।।
राजा महर्षयश्चापि राजपत्नी कुमारिकाः ।
गन्धमाल्यै रत्नहारैरार्चयन् कृष्णवल्लभम् ।। ३६।।
सुमनोमोदकै रत्नैर्हिरण्येन च भूरिणा ।
उपदाभिर्विविधाभिर्विविधैश्च किमिच्छकैः ।। ३७।।
तत्रैवाऽवसरं ज्ञात्वा मोहपाशवशंगताः ।
राजकन्या हरेर्हस्तं जगृहुर्दश पञ्च च ।। ३८।।
ततः पुण्याहघोषोऽभून्नामसंकीर्तनं तथा ।
सुहृदां प्रीतिजनकं पुण्यं श्रुतिसुखावहम् ।। ३९।।
तथा दुन्दुभिनिर्घोषः शंखानां च मनोरमः ।
जयं प्रवदतां चापि प्रादुरभूत्स्वनः शुभः ।।2.190.४०।।
श्रुत्वा श्रीबालकृष्णश्च प्रसन्नहृदयस्तदा ।
काञ्चने राजसौधस्थे न्यषीदत् परमासने ।।४१।।
उपादिदेश बहुधा सभायां भूपतेर्वृषान् ।
व्यसनी चेद् भवेद् राजा लोकैः सपरिभूयते ।।४२।।
उद्वेजयति लोकं यो द्वेष्टि सुखं न विन्दति ।
स्वप्रियं तु परित्यज्य लोकहितं समाचरेत् ।।४३ ।।
धीरतां न त्यजेत् क्वापि राजा लोकहितावहः ।
नात्यर्थः परिहासश्च भृत्यैः कार्यो नृपेण वै ।।४४।।
अवमन्यन्ति राजानं संघर्षादुपजीविनः ।
स्वे स्थाने न तु तिष्ठन्ति लंघयन्ति तु तद्वचः ।।४५।।
प्रेष्यमाणा न गच्छन्ति गुह्यं प्रकाशयन्ति च ।
अयाच्यमपि याचन्ते भोज्यानि भक्षयन्ति च ।।४६।।
क्रुश्यन्ति परिदीप्यन्ति कार्याणि घातयन्ति च ।
वञ्चनां चापि कुर्वन्ति लुञ्चां गृह्णन्ति वै क्वचित् ।।४७।।
हस्ताक्षरैः कृत्रिमैश्च साधयन्ति निजां कृतिम् ।
स्त्रीरक्षिभिश्च सज्जन्ते तुल्यवेषा भवन्ति च ।।४८।।
वान्तं निष्ठीवनं चापि कुर्वते राजसन्निधौ ।
निर्लज्जा नृपनिकटे भूत्वा घ्नन्ति यशोऽप्यनु ।।४९।।
राजवाहं हयं हस्तिरथाद्यारोहयन्ति च ।
सभायामपि राजानं चाऽज्ञानिनं वदन्ति च ।।2.190.५० ।।
क्रुद्धे नृपे हसन्त्येव मन्त्रं विस्रंसयन्ति च ।
गुप्तं प्रकाशं कुर्वन्ति शासनं लंघयन्ति च ।।५ १।।
हेलनं चापि कुर्वन्ति निन्दन्ति सन्निधावपि ।
अस्मन्मुष्ट्यां नृपोऽस्त्येव लोकाँश्चैवं वदन्त्यपि ।।५२।।
तस्माद् भृत्यादिभिः सार्धं हर्षुलो न मृदुर्भवेत् ।
उद्यमं संप्रकुर्याच्च भुक्तिमुक्तिप्रदं सदा ।।५३।।
लोकानां रञ्जनाद् राजा नृपधर्मो हि रञ्जनम् ।
सत्यस्य रक्षणं चापि व्यवहारस्य रक्षणम् ।।५४।।
क्षान्तेश्च रक्षणं कार्यं राजमार्गाच्चलेन्न च ।
आत्मवान् पुरुषार्थषु जाग्रन् राजत्वमर्हति ।।५५।।
मानवाः सर्वधर्माश्च रक्षितव्या नृपेण वै ।
वृद्धाः प्रसेवनीयाश्च सेवनीयाश्च साधवः ।।५६।।
सद्भ्यो दद्यादसद्भ्यस्तु समादद्यान्नृपो वृषात् ।
शिष्टान् शिष्टक्रियाश्चापि मानयेत् सर्वथा नृपः ।।५७।।
विदुषो रक्षयेद् राजा नीतिज्ञान् शास्त्रकोविदान् ।
कथाकारान् धर्मधर्तॄन् परमेशोपदेशकान् ।।५८।।
गुरूँश्च मानयेद् राजा पूजयेद् बहुदानकैः ।
साधून् सम्पूजयेन्नित्यं भोजयेद् शृणुयात् कथाः ।।५९।।
देवालयान् कारयेच्च पूजाप्रबन्धमाचरेत् ।
नित्यं भक्त्या स्वयं राजा यजेत देवताः प्रियान् ।।2.190.६०।।
दशांशं वा च विंशांशं शतांशं पञ्चमांशकम् ।
राज्यर्द्धिद्रव्यधान्येभ्योऽर्पयेद्धर्मार्थमेव सः ।।६ १ ।।
तीर्थानि रक्षयेद् राजा क्रतूँश्च कारयेत्तथा ।
गोविप्रस्त्रीदीनबालान् यतीन् संरक्षयेच्छ्रितान् ।।६२।।
नित्यं दद्यात्तु दानानि पूजयित्वा गुरून् जनान् ।
वृद्धान् वन्देत सततं गृह्णीयादाशिषस्ततः ।।६३।।
भगवन्तं स्मरेन्नित्यं प्रातः सायं च कर्मसु ।
न त्रासं जनयेत् किंचिदायुर्नाशकरं न च ।।६४।।
पुण्यनाशकरं चापि नैव कुर्यात् कदाचन ।
विघसाशी भवेन्नित्यं ब्रह्मयज्ञपरो भवेत् ।।६५।।
प्रजायां संप्रपश्येत्तु पुत्रवात्सल्यमुत्तमम् ।
मां हरिं संस्थितं सर्वास्वपि मत्वाऽर्चयेद् यथा ।।६६।।
हिंसनं न वृथा राजा कुर्यात् स्वार्थार्थमित्यपि ।
सत्कार्याणि सदा लोके समारभेत भावतः ।।६७।।
पुण्यकार्येषु साहाय्यं दद्यात् कुर्यात् स्वयं ह्यपि ।
साधून् संवासयेद् राज्ये सेवेत परमादरात् ।।६८।।
भगवन्तं च भक्ताँश्च भ्रामयेन्नगरादिषु ।
मालावर्तनमादध्याद् राजा नित्यासनस्थितः ।।६९।।
वर्तयेत् स्वकुटुम्बादि धर्मे कर्मणि भक्तिषु ।
स्नानं ध्यानं जपं होमं तर्पणं च निवेदनम् ।।2.190.७०।।
दानं धर्मं भजनं च सेवां कुर्वन्नृपः स्वयम् ।
एवं वर्तेत चेद् राजा मुच्यते न तु बध्यते ।।७१ ।।
यस्य कूटं न कपटं न माया सत्सु वै क्वचित् ।
यस्य गेहे कथा ज्ञानं भजनं देवपूजनम् ।।७२।।
सतां वर्त्मानुगश्चापि त्यागीव वर्तते च यः ।
स भवेद्वै क्वचिन्मोक्षभागीश्वरेशसेवया ।।७३।।
यथा राजा तथा धर्मो यथा धर्मस्तथा प्रजाः ।
कृष्णधर्मोऽतियत्नेन राज्ञा रक्ष्यो मुमुक्षुणा ।।७४।।
स्वस्मिन् भागवते धर्मे तिष्ठत्येव कुटुम्बकम् ।
बान्धवाः सुहृदश्चान्ये प्रजाद्या अपि सर्वथा ।।७५।।
वर्तेरन् सात्वते धर्मे यथा राजा तथा प्रजाः ।
तस्माद् राजन् प्रजाश्चापि सर्वे कुर्वन्तु सात्त्वतीम् ।।७६।।
भक्तिं मे मोक्षदां श्रेष्ठामुद्धरिष्ये मदाश्रितान् ।
इत्युक्त्वा विररामाऽसौ बालकृष्णो हि राधिके ।।७७।।
राजा प्रजादयः सर्वे जगृहुस्तद्वचांसि वै ।
मन्त्रं मन्त्रविहीना ये ते सञ्जगृहुरैश्वरम् ।।७८।।
कण्ठीं च भजनं नामरटणं जगृहुश्च ते ।
ततः सभां विसर्जयामास मुद्राण्डको नृपः ।।७९।।
भोजनानि हरिश्चापि कुटुम्बं च महर्षयः ।
ईशानाद्या महीमानाश्चक्रुर्ब्रह्मप्रियादिकाः ।।2.190.८०।।
रात्रौ विश्रान्तिमासाद्य कृत्वोत्थायाऽऽप्लवादिकम् ।
नित्यपूजां विधायाथ दुग्धपानादिकं तथा ।।८१।।
हरिः सज्जोऽभवद् गन्तुं पूर्तगण्डप्रदेशकान् ।
तदा राजा प्रार्थयच्छ्रीहरिं शैवालपत्तनम् ।।८२।।
गन्तुं गवादकवितानदीतटस्थमुत्तमम् ।
हरिस्तथाऽस्त्विति प्राह जयशब्दैश्च कीर्तनैः ।।८३।।
सह पूजां समागृह्य स्वं विमानमरूरुहत् ।
अन्ये निषेदुः शीघ्रं च मुद्राण्डकोऽपि तत्क्षणम् ।।८४।।
विमानमधिरुह्याग्रे ययौ स्वागतसिद्धये ।
विमानानि विचेरुश्च शैवालपत्तनं प्रति ।।८५।।
क्षणात् प्रापुश्च तं देशं गवादकवितान्तिकम् ।
अवतेरुर्विमानानि गवादकवितातटे ।।८६।।
राजा निजालये कृष्णं सर्वानानर्च भावतः ।
उद्यानफलपुष्पाद्यैरपूजयद्धरिं नृपः ।।८७।।
आरार्त्रिकं चकाराऽथ नगरेऽभ्रामयत्प्रभुम् ।
कृत्वैवं पावनं कृष्णनारायणो हि पत्तनम् ।।८८।।
दुग्ध फलादिकं जग्ध्वा प्राप्य पूजां नृपादिभिः ।
प्रजाभिश्च कृतां सर्वामाशिषः सम्प्रदाय च ।।८९।।
तन्मानेन समं शीघ्रमियेष गन्तुमच्युतः ।
गण्डो नाम नृपस्तत्र नेतुं कृष्णं समागतः ।।2.190.९०।।
पूर्तगण्डर्षिणा साकं हरिः सज्जोऽभवत्ततः ।
शीघ्रं विमानमारुह्य दत्वाऽऽशीर्वचनानि च ।।९१ ।।
ययौ शृण्वन् जयनादान् नदीं गवादयानिकाम् ।
समुल्लंघ्य नदीदेशानाकाशे व्यचरद्धरिः ।।९२।।
त्रिगिरां च नदीं प्राप्य राजा वै गण्डकः पुरः ।
पूर्तगण्डर्षिणा साकं स्वागतार्थमवातरत् ।।९३।।
लीशवनं पत्तनं च शृंगारितं हि राधिके ।
सैन्ययुक्तं शुभं गत्वोद्याने स्वागतमाचरत् ।।९४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने मद्रिटानगर्यां भ्रमणं राजवेश्मागमनं पूजनम् उपदेशो भोजनं निशोत्तरम् अष्टम्यां प्रातःकृत्योत्तरं प्रयाणं शैवालनगरीं भ्रमित्वा पूर्तगण्डर्षिप्रदेशेषु गण्डकनृपस्य लीशवनपत्तनं प्रति गमनमित्यादिनिरूपणनामा नवत्यधिकशततमोऽध्यायः ।। १९० ।।
 
</span></poem>
२९,७४७

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/225471" इत्यस्माद् पुनः प्राप्तिः