"लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १९१" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
({{header | title = लक्ष्मीनारायणसंहिता - लक्ष्मीनारा... नवीन पृष्ठं निर्मीत अस्ती)
 
 
| notes =
}}
<poem><span style="font-size: 14pt; line-height:200%">श्रीकृष्ण उवाच-
शृणु त्वं राधिके पूर्तगण्डर्षिर्गण्डको नृपः ।
राज्ञी कुमारिकाश्चापि कुमाराश्च तथाऽपरे ।। १ ।।
बान्धवाश्चामात्यवर्गाः स्वागतार्थं पुरोऽभवन् ।
विमानमम्बराद् राजोद्याने ह्यवातरद्धरेः ।। २ ।।
अन्यान्यपि विमानानि चावतेरुः समन्ततः ।
तदा वाद्यान्यवाद्यन्त तूर्यनादास्तदाऽभवन् ।। ३ ।।
अगायन्त च गीतानि जयशब्दा बभूविरे ।
पटहानां विगुलानां दुन्दुभीनां रवोत्तमाः ।। ४ ।।
प्रजाहर्षभरैः शब्दैर्दिशो ह्यनादयन् दश ।
हरिर्विमानादुत्थाय श्रेण्या बहिः समागमत् ।। ५ ।।
राजा ऋषिः कुटुम्बाद्याः पुष्पाद्यैः समवर्धयन् ।
हारैरक्षतवर्यैश्च लाजाभिः स्वागतं व्यधुः ।। ६ ।।
गजयन्व्या हरिकृष्णं राजा न्यषादयत्तथा ।
अन्यान् यथोचितवाहेष्वपि सद्वाहनेषु च ।। ७ ।।
गन्त्र्यादिषु पटोल्ले च शकटीषु न्यषादयत् ।
वाद्यशब्दैः सह देवेश्वरं लीशवनां पुरीम् ।। ८ ।।
भ्रामयामास सोत्साहः प्रजाश्चक्रुः समर्हणम् ।
दर्शनं पादपूजां च बहूपदाभिरादरात् ।। ९ ।।
समुद्रतीरशोभां च विलोक्य भगवाँस्ततः ।
राजप्रासादके श्रेष्ठे समायात् सकुटुम्बकः ।। 2.191.१ ०।।
राजा राज्ञ्या च कन्याभिः पूजितः कृष्णवल्लभः ।
चन्दनैर्गन्धसारैश्च कुसुमैरम्बरैः शुभैः ।। ११ ।।
शीतहारैश्चौर्णवेषै रत्नैराभूषणादिभिः ।
द्रव्यैः फलैः प्रपूजां श्रीहरेश्चक्रुः प्रधानकाः ।। १२।।
अथ गण्डस्य वै कन्या नव तत्र कुमारिका ।
करग्रहं हरेश्चक्रुर्विवाहविधिना द्रुतम् ।। १३।।
राजा बभूव च भाग्यात् कृतकृत्यो नृपी ह्यपि ।
तदुत्सवं महान्तं च चक्रे पूजनमाननैः ।। १४।।
भोजनं कारयामास राजा पक्वान्नपूरितम् ।
नर्तनं गायनं तत्र कारयामास भूपतिः ।। १५।।
राजा कृष्णाय बहुधाऽर्पयामास विभूतिकाः ।
भगवान् पूर्णगण्डाय ऋषये ता ददौ तदा ।। १६।।
भुक्त्वा विश्रान्तिमापुश्च पानताम्बूलचर्वणैः ।
दुग्धपानैः स्वयं राजा महीमानानरञ्जयत् ।। १७।।
अथ सायं सभास्थाने बालकृष्णः प्रजाजनान् ।
उपादिदेश बहुधा शान्तिवाक्यानि चांजसा ।। १८।।
राज्ये वा वाटिकायां वा गृहे वापि वनेऽपि वा ।
अन्तर्वृत्तिपरो देही विवेकी शान्तिमृच्छति ।। १ ९।।
तृष्गातन्तुं सुविच्छिद्य भोग्यवृत्तिं विहाय च ।
आत्मस्थित्या सुतिष्ठेद् यः स शान्तिमधिगच्छति ।। 2.191.२०।।
ईहा चोपरता यस्य लिङ्गं निर्लिङ्गतां गतम् ।
रसना नीरसा यस्य स शान्तिमधिगच्छति ।।२१ ।।
शब्दास्त्वाकाशभागाश्च स्पर्शा दावानलोपमाः ।
रूपाणि कुष्ठतुल्यानि यस्य शान्तिं स ऋच्छति ।।२२।।
नार्यः प्राणहरा यस्य यस्या नरश्च राक्षसः ।
दृश्यते मनसा त्यागात् स शान्तिं साऽभियाति वै ।। २३।।
धातवो मलरूपाश्च कुटुम्बं वानरायितम् ।
भृत्याः क्षयसमा यस्य स शान्तिमभियाति वै ।। २४।।
शिष्याः शत्रुसमा यस्य पुत्रा भक्षणतत्परा ।
देहो यस्य सदा रुग्णः स शान्तिमभियाति वै ।। २५।।
वैराग्यं वर्तते यस्य रागस्थलं तु दुःखदम् ।
स्नेहस्थलं नाऽनुकूलं स शान्तिमभियाति वै ।।२६।।
बहुभोगे बहुदुःखे शान्तिं याति विवेकवान् ।
नाऽहं देहो न मे भोग्यं नाऽहं भोक्ता हि दीनवत्। ।। २७।।
नाऽहं जडाधीन एवं विवेकी शान्तिमृच्छति ।
नदीनां रम्यभागेषु वनोद्यानेषु मन्दिरे ।। २८।।
देवालयेषु तीर्थेषु निर्जने शान्तिभाग् भवेत् ।
यदा यत्र न वै सन्ति शत्रवो बहिरान्तराः ।।२९।।
आगन्तुकाश्च वा नित्यास्तदा शान्तिं प्रगच्छति ।
क्षतदुःखो यथा निद्रावशो दुःखं न वेत्ति हि ।।2.191.३०। ।
जगद्धतोऽपि जीवात्मा तूर्यागतो न खिद्यति ।
वासनाप्रहतः प्राणी साधुसंगतिमृच्छति ।।३ १ ।।
साधुसेवारतः स्याच्चेत् साध्वीं शान्तिं स गच्छति ।
सतां गुणान् प्रगृह्णीयात् सतां शीलं समाचरेत् ।।३ २।।
अग्राह्यं वर्जयेन्नित्यं ग्राह्यं शुभं समार्थयेत् ।
तरंगान् मानसान् देही शमयेत् शान्तिमान् भवेत् ।। ३३ ।।
विकल्पान् संशयान् मोहान् त्यजेत् गुरोरनुग्रहात् ।
तर्कान् हेतून् विवादाँश्च त्यजेन्निजमनीषया ।।३४।।
उद्वेगान् दावहेतूँश्च ज्ञात्वा दूराद् विवर्जयेत् ।
आयतिं सुविचार्यैव वर्तयेत् निरभिप्लवः ।। ३५।।
हरिं शरणमासाद्य फलं तत्र समर्पयेत् ।
आरभेत हरिं ध्यात्वा मां कर्तारं विभाव्य यः ।। ३६।।
मदनुस्यूतभावेन कुर्याद्धितं हितार्थदम् ।
स्वस्य वाऽन्यस्य सुतरां श्रेयस्कृतं समाचरेत् ।। ३७।।
ज्ञानविज्ञानकोशेन धनाढ्यत्वं विचारयेत् ।
अपरिग्रहसम्पन्नस्तृप्तोऽतिशान्तिमावहेत् ।।३८।।
एवं विचार्य सततं राज्ञा राज्ञ्या प्रजादिभिः ।
अन्योन्यहितमाश्रित्य वर्तितव्यं सुशान्तये ।।३९।।
सेवां प्रजानां रक्षां च राजरक्षां परस्परम् ।
आत्मबुद्ध्या सुतबुद्ध्या समाचरेत् सुशान्तिदाम् ।।2.191.४०।।
बृहस्पतिर्विशालाक्षः काव्यः प्राचेतसस्तथा ।
भरद्वाजो महेन्द्रश्च गौरशिरा मनुस्तथा ।।४१ ।।
ब्रह्मवादास्त एवैते रक्षां धर्मं परस्परम् ।
प्रशंसन्ति सदा कल्पे कल्पे राजप्रताहितम् ।।४२।।
दानं सतां सदा सेवा सतां संग्रहणं तथा ।
दाक्ष्यं सत्यं चार्जवं चाऽवेक्षा समन्ततस्तथा ।।४३।।
सीदतां च समुद्धारः कुलीनानां प्रसञ्जनम् ।
साधूनामपरित्यागः सेवा बुद्धिमतामपि ।।४४।।
शत्रुमित्रौदास्यकानां निरीक्षणं परे स्वके ।
नीतिधर्मानुसरणं चानार्यवर्जनं सदा ।।४५।।
उत्थानं सर्वथा योग्यं लोके कार्ये हरौ मतौ ।
मोक्षे त्यागे च वैराग्ये धर्मा रक्षापरा न्विमे ।।४६ ।।
रक्षणीयाः सदा राज्ञा प्रजया चामृतेहया ।
उत्थानेनाऽमृतं प्राप्ताः सुरा महेन्द्रसंहिताः ।।४७।।
उत्थानेन विहीनस्य रक्षा दूरं प्रयाति हि ।
धर्मोत्थानं सदा कार्यं धर्मिष्ठां चाचरेत् क्रियाम् ।।४८।।
यद्यप्यस्य विपत्तिः स्याद् रक्षाधर्मस्य देहिनः ।
सोऽप्यस्य विपुलो धर्मो यतो रक्षाऽहमेव वै ।।४९।।
रक्षा च रक्षकश्चाहं रक्ष्यश्चाप्यहमेव च ।
सदा रक्षाकरं चाहं रक्षयामि न संशयः ।।2.191.५० ।।
अरक्षकान् क्रूरभावान् न रक्षामि कदाचन ।
रक्षको राजवर्गश्च मत्स्वरूपोऽस्ति भूतले ।।५१ ।।
तस्माद् रक्षा मम धर्मो मत्कृता पाल्यतां जनैः ।
इत्युच्यमाने श्रीकृष्णे नारायणे परात्मनि ।।५२।।
राधिके गण्डको राजा पप्रच्छ श्रीनरायणम् ।
राजशब्दः कथं कस्मात् कदा वै भवता कृतः ।।५३ ।।
तुल्यशारीरभावेऽपि तुल्येन्द्रियात्मकेऽपि च ।
तुल्यदुःखसुखे तुल्यविकारे तुल्यविग्रहे ।।५४।।
तुल्यशुक्रास्थिमज्जे च तुल्यमांसादिसंभृते ।
तुल्यप्राणशरीरे च तुल्यमृत्युभवान्विते ।।५५ ।।
एवंविधेऽपि चैकस्मिन् राजता कथमूर्ध्वगा ।
कथमेको विशिष्टाँश्च शूराँश्च पण्डितानपि ।।५६ ।।
अधितिष्ठति सत्तावान् पृथ्वीं रक्षति चैकलः ।
प्रसादेन तथैकस्य लोकः सर्वः प्रसीदति ।।५७ ।।
एकस्मिन्नेव राष्ट्रं च देववद् याति सन्नतिम् ।
भगवँस्तत्कथं साम्येऽप्येषा वै राजताऽतिगा ।।५८ ।।
वर्तते सर्वमूर्धन्या वदात्र कारणं तु किम् ।
श्रुत्वा प्राह हरिः राधे राजनियमजां कथाम् ।।५९।।
आदौ कृतयुगे चात्र नासीद् राज्यं न राज्यपः ।
न राजा न च दण्डोऽभूद् दण्ड्यो नासीच्च दण्डकृत् ।।2.191.६० ।।
सत्यधर्मैः प्रजा ब्राह्म्यो रक्षन्ति स्म परस्परम् ।
कल्पवृक्षाः कल्पवल्ल्यश्चिन्तामणिश्च कामगौः ।।६१ ।।
आसैंस्तेन प्रजाः सर्वाः स्वात्माधीनाः सुखास्तदा ।
अथ काले कृतान्ते च कल्पनायां बलानि तु ।।६२।।
क्षीणतां संगतान्येव तदा स्वत्वं प्रवर्तितम् ।
ममेदं कल्पवृक्षं च न तवेदं विवादितम् ।।६३।।
एवं ममतामोहौ च प्रजास्वाविशतां तदा ।
चिन्ताः संकल्परूपाश्च निष्फलाश्च तदाऽभवन् ।।६४।।
तृष्णादोषाऽभिवेशेन धर्मः सत्यो व्यनीनशत् ।
लोभस्य वशमापन्ना अप्राप्तस्याऽभिमर्शिनः ।।६५।।
कामोऽपरो महान् दोषः प्रजासु प्रत्यपद्यत ।
कामपरान् जनान् रागोऽनिष्टकृद् वै समस्पृशत् ।।६६।।
तेन कार्यं तथा कार्यं नाभ्यजानन्त मोहिताः ।
अगम्यागमनं चापि वाच्यावाच्यं व्यजायत ।।६७।।
भक्ष्याभक्ष्यं तथा दूष्यादूष्यं च प्रत्यपद्यत ।
विप्लुते मानवे लोके ब्रह्मभावो ननाश ह ।।६८।।
ब्रह्मनाशे धर्मनाशो देवास्त्रासं ततोऽगमन् ।
ययुश्च पितरं चाऽजं प्रसाद्योचुः सुदुःखिनः ।।६९।।
ब्रह्मन् मानवलोके वै सत्यं ब्रह्म लयं गतम् ।
धर्मो नाशं गतस्तेन वयं स्वाहाविवर्जिताः ।।2.191.७० ।।
क्षीणतां च गताः स्मोऽद्य मानवैः समतां गताः ।
अतो निःश्रेयसं यत्तद् ध्यायस्वेह पितामह ।।७१ ।।
ब्रह्माऽऽह भवतां श्रेयश्चिन्तयामि भयापहम् ।
ततस्त्रेतामुखे ब्रह्मा धर्मं चार्थं च कामनाम् ।।७२।।
मोक्षं चेति चतुर्वर्गं धर्मं चक्रे पृथग्गुणम् ।
धर्मरूपान् नियमाँश्च दण्डरक्षादिकल्पितान् ।।७३।।
चक्रे यज्ञादिरूपाँश्च कर्मफलादिमिश्रितान् ।
अर्थरूपान् पदार्थांश्च क्षेत्रवाटीगृहादिकान् ।।७४।।
धनसम्पत्स्वरूपाँश्च चक्रे स्वत्वादिबोधकान् ।
कामरूपान् नियमाँश्च ऋतून् परस्परान्वितान् ।।७५।।
मोहादिनियमाँश्चक्रे स्वस्वभोग्यव्यवस्थितान् ।
मोक्षधर्मं सामरूपं चार्पणं मयि माधवे ।।७६।।
त्रिवर्गार्पणमेवापि मोक्षदं चेत्यनिर्णयत् ।
अन्यानि बहुधान्येव प्रकाराणि ह्यनिर्णयत् ।।७७।।
तां नीतिं शंकरः पूर्वं जग्राहेशानको ह्ययम् ।
शंकरोक्तं च तच्छास्त्रं वैशालाक्षं तदाऽभवत् ।।७८।।
इन्द्रस्तस्मात्प्रजग्राह बाहुदन्तकमेव तत् ।
बृहस्पतिर्लिलेखेदं बार्हस्पत्यं ततोऽभवत् ।।७९।।
औशनसं ततो जातं ततो नीतिः प्रवर्तिता ।
देवैर्विष्णुश्चार्थितश्च नीतिशास्त्रविदं प्रति ।।2.191.८०।।
ततो नारायणश्चाहं ददौ वै मानसं सुतम् ।
विरजसं तत्पुत्रोऽभूत् कीर्तिमान् तस्य पुत्रकः ।।८ १ ।।
कर्दमोऽभूत् तस्य पुत्रोऽनंगनामा सुबुद्धिमान् ।
प्रजारक्षयिता साधुर्दण्डनीतिविशारदः ।।८२।।
तत्सुतोऽभूदंगराजो मृत्युपुत्रीं सुनीथिकाम् ।
विवाह्य वेनं क्रूरं वै पुत्रमेकमजीजनत् ।।८३।।
तं वेनं द्वेषिणं मन्त्रकुशैर्जघ्नुर्महर्षयः ।
ममन्थुर्दक्षिणं चोरुमृषयो वेनदेहजम् ।।८४।।
निषादं जनयामासुर्निषादाश्च ततोऽभवन् ।
भूयोऽस्य दक्षिणं पाणिं ममन्थुस्ते महर्षयः ।।८५।।
ततोऽहं पृथुरूपश्चाऽभवं शस्त्री च वर्मवान् ।
नीतिशास्त्रज्ञ एवाऽहं राजशब्दमवाप्तवान् ।।८६।।
मया देवैः सह भूमिः समपाटा विधापिता ।
संकल्पेन मया सर्वा राज्यस्मृद्धिर्नवीकृता ।।८७।।
आद्ये तु युगपर्याये राज्यं वै स्थापितं मया ।
पृथ्वी दुग्धा प्रजार्थं च प्रजा दण्डेन रक्षिता ।।८८।।
रञ्जनाद्वै प्रजाः प्राहुः राजा पृथुरिति क्षितौ ।
क्षतत्राणात् क्षत्रियोऽहं ततोऽभवं द्विजोऽपि सन् ।।८९।।
पृथिवीस्थापनं राज्यस्थापनं चाहमेव तु ।
विष्णुः सनातनस्तत्राऽकरवं नीतियोजिम् ।।2.191.९० ।।
मल्ललाटात्तदा जातं कमलं कानकं शुभम् ।
श्रीःसंभूता ततो देवी कमला धर्मपत्निका ।।९ १।।
श्रीरर्थरूपाऽभूद् राज्ये कामदा मोक्षदा अपि ।
वैष्णवी श्रीर्यदा राज्ये वर्तते मोक्षदा तु सा ।।९२।।
एवं ततः समारभ्य देवाश्च नरदेवताः ।
बुधैस्तुल्याः शब्दिताश्च मदंशा भूभृतो यतः ।।९३।।
श्रैष्ठ्यमेवं मया न्यस्तं राज्ञि राजत्वसंज्ञकम् ।
तेन राज्ञा प्रजाभिश्च द्रष्टव्योऽहं निजात्मसु ।।९४।।
पूजनीयो वन्दनीयश्चार्पणीयोऽतिभावतः ।
मय्यर्पितास्तु मामेव प्राप्स्यन्ति नात्र संशयः ।।९५।।
मां विहायाऽभिमन्तारो नैजं पदं तु ये नृपाः ।
क्षयं यास्यन्ति ते न्यूनं राजवंशा दरिद्रकाः ।।९६।।
इत्येवं निर्णयं ज्ञात्वा भजन्तु मां जनार्दनम् ।
राजराजेश्वरं नित्यं चतुर्वर्गं निधाय च ।।९७।।
मय्येवेति हरिः प्राह राधिके च सभाजनाः ।
जगृहुस्तद्वचांस्येव नेमुः सर्वे ततो ययुः ।।९८।।
हरिः प्राप निजावासं राजसौधे च भोजनम् ।
चकाराऽन्ये महीमानाश्चक्रुर्भोजनमादरात् ।।९९।।
विश्रान्तिं च ततः प्रापुः रात्रौ सर्वेऽपि निद्रिताः ।
राधिके राजकन्यास्तं कृष्णकान्तं सिषेविरे ।। 2.191.१० ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने गण्डकराजधानीं प्रति गमनं लीशवनानगर्यां भ्रमणं पूजनं भोजनमुपदेशनं रात्रौ विश्रमणं चेत्यादिनिरूपणनामैकनवत्यधिकशततमोऽध्यायः ।। १९१ ।।
 
</span></poem>
२९,७४७

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/225472" इत्यस्माद् पुनः प्राप्तिः