"लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १९२" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
({{header | title = लक्ष्मीनारायणसंहिता - लक्ष्मीनारा... नवीन पृष्ठं निर्मीत अस्ती)
 
 
| notes =
}}
<poem><span style="font-size: 14pt; line-height:200%">श्रीकृष्ण उवाच-
राधिके नवमीप्रातर्मंगलैस्तूर्यनिःस्वनैः ।
बन्दिमागधसूतानां वाग्भिर्जागरितः प्रभु ।। १ ।।
जजागरुस्तथा सर्वे नित्यविधिं प्रचक्रिरे ।
राजा दुग्धादि भोज्यादि त्वानीय हरये ददौ ।। २ ।।
सर्वे चक्रुर्दुग्धपानं भोजनं च यथोचितम् ।
आशीर्वादान् ददौ तत्र भूभृते श्रीहरिः प्रभुः ।। ३ ।।
जनताभ्यस्तथाऽऽशीर्वाग्गौरवादि ददौ हरिः ।
ततो गन्तुमभवच्च सज्जो लीनोर्णराष्ट्रकम् ।। ४ ।।
लीनोर्णनृपतिस्तत्रागत्य चार्थयदच्युतम् ।
फलाशनेन ऋषिणा सार्धं प्रभुस्तदाऽवदत् ।। ५ ।।
गण्डको नृपतिस्तत्र विदायं प्रददौ बहु ।
हरिर्विमानवर्यं च समारुरोह पूजितः ।। ६ ।।
आरुरुहुस्तथाऽन्येऽपि प्रजाजयध्वनींस्तदा ।
शृण्वन्तः सर्व एवैते प्रेरयन् व्योमपत्त्रिणः ।। ७ ।।
खाडिकां च समुल्लंघ्य वारुणीं नगरीं ययुः ।
लीनोर्णभूपतिः पूर्वमवतीर्य पुरं निजम् ।। ८ ।।
फलाशनर्षिणा साकं हरेः स्वागतमाचरत् ।
भूपदर्शितमार्गेणाऽवातारयद् विमानकम् ।। ९ ।।
हरिस्तथाऽन्ये यानान्यवातारयत्तदाऽम्बरात् ।
वाद्यानां गीतिकानां च निनादो व्यानशेऽभितः ।। २.१९२.१ ०।।
हरिर्यानात् समुत्तीर्य नरयाने सुशोभिते ।
राज्ञा प्रदर्शिते स्वर्णे व्यराजत जयध्वनैः ।। १ १।।
राज्ञा मालादिभिः सम्यक् पूजितः परमेश्वरः ।
कुटुम्बाद्यैः सह सर्वान् वारुण्यामविहारयत् ।। १२।।
राजसैन्येन सहितो भगवान् नागरैर्जनैः ।
अर्चितश्चाययौ सौधं राजालयं विशालकम् ।। १ ३।।
विशश्राम ततः सस्नौ भोजनं जगृहे तदा ।
अन्येऽपि भोजनं चक्रुस्ततो राज्ञी हरेः पुरः ।। १४।।
पूजनार्थं समायाता चतुःकन्यासमन्विता ।
कन्या हरिं प्रियं प्राप्य करग्रहं व्यधुर्मुदा ।। १५।।
राज्ञी पूजां यौतकं च प्रददौ विधिना ततः ।
विश्रम्य च ततः सज्जो बभूव भगवान् द्रुतम् ।। १६ ।।
राज्ञश्चाभिप्रायमाप्य सर्वान् सज्जान् व्यधात् प्रभुः ।
बृहच्छरनृपस्याऽग्रे राष्ट्रं वै खाडिगान्तिगम् ।। १७।।
वल्लीजीवनमुनिनाऽर्थितो हरिर्जगाम ह ।
बृहच्छरो नृपश्चाग्रे ह्यवातरन्निजां पुरीम् ।। १८।।
धीवराख्यां शोभितां च श्रीहरिं तु सहाऽऽनयत् ।
नगर्यां भवने रम्ये पुपूज परमेश्वरम् ।। १९।।
राजा राज्ञी कन्यके च प्रजाः स्वागतमाचरन् ।
कन्याद्वयं हरेः पाणिं जगृहतुः सुभावतः ।।२.१९२.२०।।
राजाऽभवत् कृतकृत्यो हरिर्निशां निनाय ह ।
प्रातर्नगर्यां परितो व्यभ्रमत् सैन्यशोभितः ।। २१ ।।
प्रजाभ्यो दर्शनं दत्वा कृत्वा तां पावनीं पुरीम् ।
दुग्धपानादिकं कृत्वा गन्तुं सज्जोऽभवत्प्रभुः । ।२२।।
तावत्पश्चिमसामुद्रो राजा श्रुत्वा प्रभुं द्रुतम् ।
विमानैः सह वै शीघ्रं नेतुं तत्र समाययौ ।। २३।।
अंगराजो हरिं नत्वाऽप्रार्थयत्परमेश्वरम् ।
हरिस्तथाऽस्त्विति प्राह सज्जस्तूर्णं तदाऽभवत् ।। २४।।
अन्यान्यपि विमानानि सुसज्जानि तदाऽभवन् ।
खाडीमुत्तीर्य भगवान् मिलिन्दां नगरीं ययौ ।। २५।।
राज्ञा सम्मानितः शक्त्या वाद्यैः सैन्येन कीर्तनैः ।
पूजनैरुपदादानैस्तोषितो भ्रामितः पुरे ।।२६।।
भोजनं कारयामास मध्याह्ने सर्वमानवान् ।
सायं सर्वान् विमानेषु कृत्वा द्वीपानदर्शयत् ।। २७।।
पुनः सर्वं विलोक्यैव मिलिन्दामाययौ हरिः ।
ददौ तत्रोपदेशं च राजनीत्युपबृंहितम् ।।२८।।
द्विलीनायाः प्रजाश्चापि सुकौतुकीप्रजास्तथा ।
श्रुश्रवुस्तत्र चागत्योपदेशं सह चांगकैः ।।२९।।
दशमीरजनीभागे लक्षाधिजनसंसदि ।
हितं मोक्षकरं चाप्युपादिदेश च राधिके ।।२.१९२.३ ०।।
ईशानोऽयं परब्रह्म माननीयः सदा जनैः ।
ईशाने तु पराभक्तिः कर्तव्या वै मदात्मके ।।३ १ ।।
अनृतं न हि वक्तव्यं शपथं तत्र नापि वै ।
सूर्यवारः पालनीयो हरस्याराधनाय वै ।। ३२।।
पितरौ सर्वदा सेव्यौ घातः कार्यो न सर्वदा ।
स्तैन्यं वर्ज्यं मृषा साक्ष्यं वर्ज्यं न्यायालयेऽपि च ।। ३३।।
परेषां धनवस्त्रादि कामनीयानि नैव तु ।
परसत्त्वं न हन्तव्यं पारक्यं ग्राह्यमेव न ।। ३४।।
विश्वासघातनं नैव कर्तव्यं कस्यचित् क्वचित् ।
प्रजायां धर्मघातश्च कर्तव्यो नैव सर्वथा ।।३५।।
एवं धर्मान् पालयित्वा राजा नाकं समाप्नुयात् ।
सत्यवाक्यं क्रोधशून्यं क्षमापनं विभाजनम् ।। ३६।।
स्वदारेस्वेव रमणं शौचं द्रोहविवर्जनम् ।
आर्जवं भृत्यभरणं कार्यं सर्वजनैः सदा ।।३७।।
दमं पुरातनं धर्मं जगृहुर्विप्रजातयः ।
स्वाध्यायं योगकरणं तपः सन्तानपालनम् ।। ३८।।
मैत्र्यं हितकरं वाक्यं धर्तव्यं रक्षणं सदा ।
एवं वै वर्तयन् विप्रः स्वर्गं नित्यमवाप्नुयात् ।। ३९।।
क्षत्रियस्तु समदद्यात् चाधीयीत यजेत च ।
प्रजाः प्रपालयेत् पराक्रमेदन्यायवर्तिनि ।। २.१९२.४०।।
क्षत्रकृत्यं दस्युजातेर्वारणं मुख्यमस्ति यत् ।
दानं चाध्ययनं यज्ञश्चेति राज्ञां सुखावहाः ।।४१ ।।
तैश्च तिष्ठन्निजे धर्मे राजा सर्वान् हि वर्तयेत् ।
एवं धर्मे स्थितो राजा राजन्येन्द्रः समुच्यते ।।४२।।
अथेतरः कृषिकर्मा व्यापारवान् च वा जनाः ।
दानमध्ययनं यज्ञं प्रकारयेद् धनार्जनम् ।।४३।।
पशून् वै पालयेत् सर्वान् पुत्रवात्सल्यभावतः ।
पशूनां रक्षया वैश्यः परमं सुखमाप्नुयात् ।।४४।।
प्रजापतिः पुरा सृष्ट्वा पशून् वैश्याय सन्ददौ ।
राज्ञे ददौ प्रजाः सर्वा विप्रेभ्यः शारदां ददौ ।।४५।।
सप्तमं भागमादाय जीवनं सर्वथा चरेत् ।
क्षत्रियश्चेत्तदा मह्यं समर्प्य मोक्षमाप्नुयात् ।।४६।।
सेवां च भृत्यतां दास्यं परिचर्या च दूतताम् ।
कुर्वाणा दासवर्गास्तु महत्सुखमवाप्नुयुः ।।४७।।
शुश्रूषा कल्पवल्ल्यस्ति शुश्रूषा कल्पपादपः ।
शुश्रूषा कामधेनुश्च चिन्तामणिश्च सा मता ।।४८।।
सेवया वशमायाति सिंहो राजा गुरुर्ग्रहाः ।
दास्येन वशतां यान्ति स्वामीपतिः सती प्रजाः ।।४९ ।।
शुश्रूषया वशं यान्ति शत्रुर्द्वेष्टा तमः खलाः ।
परिचर्यापरो लोको रञ्जयति नियामकान् ।।२.१९२.५०।।
रञ्जनाद् राजराज्यादि रञ्जकस्य न वै पृथक् ।
तस्मात् सर्वं प्रपद्येत सेवया रत्नसंभृतम् ।।५ १।।
छत्रं वेष्टनमाभूषा चोपानद् व्यजनादिकम् ।
अम्बराणि सुभोज्यानि दीयन्ते परिचारिणे ।।५२।।
अनपत्यो हि भर्तव्यो भर्तव्यौ वृद्धदुर्बलौ ।
दासो दासी भत्यवर्गो भर्तव्या धर्मतस्तु ते ।।५३ ।।
यज्ञः पूजा ब्राह्मणानां यज्ञो धनेन भूभृताम् ।
वैश्यानां भरणं यज्ञः श्रद्धा यज्ञस्तु सेविनाम् ।। ५४।।
अग्रे सर्वेषु यज्ञेषु श्रद्धा यज्ञोऽतिदुष्करः ।
दैवतं परमं श्रद्धा यया तुष्यामि माधवः ।।५५।।
श्रद्धामयाः कर्मकाराः सर्वफलैः समृद्धिनः ।
तस्मात् सर्वेषु लोकेषु श्रद्धायज्ञो विधीयते ।।५६।।
दैवतं परमं यत्र श्रद्धाख्यं तत्र देवता ।
कार्यसिद्धिश्चेशसिद्धिर्मयि न्यस्य समर्थ्यते ।।५७।।
स्तेनो वा यदि वा पापो यदि वः पापकृत्तमः ।
यष्टुमिच्छति यज्ञं यः साधुरेव यतो हि सः ।।५८।।
यष्टव्यं सर्वदा तस्माद् देवे वा चेतनेऽपि वा ।
दरिद्रेऽनाथवर्गे वा पाल्ये वा श्रद्धयोद्धृते ।।५९।।
सर्वथा सर्वदा सर्वैर्यष्टव्यमिति निश्चयः ।
नहि यज्ञसमं किञ्चित् फलदं सुखदं परम् ।।२.१९२.६०।।
ब्रह्मचर्यपरो वा स्याद् गृहधर्ममनाचरन् ।
ब्रह्मण्येव तु जुह्वानः परब्रह्माऽधिगच्छति ।।६ १ ।।
यद्वा सदारकर्मापि मत्परायणधर्मवान् ।
ममाश्रये चरन् धर्मं बन्धनान्मुच्यतेऽपि सः ।।६२।।
कृतकृत्योऽथवा ज्ञानदृष्ट्या वने वसेदपि ।
मत्परः स सदा कर्मी व्रजत्यक्षरसाम्यताम् ।।६३ ।।
मम धर्मान् साधुभावानाश्रित्य द्वन्द्ववर्जितः ।
यतिश्चेत् प्राप्नुयान्मां स मद्भावायोपकल्प्यते ।।६४।।
भैक्षवृत्तिश्च यस्तिष्ठेन्निष्परिग्रह आत्मवान् ।
कर्मी वा कर्मशून्योऽपि मद्भावायोपकल्पते ।।६५।।
मितशायी मिताशी च निराशी चाप्यकेतनः ।
यथोपलब्धजीवी च मुनिर्मां समवाप्नुयात् ।।६६ ।।
निराशी ब्रह्मवत्प्रोक्तस्तृप्तः पूर्णसुखाश्रयः ।
निर्भोगो वृत्तिवर्ज्यश्च व्रजत्यक्षरसाम्यताम् ।।६७।।
गृहाश्रमी तरेन्मायां मायायां माययोषितः ।
अपि सर्वां मयि क्षिप्त्वा ततो बन्धाद् विमुच्यते ।।६८।।
स्वदारतुष्टः सन्तोषी शाठ्यजैह्म्यविवर्जितः ।
देवपूजापरः सत्यो दान्तो विभागकृत्तथा ।।६९।।
क्षमादयापरो दाता सर्वेभ्यश्च यथोचितम् ।
आर्जवं चातिथिपूजां भरणं श्रितदेहिनाम् ।।२.१९२.७०।।
यः कुर्याद् वर्तयेच्चापि वर्तेतापि स मोक्षभाक् ।
स्वर्गे शुद्धं फलं प्राप्य मोदित्वा शाश्वतीसमाः ।।७१ ।।
देहान्ते चाक्षयान् कामाननन्तान् सर्वतः स्थितान् ।
अवाप्नुयान्न सन्देहो मय्यर्पणे तु मद्गतान् ।।७२।।
यो यथा कुरुते चात्र तादृशं स समाप्नुयात् ।
पारक्यं प्रथमं कृत्वोपकाररूपमुत्सवात् ।। ७३ ।।
ततो दैह्यं चान्तरं च ततो नैजं समाचरेत् ।
पारमेशं ततः कुर्यात् सर्वदोषनिवारकम् ।।७४।।
य एवं वर्तते राजा लोके प्रजाजनोऽपि वा ।
सर्वतन्तुप्रोतमणिर्मेरुकृष्णं स विन्दति ।।७५।।
तस्मात् प्रजाभिः सततं परमेशे समर्प्य च ।
निर्द्वन्द्वाभिर्निष्कर्माभिर्भाव्यं ब्राह्म्यधिलब्धये ।।७६।।
मत्कर्माणं मद्विश्रान्तं मद्धोमं मत्परायणम् ।
तारयामि न सन्देहो मृत्युसागरपूरतः ।। ७७।।
अर्चयित्वा सर्वपितॄन् देवानृषीन् समाश्रितान् ।
आन्तरस्थं हरिं चापि यायादन्ते हरेः पदम् ।।७८।।
अकुर्वन् वा विकुर्वन् वा कुर्वन् वा मत्कृताश्रयः ।
मद्योगात्पारमाप्नोति कर्माऽसंख्याऽधिवारिधेः ।।७९।।
मां यजन्तु सदा प्रातर्मां स्मरन्तु क्रियादिषु ।
मामन्ते हृदये कृत्वा प्रयान्तु मेऽक्षरं पदम् ।।२.१९२.८० ।।
इत्युक्त्वा विररामैव राधिके भगवान् स्वयम् ।
मिलिन्दाराजधान्याश्च राजा प्रजास्तथेतरे ।।८ १।।
धर्ममासाद्य विज्ञानैर्मिश्रितं बन्धनाशकम् ।
प्रसन्ना जगृहुः सर्वान् धर्मास्तदोपदेशितान् ।।८२।।
लोमशश्च ददौ तत्र ताभ्यो मन्त्रं हरेरपि ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।।८३।।
ततः प्रजाश्च राजा च पूजयामासुरीश्वरम् ।
स्वर्णरूप्यकमुद्राभिश्चोपदाभिस्तथाऽम्बरैः ।।८४।।
विभूषाभिश्चन्दनाद्यैरक्षतैः पुष्पहारकैः ।
विविधैर्दानयोग्यैश्च वस्तुभिः परमेश्वरम् ।।८५।।
हरिस्ताभ्यः प्रजाभ्यश्च राजभ्यश्च प्रसन्नहृत् ।
आशीर्वादान् ददौ यूयं भवत श्रेष्ठकीर्तयः ।।८६।।
श्रेष्ठराज्याः श्रेष्ठधर्माः श्रेष्ठन्यायपरायणाः ।
श्रेष्ठस्य मे महेशानस्यैव भक्तौ कृतादराः ।।८७।।
एवमुक्त्वा विशश्राम हरिर्निजनिवासने ।
जना नैजान् निवासाँश्च ययुः कृतात्मवेदिनः ।।८८।।
अंगराजो भोजनानि ददौ श्रीपरमात्मने ।
सर्वानभोजयच्चापि महीमानान् हरेःश्रितान् ।।८९।।
ईशानं पूजयामास लोमशं च पुपूज ह ।
हरेः कुटुम्बकं प्रार्च्य राजा जग्राह भोजनम् ।। २.१९२.९० ।।
राज्ञी रंगरजानाम्नी चांगराजस्य पत्निका ।
गौरी प्रसन्नहृदयैकादशपुत्रिकायुता ।। ९१ ।।
पौष्पकानकहाराँश्च चन्दनाक्षतगन्धिनः ।
आदायाऽर्चयितुं चायाद् बालकृष्णस्य सन्निधौ ।। ९२।।
पुपूज प्रीत्या चरणौ पयसाऽक्षालयद्धरेः ।
पपौ पपुश्च गौर्यस्ताः कन्यास्त्वेकादशापि वै ।।९३ ।।
अनादिश्रीबालकृष्णं विलोक्य कान्तमीश्वरम् ।
करे जगृहुरत्यर्थं विवाहविधिना तु ताः ।।९४।।
कण्ठे हारान् ददुस्ताश्च हरिस्ताभ्योऽपि सन्ददौ ।
उत्सवः स महान् जातः कृतकृत्योऽभवन्नृपः ।।९५।।
अथ निद्रां जगृहुश्च विशश्रमुः सुखं निशाम् ।
गतां विलोक्य भगवान् श्रुत्वा मंगलनिःस्वनान् ।। ९६।।
कृताह्निको हरिस्तूर्णं स्वस्थोऽभवद् यदा द्रुतम् ।
तावद् राजा सती राज्ञीश्चाजह्रतुः पयः शुभम् ।। ९७।।
फलात्मभोजनाद्यं च जग्राह भगवाँश्च तत् ।
ब्रह्मप्रियाः कुटुम्बं चर्षयो जगृहुरुत्सुकाः ।। ९८।।
फलानि जगृहुश्चापि ताम्बूलानि ततः परम् ।
विदायं जगृहुश्चापि सन्मानं प्राप्य तत्क्षणम् ।।९९।।
हरिश्चान्ये नृपं पृष्ट्वाऽऽरुरुहुः सज्जिता द्रुतम् ।
विमानानि तूर्यनादान् शृण्वन्तो व्योममार्गतः ।। २.१९२.१० ०।।
आकारणादिवचसो विचेरुश्चाग्रतस्तदा ।
इत्येवं राधिके कृष्णनारायणो ययौ पुरः ।। १०१ ।।
बललीननृपराष्ट्रं जरामौनर्षिभूतलम् ।
अम्बराद् भूतलं कृष्णो ददर्श बहुशोभनम् ।। १ ०२।।
राजा पुरो ययौ भूमौ बललीनो महर्षिणा ।
जरामौनेन साकं वै स्वागतार्थं हरेस्तदा ।। १०३ ।।
राधिके श्रावणे कृष्णैकादश्यां प्रहरद्वये ।
तदा वाद्यान्यवाद्यन्त जयध्वानास्तदाऽभवन् ।। १ ०४।।
यन्त्रशब्दा नाममाला भजनान्यभवन् भुवि ।
राजदर्शितमार्गेण विमानानि क्रमात्तदा ।। १०५ ।।
अवतेरुर्महोद्याने वालीनायास्तु सन्निधौ ।
विशालाया राजधान्या लक्षाधिजनसंकुले ।। १ ०६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने हरेर्लीनोर्णराष्ट्रागमनं वारुण्यां नगर्यां भ्रमणं पूजनं भोजनं विदायं, ततो बृहच्छरनृपराष्ट्रागमनं धीवरायां नगर्यां भ्रमणं, ततोऽङ्गराजस्य मिलिन्दानगरीं प्रति गमनं
भ्रामणमुपदेशनं भोजनं रात्रौ विश्रान्तिर्भाद्रकृष्णैकादश्यां प्रहरद्वये बललीननृपराष्ट्रगमनमित्यादिनिरूपणनामा द्वानवत्यधिकशततमोऽध्यायः ।। १९२ ।।
 
</span></poem>
२९,७२१

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/225473" इत्यस्माद् पुनः प्राप्तिः