"मत्स्यपुराणम्/अध्यायः ८३" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
धान्यशैलदानविधिवर्णनम्।
 
नारद उवाच।
भगवन्! श्रोतुमिच्छामि दानमाहात्म्यमुत्तमम्।
यदक्षयं परे लोके देवर्षिगणपूजितम्।। ८३.१ ।।
 
उमापतिरुवाच।
मेरोः प्रदानं वक्ष्यामि दशधा मुनिपुङ्गव।
यत्प्रदानान्नरो लोकानाप्नोति सुरपूजितान्।। ८३.२ ।।
 
पुराणेषु च वेदेषु यज्ञेष्वायतनेषु च।
न तत्फलमधीतेषु कृतेष्विह यदश्नुते।। ८३.३ ।।
 
तस्माद्विधानं वक्ष्यामि पर्वतानामनुक्रमात्।
प्रथमो धान्यशैलः स्याद् द्वितीयो लवणाचलः।। ८३.४ ।।
 
गुड़ाचलस्तृतीयस्तु चतुर्थो हेमपर्वतः।
पञ्चमस्तिलशैलः स्यात् षष्ठः कार्पासपर्वतः।। ८३.५ ।।
 
सप्तमो घृतशैलश्च रत्नशैलस्तथाष्टमः।
राजतो नवमस्तद्वद्दशमः शर्कराचलः।। ८३.६ ।।
 
वक्ष्ये विधानमेतेषां यथावदनुपूर्वशः।
अयने विषुवे पुण्ये व्यतीपाते दिन क्षये।। ८३.७ ।।
 
शुक्लपक्षे तृतीयायामुपरागे शशि क्षये।
विवाहोत्सवयज्ञेषु द्वादश्यामथवा पुनः।। ८३.८ ।।
 
शुक्लायां पञ्चदश्यां वा पुण्यर्क्षे वा विधानतः।
धान्यशैलादयो देया यथाशास्त्रं विधानतः।। ८३.९ ।।
 
तीर्थेष्वायतने वापि गोष्ठे वा भवनाङ्गणे।
मण्डपं कारयेद्भक्त्या चतुरस्रमुदङ्‌मुखम्।।
प्रागुदक् प्रवणन्तद्वत् प्राङ्कमुखञ्च विधानतः।। ८३.१० ।।
 
गोमयेनानुलिप्तायां भूमावास्तीर्य वै कुशान्।
तन्मध्ये पर्वतं कुर्यात् विष्कम्भपर्वतान्वितम्।। ८३.११ ।।
 
धान्यद्रोणसहस्रेण भवेद्गिरिरिहोत्तमः।
मध्यमः पञ्चशतिकः कनिष्ठः स्यात्त्रिभिः शतैः।। ८३.१२ ।।
 
मेरुर्महाव्रीहिमयस्तु मध्ये सुवर्णवृक्षत्रयसंयुतः स्यात्।
पूर्वेण मुक्ताफलवज्रयुक्तो याम्येन गोमेदकपुष्परागैः।। ८३.१३ ।।
 
पश्चाच्च गारुत्मतनीलरत्नैः सौम्येन वैढूर्यसरोजरागैः।
श्रीखण्डखण्डैरभितः प्रवालैर्लतान्वितः शुक्तिशिलातलः स्यात्।। ८३.१४ ।।
 
ब्रह्माऽथ विष्णुर्भगवान् पुरारिर्दिवाकरोऽप्यत्र हिरण्मयः स्यात्।
मूर्द्धन्यवस्थानममत्सरेण कार्यं त्वमेकैश्च पुनर्द्विजौघैः।। ८३.१५ ।।
 
चत्वारि श्रृङ्गाणि च राजतानि नितम्बभागेष्वपि राजतः स्यात्।
तथेक्षुवंशावृतकन्दरस्तु घृतोदकप्रस्रवणैश्च दिक्षु।। ८३.१६ ।।
 
शुक्लाम्बराण्यम्बुधरावली स्यात् पूर्वेण पीतानि च दक्षिणेन।
वासांसि पश्चादथकर्बुराणि रक्तानि चैवोत्तरतो घनाली।। ८३.१७ ।।
 
रौप्यान् महेन्द्रप्रमुखांस्तथाष्टौ संस्थाप्य लोकाधिपतीन् क्रमेण।
नानाफलानी च समन्ततः स्यान्मनोरमं माल्यविलेपनञ्च।। ८३.१८ ।।
 
वितानकञ्चोपरि पञ्चवर्णमम्लानपुष्पाभरणं सितञ्च।।
इत्थं निवेश्यामरशैलमग्र्यं मेरोस्तु विष्कम्भगिरीन् क्रमेण।। ८३.१९ ।।
 
तुरीयभागेन चतुर्दिशञ्च संस्थापयेत् पुष्पविलेपनाढ्यान्।
पूर्वेण मन्दरमनेकफलावलीभिर्युक्तं यवैः कनकभद्रकदम्बचिह्नैः।। ८३.२० ।।
 
कामेन काञ्चनमयेन विराजमानमाकारयेत् कुसुमवस्त्रविलेपनाढ्यम्।
क्षीरारुणोदसरसाथ वनेन चैवं रौप्येण शक्तिघटितेन विराजमानम्।। ८३.२१ ।।
 
याम्येन गन्धमदनश्च निवेशनीयो गोधूमसञ्चयमयः कलधौतयुक्तः।
हैमेन यज्ञपतिना घृतमानसेन वस्त्रैश्च राजतवनेन च संयुतः स्यात्।। ८३.२२ ।।
 
पश्चात् तिलाचलमनेकसुगन्धिपुष्प--सौवर्णपिप्पलहिरण्मयहंसयुक्तम्।
आकारयेन्द्रजतपुष्पवनेन तद्वद्वस्त्रान्वितं दधिसितोदसरस्तथाग्रे।। ८३.२३ ।।
 
संस्थाप्य तं विपुलशैलमथोत्तरेण शैलं सुपार्श्वमपि माषमयं सुवस्त्रम्।
पुष्पैश्च हेमवटपादपशेखरन्तमाकारयेत् कनकधेनुविराजमानम्।। ८३.२४ ।।
 
माक्षीकभद्रसरसाथ वनेन तद्वद्रौप्येण भास्वरवता च युतं निधाय।
होमश्चतुर्भिरथ वेदपुराणविद्भिर्दान्तैरनिन्द्यचरिताकृतिभिर्द्विजेन्द्रैः।।८३.२५।।
 
पूर्वेण हस्तमितमत्र विधाय कुण्डंि कार्यस्तिलैर्यववृतेन समित्‌कुशैश्च
रात्रौ च जागरमनुद्धतगीततुर्यैरावाहनञ्च कथयामि शिलोच्चयानाम्।। ८३.२६ ।।
 
त्वं सर्वदेवगणधामनिधे! विरुद्धमस्मद्‌गृहेष्वमरपर्वत! नाशयाशु।
क्षेमं विधत्स्व कुरु शान्तिमनुत्तमान्नः संपूजितः परमभक्तिमता मया हि।। ८३.२७ ।।
 
त्वमेव भगवानीशो ब्रह्म विष्णुर्दिवाकरः।
मूर्तामूर्तात्परं बीजंमतः पहि सनातन!।। ८३.२८ ।।
 
यस्मात्त्वलोकापालानां विश्वमूर्तेश्च मन्दिरम्।
रुद्रादित्यवसूनाञ्च तस्माच्छान्तिं प्रयच्छमे।। ८३.२९ ।।
 
यस्मादशून्यममरैर्नारीभिश्च शिवेन च।
तस्मात् मामुद्धराशेषदुःखसंसारसागरात्।। ८३.३० ।।
 
एवमभ्यर्च्य तं मेरुं मन्दरञ्चाभिपूजयेत्।
यस्माच्चैत्ररथेन त्वं भद्राश्वेन च वर्षतः।। ८३.३१ ।।
 
शोभसे मन्दर! क्षिप्रमतस्तुष्टिकरो भव।
यस्माच्चूड़ामणिर्जम्बू द्वीपे त्वं गन्धमादन!।। ८३.३२ ।।
 
गन्धर्ववनशोभावानतः कीर्तिर्दृढास्तु मे।
यस्मात्त्वं केतुमालेन वैभ्राजेन वनेन च।। ८३.३३ ।।
 
हिरण्मयाश्वत्थशिरास्तस्मात् पुष्टिर्ध्रुवास्तु मे।
उत्तरैः कुरुभिर्यस्मात्‌ सावित्रेण वनेन च।।
सुपार्श्व! राजसे नित्यमतः श्रीरक्षयास्तु मे।। ९३.३४ ।।
 
एवमामन्त्र्य तान् सर्वान् प्रभाते विमले पुनः।
स्नात्वाऽथ गुरवे दद्यान्मध्यमं पर्वतोत्तमम्। ९३.३५ ।।
 
विष्कम्भपर्वतान्‌ दद्याद्रृत्विग्भ्यः क्रमशो मुने।
गाश्च दद्याच्चतुर्विशदथवा दश नारद।। ८३.३६ ।।
 
नव सप्त तथाष्टौ वा पञ्च दद्यादशक्तिमान्।
एकापि गुरवे देया कपिला च पयस्विनी।। ८३.३७ ।।
 
पर्वतानामशेषाणामेष एव विधिः स्मृतः।
तएव पूजने मन्त्रास्तएवोपस्करा मताः।। ८३.३८ ।।
 
ग्रहाणां लोकपालानां ब्रह्मादीनाञ्च सर्वदा।
स्वमन्त्रेणैव सर्वेषु होमः शैलेषु पठ्यते।। ८३.३९ ।।
 
उपवासी भवेन्नित्यमशक्ते नक्तमिष्यते।
विधान सर्वशैलानां क्रमशः श्रृणु नारद।। ८३.४० ।।
 
दानकाले च ये मन्त्राः पर्वतेषु च यत्फलम्।। ८३.४१ ।।
 
अन्नं ब्रह्म यतः प्रोक्तमन्ने प्राणाः प्रतिष्ठिताः।
अन्नाद्भवन्ति भूतानि जगदन्नेन वर्त्तते।। ८३.४२ ।।
 
अन्नमेव ततो लक्ष्मीरन्नमेव जनार्दनः।
धान्यपर्वतरूपेण पाहि तस्मान्नगोत्तम।। ८३.४२ ।।
 
अनेन विधिना यस्तु दद्याद्धान्यमयं गिरिम्।
मन्वन्तरशतं साग्रं देवलोके महीयते।। ८३.४३ ।।
 
अप्सरोगणगन्धर्वैराकीर्णेन विराजता।
विमानेन दिवः पृष्ठमायाति स्म निषेवितः।।
धर्म्मक्षये राजराज्यमाप्नोतीह न संशयः।। ८३.४४ ।।
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_८३" इत्यस्माद् प्रतिप्राप्तम्