"अथर्ववेदः/काण्डं १/सूक्तम् ०४" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
({{header | title = अथर्ववेदः - अथर्ववेदः/काण्डं १|काण्... नवीन पृष्ठं निर्मीत अस्ती)
 
 
अपामुत प्रशस्तिभिरश्वा भवथ वाजिनो गावो भवथ वाजिनीः ॥४॥
</span></poem>
 
{{सायणभाष्यम्|
अम्बयो यन्तीत्यादिसूक्तत्रयेण प्रातरनुवाकानन्तरं होत्रानूच्यमानम् अपोनप्त्रीयं ब्रह्मा अनुजपति । तद् उक्तं वैताने-- 'अम्बयो यन्तीति त्रीण्यपोनप्त्रीयम्' (वैताश्रौ १६,१०) इति । तत्र अम्बयो यन्तीत्याद्यं सूक्तं बृहद्गणे पठितम् । तथा च सूत्रम्-- 'अम्बयो यन्ति' (अ १,४) 'शंभुमयोभू' (अ १,५; ६) 'हिरण्यवर्णाः' (अ १,३३) 'निःसालाम्' (अ २,१४) 'ये अग्नयो' (अ ३,२१) 'ब्रह्म जज्ञानम्' (अ ४,१) इत्येका 'उत देवाः' (अ ४,१३) मृगारसूक्तानि उत्तमं वर्जयित्वा (अ ४,२३-२९) 'अप नः शोशुचदघम्' (अ ४,३३) 'पुनन्तु मा' (अ ६,१९) 'सस्रुषीः' (अ ६,२३) 'हिमवतः प्रस्रवन्ति' (अ ६,२४) 'वायोः पूतः पवित्रेण' (अ ६,५१) 'शं च नो मयश्च नः' (अ ६,५७,३) 'अनडुद्भ्यस्त्वं प्रथमम्' (अ ६,५९) 'मह्यमापो' (अ ६,६१) 'वैश्वानरो रश्मिभिः' (अ ६,६२) 'यमो मृत्युः' (अ ६,९३) 'विश्वजित् (अ ६,१०७) 'संज्ञानं नो' (अ ७,५२) 'यद्यन्तरिक्षे' (अ ७,६८) 'पुनर्मैत्विन्द्रियं' (अ ७,६९) 'शिवा नः' (अ ७,७१,३) 'शं नो वातो वातु' (अ ७,७२) 'अग्निं ब्रूमो वनस्पतीन्' (अ ११,८) इति” (कौसू ९,२) लघुगणेपि एतत् सूक्तं पठितम् । सूत्रितं हि--“ 'अम्बयो यन्ति' (अ १,४) शंभुमयोभू' (अ १,५, ६) 'हिरण्यवर्णाः' (अ १,३३) 'शंतातीयं' (अ ४,१३) 'यद्यन्तरिक्षे' (अ ७,६८) 'पुनर्मैत्विन्द्रियं' (अ ७,६९) 'शिवा नः' (अ ७,७१,३) 'शं नो वातो वातु' (अ ७,७२) 'अग्निं ब्रूमो वनस्पतीन्' (अ ११,८)" (कौसू ९,४) इति। तत्र शन्तातीयमिति आ त्वागमं शंतातिभिः इति शंतातिशब्दयुक्तत्वात् 'उत देवा' (अ ४,१३) इति । अयमेव बृहद्गणापेक्षया लघुत्वात् लघुगण इत्युच्यते। तथा शंतातीयसूक्तयोगात् शंतातीयो गण इत्युच्यते । अतः परिशिष्टे 'शंतातीयेन तिलान् जुहोति' (अप ८,१,४) इत्यत्र अयमेव गणः प्रत्येतव्यः। अपां सूक्तेषु च एतत् सूक्तं पठितम् - 'अम्बयो यन्ति' (अ १,४) 'शंभुमयोभू' (अ १,५;६) 'हिरण्यवर्णाः' (अ १,३३) 'यददः' (अ ३,१३) 'पुनन्तु मा' (अ ६,१९) 'सस्रुषीः' (अ ६,२३) इत्यादीनि अपां सूक्तानि । अतः तेषां गणानां यत्रयत्र विनियोगः तत्र सर्वत्र अस्य विनियोगो द्रष्टव्यः।
 
तथा गवां रोगोपशमनपुष्टिप्रजननकर्मसु अनेनैव सूक्तेन अभिमन्त्रितं सलवणं केवलं वा उदकं गाः पाययेत् । तद् उक्तं कौशिकसूत्रे - 'अम्बयो यन्ति' इति प्रक्रम्य ‘गा लवणं पाययत्युपतापिनीः । प्रजननकामाः । प्रपाम् अवरुणद्धि' (कौसू १९,१-३) इति ।
 
तथा सर्वरोगभैषज्यकर्मणि अनेनैव सूक्तेन आज्यहोमं पलाशोदुम्बरादिशान्तवृक्षसमिदाधानं च कुर्यात् । सूत्रितं च - 'अम्बयो यन्ति' ( अ १,४) 'वायोः पूतः' ( अ ६,५१ ) इति च शान्ताः” ( कौसू २५,२० ) इति।।
तथा लाभालाभजयपराजयाद्यभिलषितकर्मणां सिद्ध्यसिद्धिविज्ञानार्थम् अनेनैव सूक्तेन पच्यमानक्षीरौदनेध्माधानकुशस्तम्बपाठा अनुमन्त्रयेत। तत्रौदनादीनां क्रमेण पाके प्रसारणे समसंख्यायां विकासे स्वकार्यसिद्धिं जानीयात् इतरथा तु असिद्धिम् । तद्वदेव जयपरिज्ञाने संग्रामभूमिवेदिकापरीक्षणं च अनेनैव कुर्यात् । सूत्रितं च - 'अम्बयो यन्तीति क्षीरौदनोत्कुचस्तम्बपाठाविज्ञानानि । सांग्रामिकं वेदिविज्ञानम्' ( कौसू ३७,१;२ ) इति ।।
 
तथा अर्थोत्थापनविघ्नशमनकामः अनेन सूक्तेन मरुद्भ्यो मान्त्रवर्णिकीभ्यो देवताभ्यः क्षीरौदनहोमः आज्यहोमः काशदिविधुवकवेतसाख्या ओषधीरेकस्मिन् पात्रे कृत्वा संपात्य अभिमन्त्र्य जलमध्ये अधोमुखं निनयनम् , तासामेव काशादीनां संपातिताभिमन्त्रितानाम् अप्सु प्लावनम् , श्वशिरसो मेषशिरसश्च अभिमान्त्रितस्य अप्सु प्रक्षेपणम् , मानुषकेशजरदुपानहां वंशाग्रे बन्धनम् , तुषसहितम् आमपात्रम् अभिमन्त्रितोदकेन संप्रोक्ष्य त्रिपदे शिक्ये निधाय अप्सु प्रक्षेपणं च इत्येतानि अभिवर्षणकर्माणि संपातिताभिमन्त्रितघटोदकेन आप्लावनम अवसेचनं च कुर्यात् । अत्र 'अर्थम् उत्थास्यन्' इति प्रक्रम्य 'अम्बयो यन्ति शंभुमयोभू' इत्यादि 'अभिवर्षणावसेचनानाम्' (कौसू ४१,१४) इत्येतदन्तं सूत्रं द्रष्टव्यम् । अत्र अमूर्या इत्यनया परिहरणानन्तरम् आग्नीध्रीये उपसाद्यमाना वसतीवरीः अनुमन्त्रयते । तद् उक्तं वैताने--'वसतीवरीः परिह्रियमाणाः' इत्युपक्रम्य 'आग्नीध्रीयेवस्थाप्यमाना उत्तरया अमूर्या इति च' (वैताश्रौ १६,२) इति।
 
 
अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम् ।
 
पृञ्चतीर्मधुना पयः ॥१॥
 
अम्बयः । यन्ति । अध्वऽभिः । जामयः । अध्वरिऽयताम् ।
 
पृञ्चतीः । मधुना । पयः ॥ १ ॥
 
अम्बयः । अम्बाशब्दवद् आम्बिशब्दोपि मातृवाचित्वन वेदे प्रसिद्धः । यथा--'अम्बितमे नदीतमे' ( ऋ २,४१,१६ ) इति 'अम्बे अम्बाल्यम्बिके' (तै ७,४,१९,१) इति च । कृत्स्नस्य जगतो मातृभूता आपः । 'अम्बयो यन्त्यध्वभिरित्यापो वा अम्बयः' ( कौब्रा १२,२) इति हि कौषीतकिब्राह्मणम् । 'इन्द्राय षट् सहस्राण्यपोन्नं प्रजापतिः प्रायच्छ्त्ता अम्बयः' इति शाट्यायनकम् । ता आपः । अध्वरीयताम् । ध्वरो हिंसा न विद्यतेस्मिन्निति अध्वरः ज्योतिष्टोमादिर्यागः । तम् आत्मन इच्छताम्--ननु ज्योतिष्टोमादौ अग्नीषोमीयसवनीयानुबन्ध्याः पशव आलभ्यन्ते कथं तत्र हिंसाऽभाव इति चेत् , मैवम् । नात्र हिंसाया अभावं ब्रूमः। किंतु तज्जनितप्रत्यवायाभावम् । तथाहि -- 'न हिंस्यात् सर्वभूतानि' इति सामान्यशास्त्रं विशेषशास्त्रक्रोडीकृतविषयपरिहारेणैव प्रवर्तत इति हि परीक्षकप्रसिद्धिः। 'पञ्चदश सामिधेनीरन्वाह' (तै २,५,८,२) इति सामान्यविहितस्य सामिधेनीपाञ्चदश्यस्य 'सप्तदशानुब्रूयाद्वैश्यस्य' (तै २,५,१०,२) इत्येवं विशेषविहितसामिधेनीसाप्तदश्यस्य विषयाननुप्रवेशेनैव प्रवृत्तेः शास्त्रे निर्णीतत्वात् । तथा च- 'अग्नीषोमीयं पशुम् आलभेत' इति विशेषशास्त्रविहितविषयपरिहारेण 'न हिंस्याद्' इति सामान्यशास्त्रं व्यर्थहिंसामेव अवलम्बत इति वैधहिंसाया निषिद्धत्वाभावात् नानर्थहेतुत्वम् । एतदेवाभिप्रेत्य उक्तम् अध्वर इति । ननु 'अग्नीषोमीयं पशुम् आलभेत' इत्यादिवत् श्येनेनाभिचरन् यजेत' इत्यादौ अभिचारस्यापि विहितत्वात् नानर्थहेतुत्वम् इति चेत्, मैवम् । श्येनादियागस्य विहितत्वेपि तत्साध्यहिंसाया अग्नीषोमीयपशुहिंसावद् विधिविषयत्वाभावेन निषेधशास्त्रानुप्रवेशाद् अनर्थत्वात् । तथा च तत्साधनभूतः श्येनयागोपि तद्द्वारा अनर्थ इति । गुरुमते तु श्येनादेरविधेयत्वम् । तत्र रागत एव प्रवृत्तत्वात् । तथा च श्येनवाक्यस्य अयमर्थः-- अभिचारेण शत्रुं यदि जिघांससि तर्हि तव वैदिकोपायः श्येन इति रागप्राप्तायाः शत्रुहिंसायाः साधनमात्रं बोध्यते न तु यागे पुरुषः प्रवर्त्यते श्येनं कुर्विति। तथा चोक्तम्--‘साध्यसाधनभावप्रतीतिमात्रपर्यवसितो हि विधिव्यापारो न प्रयोगपर्यवसितः' इति । अतः श्येनयागे विधितः प्रवृत्त्यभावेन 'न हिंस्यात् सर्वभूतानि' इति निषेधशास्त्रस्य तत्रानुप्रवेशात् श्येनस्य अनर्थत्वम् । एतद्व्युदासार्थमेव 'चोदनालक्षणोर्थो धर्मः' (मीसू १,१,२) इत्यत्र भगवता जैमिनिना अर्थपदेन धर्मो विशेषितः। नन्वेवं श्येनाङ्गभूताग्नीषोमीयपशुहिंसायाम् अपि अनर्थता प्रसज्येतेति । नैतत् । वैषम्यात् । न हि श्येनयागवत् तदितिकर्तव्यतायां रागतः प्रवर्तते पुरुषः, किं तु विधित एव । तथा चोक्तम् – कामाधिकारे करणांशे रागतः प्रवृत्तिः अङ्गेषु तु वैधी इति । तद् अलम् अतिप्रसङ्गेन । प्रकृतम् अनुसरामः -- अध्वरीयताम् अध्वरं सोमयागम् आत्मन इच्छतां यजमानानाम् । जामयो भगिन्यः। क्रियमाणे व्यापारे भगिनीवत् सहायभूता इत्यर्थः। एवंभूता आपः अध्वभिर्मार्गैः चात्वालोत्करमध्यदेशरूपैः प्रसिद्धैर्वा मार्गैः यन्ति आगच्छन्ति । यागभूमिम् इत्यर्थः । यन्तीति। इण् गतौ । अदादित्वात् शपो लुक् । 'इणो यण्' (पा ६,४,८१) इति यणादेशः । 'तिङ्ङतिङः' (पा ८,१,२८) इति सर्वानुदात्तत्वम् । अध्वरीयतामिति । अध्वरशब्दात् 'सुप आत्मनः क्यच्' (पा ३,१,८) । 'न च्छन्दस्यपुत्रस्य' (पा ७,४,३५) इत्यत्र 'अपुत्रादीनाम् इति वक्तव्यम्' इति स्मरणाद् ईत्वनिषेधाभावात् 'क्यचि च' (पा ७,४,३३) इति ईत्वम् । 'कव्यध्वरपृतनस्यर्चि लोपः' (पा ७,४,३९ ) इति तु व्यत्ययेन न प्रवर्तते । क्यजन्तात् लटः शत्रादेशः। तत्र शपः पित्त्वाद् अनुदात्तत्वम् । अदुपदेशाल्लसार्वधातुकम्' (पा ६,१,१८६) इति शतुरनुदात्तता । क्यजकारेण सह एकादेशे 'एकादेश उदात्तेनोदात्तः' (पा ८,२,५) इति शतुरुदात्तत्वात् 'शतुरनुमः' (पा ६,१,१७३ ) इति आम उदात्तत्वम् । किं कुर्वत्यः । मधुना स्वकीयेन माधुर्यरसेन पयः सोमरसादिकं होमद्रव्यं पयोविकारभूतम् आज्यं वा । विकारे प्रकृतिशब्दः । पृञ्चतीः पृञ्चत्यः संयोजयन्त्यः। पृची संपर्के । अस्मात् लट् । 'लक्षणहेत्वोः क्रियायाः' (पा ३,२,१२६ ) इति हेतौ शतृप्रत्ययः। रुधादित्वात् श्नम् । 'श्नसोरल्लोपः' (पा ६,४,१११)। 'उगितश्च' (पा ४,१,६ ) इति ङीप् । 'वा छन्दसि' (पा ६, १,१०६ ) इति पूर्वसवर्णदीर्घः। 'शतुरनुमो नद्यजादी' (पा ६,१,१७३ ) इति ङीप उदात्तत्वम्। संपर्काद्धेतोः यन्तीत्यर्थः ।
 
 
अमूर्या उप सूर्ये याभिर्वा सूर्यः सह ।
 
ता नो हिन्वन्त्वध्वरम् ॥२॥
 
अमूः । याः । उप । सूर्ये । याभिः । वा । सूर्यः । सह ।
 
ताः। नः। हिन्वन्तु । अध्वरम् ॥ २ ॥
 
अमूः वृष्टिरूपेण द्युलोकाद् आगच्छन्त्यो याः जगत्कारणत्वेन प्रसिद्धा आपः सूर्ये सूर्यमण्डले उप। योग्यक्रियाध्याहारः। उपलक्ष्यन्ते । 'आपः सूर्ये समाहिताः' (तैआ १,८,१) इति हि श्रुतिः। अपां प्राधान्याभिप्रायेणोक्तम् । सूर्यस्यापि तद् आह । याभिः मण्डलसमीपस्थाभिरद्भिः सह । उक्तवैपरीत्यद्योतनार्थो वाशब्दः । सूर्यो वर्तते । 'सहयुक्तेऽप्रधाने' (पा २,३,१९) इति विहितया तृतीयया अपाम् अप्राधान्यं गम्यते । ताः उक्तलक्षणा आपः नः अस्माकम् अध्वरं यज्ञं क्रियमाणं कर्म हिन्वन्तु प्रीणयन्तु फलदानसमर्थं कुर्वन्तु। अध्वरमिति । ध्वृ हूर्छने । 'पुंसि संज्ञायाम्' (पा ३,३,११८ ) इति घः । न विद्यते ध्वरो यस्मिन्निति बहुव्रीहौ 'नञ्सुभ्याम्' (पा ६,२,१७२ ) इति उत्तरपदान्तोदात्तत्वम् । 'ध्वरतिर्हिंसाकर्मा तत्प्रतिषेधः' ( या १,८) इति हि यास्कः। श्रुतिस्त्वेवं निर्ब्रूते- 'अध्वर्तव्या वा इमे देवा अभूवन्निति तदध्वरस्याध्वरत्वम् (तै ३,२,२,३ ) इति । हिन्वन्त्विति । हिविः प्रीणनार्थः । इदित्त्वात् नुम् ।
 
 
अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः ।
 
सिन्धुभ्यः कर्त्वं हविः ॥३॥
 
अपः । देवीः । उप । ह्वये । यत्र । गावः । पिबन्ति । नः ।
 
सिन्धुऽभ्यः । कर्त्वम् । हविः ॥ ३ ॥
 
देवीः द्योतमानाः देवतारूपा वा अपः उदकानि उप ह्वये समीपम् आह्वयामि । क्रियमाणस्य कर्मणः परिपूर्त्यर्थम् इत्यर्थः। यत्र सजलेषु नदीतटाकादिषु नः अस्माकं गावः पिबन्ति । अप इति शेषः। तेभ्य उपह्वयामि इति पूर्वेण संबन्धः । अप इति । 'ऊडिदम्पदाद्यप्पुम्रैद्युभ्य:' (पा ६,१,१७१ ) इति शस उदात्तत्वम् । पिबन्ति । पा पाने शपि 'पाघ्रा' (पा ७,३,७८) इत्यादिना पिबादेशः। 'निपातैर्यद्यदिहन्त' (पा ८,१,३० ) इति प्रतिषेधात् 'तिङ्ङतिङः' (पा ८,१,२८) इति निघाताभावः । आह्वानस्य प्रयोजनम् आह । सिन्धुभ्यः स्यन्दनशीलाभ्यः ताभ्यः अब्देवताभ्यः हविः आज्यादिरूपं कर्त्वं कर्तव्यम् । 'कृत्यार्थे तवैकेन्केन्यत्वनः' (पा ३,४.१४ ) इति करोतेस्त्वन् प्रत्ययः । 'ञ्नित्यादिर्नित्यम्' (पा ६,१,१९७) इति आद्युदात्तत्वम् ।
 
 
अप्स्वन्तरमृतमप्सु भेषजम् ।
 
अपामुत प्रशस्तिभिरश्वा भवथ वाजिनो गावो भवथ वाजिनीः ॥४॥
 
अप्ऽसु । अन्तः । अमृतम् । अप्ऽसु । भेषजम् ।
 
अपाम् । उत । प्रशस्तिऽभिः । अश्वाः । भवथ । वाजिनः । गावः । भवथ । वाजिनीः ॥ ४ ॥
 
अप्सु उदकेषु अन्तः मध्ये अमृतम् अमरणसाधनं देवोपभोग्यं पीयूषम् । अस्तीति शेषः । समुद्रमथनेन अमृतस्य उत्पन्नत्वात्। यद्वा अमृतम् अमरणसाधनम् अन्नम्। श्रूयते हि -- 'अद्भ्यो वा अन्नं जायते' ( तैब्रा ३,८,१७,५) इति । अथवा मूर्छितस्य उदकावसेकेन उत्क्रान्तानामपि प्राणानां पुनः शरीरे प्रवेशदर्शनात् अप्सु अमृतम् अमरणसाधनम् अस्तीति गम्यते । अनेनैवाभिप्रायेण तैत्तिरीयके समाम्नायते -- 'अमृतं वा आपस्तस्मादद्भिरवतान्तमभिषिञ्चन्ति नार्तिमार्च्छति सर्वम् आयुरेति' (तै ५,६,२,२ ) इति । 'ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः' (पा ६,१,१७१) इति अपशब्दाद् उत्तरस्या विभक्तेरुदात्तत्वम् । अन्तःशब्दः स्वरादिषु अन्तोदात्तः पठितः। संहितायाम् 'उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य' (पा ८,२,४ ) इति अन्तर्शब्दाकारस्य स्वरितत्वम् । न विद्यते मृतं मरणं येनेति बहुव्रीहौ 'नञ्सुभ्याम्' (पा ६,२,१७२ ) इत्युत्तरपदान्तोदात्तत्वे प्राप्ते 'नञो जरमरमित्रमृताः' (पा ६,२,११६) इत्युत्तरपदाद्युदात्तत्वम् । तथा अप्सु उदकेषु मध्ये भेषजं सर्वरोगनिवारकम् औषधम् । अस्तीति शेषः। उदकरसेन प्रवृद्धानाम् ओषधीनां रसस्यैव रोगनिवारकत्वात् । ईदृशीनाम् अपाम् उपजीवनेन हे जनाः यूयं सर्वे अमृता अरोगाश्च भवतेत्यर्थः । उत अपि च हे अश्वाः अस्मदीयास्तुरगाः यूयम् अपाम् उदीरितप्रभावोपेतानां प्रशस्तिभिः प्रभावविशेषैः वाजिनः। वाज इति बलनाम। तद्वन्तो भवथ। वाजशब्दाद् भूम्नि मत्वर्थीय इनिप्रत्ययः। यद्वा 'वाजी वेजनवान्' ( या २,२८ ) इति यास्केनोक्तत्वात् । वेगयुक्ता भवथेत्यर्थः । तथा हे गावः यूयमपि पीतानाम् अपां प्रभावेन वाजिनीः वाजिन्यः बलयुक्ता भवथ । यद्वा वाजः अन्नं क्षीररूपम् । 'अन्नं वै वाजः'(तै १,७,४,२ ) इति श्रुतेः। तद्युक्ता भवथ । प्रभूतक्षीरा भवथेत्यर्थः। वाजिन्शब्दात् 'ऋन्नेभ्यः' (पा ४,१,५) इति ङीप् । जसि वा छन्दसि' (पा ६,१,१०६ ) इति पूर्वसवर्णदीर्घः।
 
 
इति प्रथमकाण्डे प्रथमेनुवाके चतुर्थं सूक्तम् ।
 
 
}}
२९,६१२

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/225489" इत्यस्माद् पुनः प्राप्तिः