"अथर्ववेदः/काण्डं १/सूक्तम् ०५" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
({{header | title = अथर्ववेदः - अथर्ववेदः/काण्डं १|काण्... नवीन पृष्ठं निर्मीत अस्ती)
 
 
अपो याचामि भेषजम् ॥४॥
</span></poem>
 
{{सायणभाष्यम्|
'आपो हि ष्ठा' इत्यादिसूक्तद्वयस्य ऐन्द्राग्नपशौ वपाहोमानन्तरं मार्जने विनियोगः । उक्तं वैताने-- 'शंभुमयोभुभ्यां चात्वाले मार्जयन्ति' (वैताश्रौ १०,१९ ) इति ।
 
अत्र 'आपो हि ष्ठा' इति सूक्तम् अग्निचयने उखार्थम् आहृतस्य मृत्पिण्डस्य पलाशकषायोदकेन संसृज्यमानस्य अनुमन्त्रणे विनियुक्तम् । उक्तं वैताने- 'आपो हि ष्ठेति पलाशफाण्टेनाभिषिच्यमानम्' (वैताश्रौ २८,११ ) इति ।
 
एतदेव बृहद्गणे लघुगणे अपां सूक्तेषु च पठितम् । तेषां यत्रयत्र विनियोगः तत्र सर्वत्र अस्य विनियोगोऽनुसंधेयः ।
 
सलिलगणे च एतत् सूक्तं पठितम् । सूत्रितं हि – “ 'शंभुमयोभुभ्याम्' (अ १,५ , ६) 'ब्रह्म जज्ञानम्' (अ ४,१) 'अस्य वामस्य' (अ ९,१४) 'यो रोहितः' (अ १३,१) 'उदस्य केतवः' (अ १३,२) 'मूर्धाहम्' (अ १६,३) 'विषासहिम्' ( अ १७,१)" ( कौसू १८,२५) इति । अयं सलिलगणः । अतः 'सलिलैः क्षीरौदनम् अश्नाति' ( कौसू १८,२५) 'सलिलैः सर्वकामः' ( कौसू २४,४६ ) इत्यादौ अस्य विनियोगः।
 
तथा गवां रोगोपशमनपुष्टिप्रजननकर्मसु अर्थोत्थापनविघ्नशमनकर्मणि च पूर्वसूक्तवद् विनियोगः।
 
वास्तुसंस्कारकर्मणि च अनेन सूक्तेन उदकुम्भेन गृहभूमिम् आसिञ्चेत् । तथा च सूत्रम्--'निवेशनानुचरणानि' इति प्रक्रम्य 'शंभुमयोभुभ्यां विष्यन्दयति' ( कौसू ४३,३-१२) इति।
 
तथा 'आदित्यां 'श्रीतेजोधनायुष्कामस्य' ( शाक १७,३) इति विहितायाम् आदित्याख्यायां महाशान्तौ अस्य विनियोगः। तद् उक्तं शान्तिकल्पे -- 'सलिलगण आदित्यायाम्' ( शाक १८,५) इति।
 
 
आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन ।
 
महे रणाय चक्षसे ॥१॥
 
आपः । हि । स्थ । मयःऽभुवः । ताः । नः । ऊर्जे । दधातन ।
 
महे । रणाय । चक्षसे ॥ १ ॥
 
हे आपः यूयं हि यस्मात् कारणात् मयोभुवः । मय इति सुखनाम । सुखस्य भावयित्र्यः स्थ भवथ । 'आपोमयः प्राण': ( छाउ ६,५,४ ) इति श्रुतेः। अपाम् उपभोगेन प्राणस्थैर्यहेतुत्वात् सुखसाधनभूतविविधान्नाद्युपभोग्यपदार्थजनकत्वेन च सुखहेतुत्वम् । अस्तेर्लटि मध्यमपुरुषबहुवचने अदादित्वात् शपो लुक् । 'सार्वधातुकमपित्' (पा १,२,४) इति ङिद्वद्भावात् 'नसोरल्लोपः' (पा ६,४,१११) इति अकारलोपः । 'हि च'(पा ८,१,३४) इति निघातप्रतिषेधः। मयोभुव इति। मयःशब्दोपपदात् भवतेरन्तर्भावितण्यर्थात् क्विप् । 'ओः सुपि' (पा ६,४,८३ ) इति प्राप्तस्य यणो 'न भूसुधियोः' (पा ६,४,८५ ) इति प्रतिषेधः। 'गतिकारकोपपदात् कृत्' (पा ६,२,१३९) इति कृदुत्तरपदप्रकृतिस्वरत्वम्। तस्मात ताः तथाविधा यूयं नः अस्मान् अन्नादिजनितसुखकामान् ऊर्जे बलकराय अन्नाय । तदुपभोगजनितसुखायेत्यर्थः । ऊर्ज बलप्राणनयोः। अस्मात् 'क्विप् च' (पा ३,२,७६ ) इति क्विप् । तादर्थ्ये चतुर्थी । 'सावेकाचस्तृतीयादिर्विभक्तिः' (पा ६,१,१६८ ) इति विभक्तेरुदात्तत्वम् । दधातन धत्त। सुखकरान्नप्रदानेन अस्मान् पोषयतेत्यर्थः। डुधाञ् धारणपोषणयोः। अस्माल्लोटि 'तप्तनप्तनथनाश्च' (पा ७,१,४५) इति तस्य तनबादेशः । तस्य पित्त्वेन ङित्त्वाभावात् 'श्नाभ्यस्तयोरातः' (पा ६,४,११२) इति आलोपाभावः । तिङ्ङतिङः' (पा ८,१,२८) इति निघातः। अपि च महे महते। अच्छब्दलोपश्छान्दसः । यद्वा मह पूजायाम् इत्यस्मात् क्विप् । महनीयाय पूजनीयाय रणाय रमणाय । विविधोपभोग्यपदार्थेषु क्रीडनायेत्यर्थः। रमतेर्भावे ल्युट् । अन्त्यलोपश्छान्दसः। तथा चक्षसे दर्शनाय । चिरकालजीवनाभिमतफलसाक्षात्कारायेत्यर्थः । चष्टिः पश्यतिकर्मा । 'चक्षेर्बहुलं शिच्च' (पाउ ४,२३३ ) इति भावे असुन् । शित्त्वेन सार्वधातुकत्वात् 'चक्षिङः ख्याञ्' (पा २,४,५४ ) इति ख्याञादेशाभावः। 'नित्यादिर्नित्यम्' (पा ६,१,१९७ ) इति आद्युदात्तत्वम् । यद्वा महते रणाय रमणीयाय चक्षसे इति सामानाधिकरण्येन संबन्धः। अथवा रणाय रणनीयाय शब्दनीयाय उपनिषदेकसमधिगम्याय चक्षसे स्वात्मनो निरतिशयानन्दब्रह्मत्वसाक्षात्कारायेत्यर्थः । अण रण वण शब्दार्थाः । वशिरण्योरुपसंख्यानम्' ( पावा ३,३,५८ ) इति अप् । तस्य पित्त्वाद् अनुदात्तत्वे धातुस्वरः शिष्यते। सर्वत्र तादर्थ्ये चतुर्थी । दधातनेति पूर्वेण संबन्धः ।
 
 
यो वः शिवतमो रसस्तस्य भाजयतेह नः ।
 
उशतीरिव मातरः ॥२॥
 
य: । वः । शिवऽतमः । रसः । तस्य । भाजयत । इह । नः ।
 
उशतीःऽइव । मातरः ॥ २ ॥
 
हे आपः वः युष्माकं शिवतमः कल्याणतमः प्रसिद्धो यो रसः सारभूतः अंशोऽस्ति । सर्वप्राणिभिः अविसंवादेन उपभोग्यत्वाद् अपां रसस्य शिवतमत्वम् । श्रूयते हि--'नानामनसः खलु वै पशवो नानाव्रतास्तेऽप एवाभि समनसः' (तै ५,३,१,३) इति। तस्य । 'क्रियाग्रहणं कर्तव्यम् (पावा १,४,३२) इति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी। तं रसम् । यद्वा भागव्यतिरेकजनिता षष्ठी। तस्य रसस्य भागम् इत्यर्थः। इह अस्मिन् लोके हे आपः यूयं नः अस्मान् पुत्रस्थानीयान् भाजयत सेवयत। युष्मदीयरसप्रदानेन अस्मान् पोषयतेत्यर्थः । भज सेवायाम् । 'हेतुमति च' (पा ३,१,२६ ) इति णिच् । प्रार्थनायां लोट् । शपः पित्त्वाद् अनुदात्तत्वम् । 'अदुपदेशाल्लसार्वधातुकमनुदात्तम् ( पा ६,१,१८६) इति तिङोपि अनुदात्तत्वम् । तथा च णिचश्चित्त्वात् तत्स्वरेण मध्योदात्तत्वे प्राप्तेपि 'तिङ्ङतिङः' (पा ८,१,२८ ) इति सर्वानुदात्तत्वम् । तत्र दृष्टान्तः-- उशतीरिव उशत्यः कामयमानाः । वश कान्तौ । कान्तिरभिलाषः । अस्मात् लटः शत्रादेशः। अदादित्वात् शपो लुक् । 'सार्वधातुकम् अपित्' (पा १,२,४ ) इति शतुर्ङित्त्वात् 'ग्रहिज्या' (पा ६,१,१६ ) इत्यादिना संप्रसारणम् । 'उगितश्च' ( पा ४,१,६ ) इति ङीप् । शत्रन्तस्य प्रत्ययस्वरेण अन्तोदात्तत्वात् 'शतुरनुमो नद्यजादी' (पा ६,१,१७३ ) इति ङीप उदात्तत्वम् । जसि वा छन्दसि' (पा ६,१,१०६ ) इति पूर्वसवर्णदीर्घः। 'इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्' ( पावा २,१,४ ) इति समासः । कामयमाना मातरः यथा स्वकीयं पुत्रं स्तन्यरसप्रदानेन पोषयन्ति तथेत्यर्थः ।
 
 
तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।
 
आपो जनयथा च नः ॥३॥
 
तस्मै । अरम् । गमाम । वः । यस्य । क्षयाय । जिन्वथ ।
 
आपः । जनयथ । च । नः ॥ ३ ॥
 
तस्मै । तादर्थ्ये चतुर्थी । उपभोग्यत्वेन प्रसिद्धस्य अन्नस्य प्राप्त्यर्थं हे आपः वः युष्मान् अरम् अलं पर्याप्तं गमाम गच्छाम प्राप्नुयाम । अरम् इति । 'वालमूल लघ्वलमङ्गुलीनां वा लो रत्वम् आपद्यत इति वक्तव्यम्' ( पावा ८,२,१८) इति लत्वविकल्पः। गमामेति । गम्लृ सृप्लृ गतौ। अस्मात् प्रार्थनायां लोट् । 'आडुत्तमस्य पिच्च' (पा ३,४,९२) इति आडागमः। 'बहुलं छन्दसि' ( पा २,४,७३ ) इति शपो लुक् । यद्वा 'छन्दसि लुङ्लङ्लिटः' (पा ३,४,६) इति लोडर्थे लुङ् । लृदित्त्वात् च्लेः अङादेशः। 'बहुलं छन्दस्यमाङ्योगेपि' (पा ६,४,७५) इति अडभावः। व इति । 'बहुवचनस्य वस्नसौ' (पा ८,१,२१) इति द्वितीयान्तस्य युष्मदो वसादेशः । स च 'अनुदात्तं सर्वम् अपादादौ' (पा ८,१,१८ ) इत्यनुवृत्तेः सर्वानुदात्तः। यस्य अन्नस्य क्षयाय निवासाय । अभिवृद्धय इत्यर्थः। क्षि निवासगत्योः। ‘एरच्' (पा ३,३,५६ ) इति भावे अच् । 'चितः' (पा ६,१,१६३ ) इति अन्तोदात्तत्वे प्राप्ते 'क्षयो निवासे' ( पा ६,१,२०१) इति आद्युदात्तत्वम् । हे आपः यूयं जिन्वथ तर्पयथ। व्रीह्यादिसस्यविशेषान् इति शेषः । यूयं वृष्टिरूपेण आगत्य सर्वेषां प्राणिनाम् अन्नाद्युपभोग्यसमृद्धये ओषधीः प्रवर्धयथेत्यर्थः। श्रूयते हि – 'ते दिवो वृष्टिम् असृजन्त । यावन्तः स्तोका अवापद्यन्त तावतीरोषधयोऽजायन्त' (तैब्रा २,१,१,१) इति । तस्मै इति पूर्वेण संबन्धः। हिवि धिवि दिवि [जिवि प्रीणनार्थाः । इदित्त्वात् नुम् । शपः पित्त्वाद् अनुदात्तत्वम् , तिङश्च लसार्वधातुकस्वरेण धातुस्वरस्य अवशेषात् पदम् आद्युदात्तम् । 'यद्वृत्तान्नित्यम्' (पा ८,१,६६) इति निघातप्रतिषेधः । अपि च हे आपः यूयं नः अस्मान् जनयथ पुत्रपौत्रादिरूपेण उत्पादयथ। स्वात्मन एव पुत्रादिरूपेण उत्पत्तेः एवम् उक्तम् । तथा च ऐतरेयके समाम्नातम् - 'पतिर्जायां प्रविशति गर्भो भूत्वा स मातरम् । तस्यां पुनर्नवो भूत्वा दशमे मासि जायते । तज्जाया जाया भवति यद् अस्यां जायते पुनः' (ऐब्रा ७,१३ ) इति। जनी प्रादुर्भावे । अस्मात् हेतुमति च' (पा ३,१,२६) इति णिच् । 'जनीज ॄष्न््सुरञ्जोऽमन्ताश्च' इति मित्संज्ञकत्वात् 'मितां ह्रस्वः' (पा ६,४,९२) इति उपधाह्रस्वत्वम् । शपस्तिङश्च पूर्ववत अनुदात्तत्वे णिच्स्वरः शिष्यते। तेन णिजकारस्य उदात्तत्वम् । आप इति पूर्वामन्त्रिस्य 'आमन्त्रितं पूर्वम् अविद्यमानवत्' (पा ८,१,७२) इति अविद्यमानवद्भावेन अतिङ उत्तरत्वाभावात् 'तिङ्ङतिङः' (पा ८,१,२८ ) इति निघाताभावः। 'अन्येषामपि दृश्यते' (पा ६,३,१३७ ) इति सांहितिको दीर्घः।
 
 
ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् ।
 
अपो याचामि भेषजम् ॥४॥
 
ईशानाः । वार्याणाम् । क्षयन्तीः । चर्षणीनाम् ॥
 
अपः । याचामि । भेषजम् ॥ ४ ॥
 
वार्याणां वरणीयानां धनानाम् ईशानाः ईश्वराः स्वामित्वेन नियन्त्रीः सर्वधनमूलभूतस्य हिरण्यस्य मातृभूताभ्यः अद्भ्यः उत्पत्तेः श्रवणाद् अपाम् अधिपतित्वम् । तथा हि--'आपो वरुणस्य पत्नय आसन् । ता अग्निरभ्यध्यायत् । ताः समभवन् । तस्य रेतः परापतत् । तद्धिरण्यम् अभवत् ' ( तैब्रा १,१,३,८) इति । ईश ऐश्वर्ये । अस्मात् 'लक्षणहेत्वोः क्रियायाः' ( पा ३,२,१२६ ) इति हेतौ शानच् प्रत्ययः। अदादित्वात् शपो लुक् । अस्य धातोः अनुदात्तेत्त्वात् 'तास्यनुदात्तेन्ङिददुपदेशाद् ०' (पा ६,१,१८६ ) इति शानचः अनुदात्तत्वे धातुस्वरेण आदिरुदात्तः । वार्याणाम् इति। वृङ् संभक्तौ । क्यब्विधौ हि वृञो ग्रहणं न वृङः इत्युक्तेः अस्माद्धातोः 'ऋहलोर्ण्यत् ' ( पा ३,१,१२४ ) इति कर्मणि ण्यत् । ‘कर्तृकर्मणोः कृति' (पा २,३,६५) इति प्राप्तायाः कर्मणि षष्ठ्याः 'न लोकाव्यय०' (पा २,३,६९ ) इति प्रतिषेधेपि 'अधीगर्थदयेशां कर्मणि' (पा २,३,५२) इति कर्मणि षष्ठी। 'तित् स्वरितम्' (पा ६,१,१८५) इति स्वरितत्वे प्राप्ते 'ईडवन्दवृशंसदुहां ण्यतः' (पा ६, १,२१४ ) इति आद्युदात्तत्वम् । यत ईशाना अतो हेतोः चर्षणीनाम् । मनुष्यनामैतत्। मनुष्याणां क्षयन्तीः निवासयित्रीः। अभिमतधनप्रदानेन स्वस्थाने निवेशयन्तीरित्यर्थः। क्षि निवासगत्योः। अस्माद् अन्तर्भावितण्यर्थात् लटः शत्रादेशः। व्यत्ययेन शप् । 'उगितश्च' (पा ४,१,६) इति ङीप् । 'शप् श्यनोर्नित्यम्' (पा ७,१,८१ ) इति नित्यं नुमागमः। शपश्च ङीपश्च पित्त्वाद् अनुदात्तत्वम्। 'अदुपदेशाल्लसार्वधातुकम् ०' (पा ६,१,१८६) इति शतुरनुदात्तत्वे धातुस्वरेण आदिरुदात्तः। चर्षणीनाम् इति । 'न लोकाव्यय' (पा २,३,६९) इति कर्मणि षष्ठीप्रतिषेधाभावश्छान्दसः। यद्वा 'चतुर्थ्यर्थे बहुलं छन्दसि' (पा २,३,६२ ) इति तादर्थ्ये षष्ठी। मनुष्यार्थं निवसन्तीरित्यर्थः। 'नाम् अन्यतरस्याम्' (पा ६,१,१७७ ) इति नाम उदात्तत्वम् । एवंभूता अपः भेषजं व्याध्यादिनिवर्तकम् औषधं याचामि प्रार्थये। उक्तं हि-- 'अप्स्वन्तरमृतमप्सु भेषजम्' (अ १,४,४) इति । ‘अकथितं च' (पा १,४,५१ ) इति कर्मसंज्ञायाम् अप्शब्दाद् द्वितीया । 'ऊडिदम्' (पा ६,१, १७१ ) इत्यादिना अप्शब्दाद् उत्तरस्य शस उदात्तत्वम् । याचामि। याचृ याञ्चायाम्। 'तिङ्ङतिङः' ( पा ८,१,२८ ) इति निघातः।
 
 
इति प्रथमकाण्डे प्रथमेनुवाके पञ्चमं सूक्तम् ॥
 
 
 
}}
२९,६५३

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/225490" इत्यस्माद् पुनः प्राप्तिः