"अथर्ववेदः/काण्डं १/सूक्तम् ०६" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
({{header | title = अथर्ववेदः - अथर्ववेदः/काण्डं १|काण्... नवीन पृष्ठं निर्मीत अस्ती)
 
 
शिवा नः सन्तु वार्षिकीः ॥४॥
</span></poem>
 
{{सायणभाष्यम्|
'शं नो देवीः' इति सूक्तस्य शंभुमयोभुभ्याम्' इति सहैव सूत्रकृता निर्दिष्टत्वात् 'आपो हि ष्ठा' इति सूक्तवत् सर्वत्र विनियोगः अनुसंधेयः। लघुगणे बृहद्गणे च आद्यन्तयोः 'शं नो देवीः' इति प्रथमा ऋक् प्रयोक्तव्या 'उभयतः सावित्र्युभयतः शं नो देवी' (कौसू ९,७ ) इति सूत्रात् । इन्द्रमहाख्यकर्मणि आचमनेपि एषा विनियुक्ता। सूत्रितं हि -- 'शं नो देव्याः पादैरर्धर्चाभ्याम् ऋचा षट्कृत्व उदकम् आचामतः' (कौसू १४०,५ ) इति । राज्ञः पुष्पाभिषेके कलशाभिमन्त्रणेपि एषा। तथा च परिशिष्टे --
'हेमरत्नौषधीबिल्वपुष्पगन्धाधिवासितान् ।
 
आच्छादितान् सितैर्वस्त्रैरभिमन्त्र्य पुरोहितः ।
 
सावित्र्युभयतः कुर्याच्छं नो देवी तथैव च ।' (अप ५.२.३ , ४) इति।
 
 
शं नो देवीरभिष्टय आपो भवन्तु पीतये ।
 
शं योरभि स्रवन्तु नः ॥१॥
 
शम् । नः । देवीः । अभिष्टये । आपः । भवन्तु । पीतये ।
 
शम् । योः । अभि । स्रवन्तु । नः ॥ १ ॥
 
देवीः देव्यः द्योतनादिगुणयुक्ताः। दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु। इगुपधलक्षणे के प्राप्ते 'देवसेवमेषादयः पचादिषु द्रष्टव्याः' इति वचनात् 'नन्दिग्रहिपचादिभ्यः (पा ३,१,१३४) इत्यच् । देवट् इति टित्त्वेन पाठात् 'टिड्ढाणञ्' (पा ४,१,१५) इति ङीप् । 'यस्य' (पा ६,४,१४८ ) इति लोपे 'अनुदात्तस्य च यत्रोदात्तलोपः' (पा ६,१,१६१) इति ङीप उदात्तत्वम् । जसि 'वा छन्दसि' (पा ६,१,१०६ ) इति पूर्वसवर्णदीर्घः । यास्कस्तु देवशब्दं बहुधा निरवोचत् - 'देवो दानाद्वा, दीपनाद्वा, द्योतनाद्वा, द्युस्थानो भवतीति वा' ( या ७,१५) इति । एवमात्मिका आपः नः अस्माकम् अभिष्टये अभियजनाय । यज देवपूजासंगतिकरणदानेषु । अस्माद् अभिपूर्वात् भावे क्तिन् । 'ग्रहिज्या' (पा ६,१,१६ ) इत्यादिना संप्रसारणम् । 'व्रश्च' (पा ८, २,३६ ) इत्यादिना षत्वे ष्टुत्वम् । ‘शकन्ध्वादिषु पररूपं वक्तव्यम्' ( पावा ६,१,९३) इति पररूपत्वे सवर्णदीर्घाभावः। 'तादौ च निति कृत्यतौ' (पा ६,२,५० ) इति गतेः प्रकृतिस्वरत्वे एकादेशस्य उदात्तत्वम् । तादर्थ्ये चतुर्थी । अभितः सर्वतो यागार्थं शं सुखं भवन्तु । सुखकारिण्यो भवन्तु इत्यर्थः । तथा पीतये पानाय च शं भवन्तु । पीयमाना आपः स्वादुतमाः सुखाय भवन्तु इत्यर्थः । पा पाने । अस्मात् भावे क्तिन् । 'घुमास्था' (पा ६,४,६६) इत्यादिना ईत्वम् । अपि च नः अस्माकं शं प्राप्तानां रोगाणां शमनाय योः अप्राप्तानां रोगाणां पृथक्करणाय च ता आपः अभि स्रवन्तु अस्मदाभिमुख्येन गच्छन्तु । यद्वा शं योरिति रोगाणां शमनं चोरव्याघ्रादिजनितभयानां पृथक्करणं च यथा भवति तथेत्यर्थः। तदुक्तं यास्केन--शमनं च रोगाणां यावनं च भयानाम् '(या ४,२१) इति। शमु उपशमने। यु मिश्रणामिश्रणयोः । 'अन्येभ्योपि दृश्यन्ते' (पा ३,२,७५) इत्यत्र दृशिग्रहणस्य विध्यन्तरोपसंग्रहार्थत्वाद् आभ्यां धातुभ्यां भावे विच् । योरित्यत्र सलोपाभावश्छान्दसः। यद्वा यौतेरसुनि अवादेशाभावश्छान्दसः।
 
 
अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा ।
 
अग्निं च विश्वशंभुवम् ॥२॥
 
अप्ऽसु । मे । सोमः । अब्रवीत् । अन्तः । विश्वानि । भेषजा ।
 
अग्निम् । च । विश्वऽशंभुवम् ॥ २ ॥
 
मन्त्रद्रष्टा ब्रूते -- अप्सु उदकेषु अन्त: मध्ये विश्वानि सर्वाणि भेषजा भेषजानि। 'शेश्छन्दसि बहुलम्' (पा ६,१,७० ) इति शेर्लोपः। सर्वरोगनिवर्तकानि औषधानि सन्तीति सोमः एतन्नामा देवः मे मह्यं मन्त्रदर्शिने अब्रवीत् उपदिष्टवान् । तथा विश्वशंभुवम् विश्वस्य जगतः सुखकरम् । यद्वा विश्वे सर्वे व्यापाराः शंभुवः सुखस्य भावयितारः उत्पादका यस्य स तथोक्तः। शंशब्दोपपदाद् भवतेरन्तर्णीतण्यर्थात् 'क्विप् च' (३,२,७६ ) इति क्विप् । 'ओः सुपि' (पा ६,४,८३) इति प्राप्तस्य यणः 'न भूसुधियोः' (पा ६,४,८५) इति प्रतिषेधे उवङ् । तत्पुरुषपक्षे व्यत्ययेन पूर्वपदान्तोदात्तत्वम् । बहुव्रीहिपक्षे तु अग्निविशेषस्य इयं संज्ञा। तथा च 'बहुव्रीहौ विश्वे संज्ञायाम्' (६,२,१०६ ) इति पूर्वपदान्तोदात्तत्वम् । एतन्नामानम् अग्निम् अङ्गनादिगुणयुक्तं देवं च। अप्सु अन्तर्वर्तमानं सोमः अब्रवीदित्यर्थः। उदकमध्ये अग्नेः प्रवेशस्तैत्तिरीयके समाम्नातः 'अग्नेस्त्रयो ज्यायांसः' इति प्रक्रम्य ‘स निलायत सोऽपः प्राविशत् ' ( तै २,६,६,१ ). इति। यद्वा और्ववैद्युतरूपेण अग्नेः अप्सु अवस्थानं द्रष्टव्यम् । अनेन आतिशयितवीर्यवत्त्वस्य प्रख्यापितत्वाद् अपां सर्वार्थसाधनसामर्थ्यम् अस्तीत्युक्तं भवति ॥
 
 
आपः पृणीत भेषजं वरूथं तन्वे मम ।
 
ज्योक्च सूर्यं दृशे ॥३॥
 
आपः । पृणीत । भेषजम् । वरूथम् । तन्वे । मम ।
 
ज्योक् । च । सूर्यम् । दृशे ॥ ३ ॥
 
हे आपः यूयं मम तन्वे मदीयस्य शरीरस्य । 'षष्ठ्यर्थे चतुर्थी वक्तव्या' (पावा २, ३,६२ ) इति चतुर्थी । 'उदात्तस्वरितयोर्यणः स्वरितोनुदात्तस्य' (पा ८,२,४ ) इति विभक्तिः स्वर्यते। युष्मदस्मदोर्ङसि' (पा ६,१,२११) इति ममशब्द आद्युदात्तः। वरूथं वारकं ज्वरादिसर्वरोगनिवर्तकम् भेषजम् औषधम् पृणीत पूरयत । यथा मम शरीरं व्याधयो न स्पृशन्ति तथा औषधं प्रयच्छतेत्यर्थः । प ॄ पालनपूरणयोः। अस्मात् लोटि क्र्यादित्वात् श्नाप्रत्ययः। 'ई हल्यघोः' (पा ६,४,११३) इति ईत्वम् । 'प्वादीनां ह्रस्वः' (पा ७,३,८० ) इति धातोर्र्६स्वत्वम्। 'सतिशिष्टस्वरबलीयस्त्वम् अन्यत्र विकरणेभ्यः' (पावा ६,१,१५८ ) इति परिभाषया सतिशिष्टस्यापि श्नाप्रत्ययस्वरस्य दुर्बलत्वात् तिङ एव उदात्तत्वम् । 'आमन्त्रितं पूर्वम् अविद्यमानवत् ' ( पा ८,१,७२ ) इति आप इत्यस्य अविद्यमानवत्त्वात् 'तिङ्ङतिङः' (पा ८,१,२८ ) इति निघाताभावः। वरूथम् इति । वृञ् वरणे । 'ज ॄवृञ्भ्यामूथन्' ( पाउ २, ६) इति औणादिक ऊथन् प्रत्ययः । 'ञ्नित्यादिर्नित्यम्' (पा ६, १,१९७ ) इत्याद्युदात्तः। किमर्थम् । ज्योक् चिरकालं सूर्यं सर्वेषां प्राणप्रदत्वेन प्रेरकम् आदित्यं दृशे द्रष्टुम् । चिरकालं जीवितुम् इत्यर्थः । अनुक्तसमुच्चयार्थश्चकारः । व्याध्यादिजनितक्लेशापनोदनार्थं च इति । दृशिर् प्रेक्षणे । 'दृशे विख्ये च' ( पा ३,४,११ ) इति तुमर्थे केप्रत्ययान्तो निपातितः। सूर्यम् इाते। षू प्रेरणे। राजसूयसूर्य' (पा ३,१,११४) इति क्यबन्तो निपातितः। क्यपः पित्वाद् अनुदात्तत्वे धातुस्वरेण आद्युदात्तत्वम् । 'कृन्मेजन्तः' (पा १,१,३९) इति दृशे इत्यस्य एजन्तत्वेन अव्ययत्वात् 'न लोकाव्यय०' (पा २,३,६९) इति कर्मणि षष्ठ्याः प्रतिषेधः।
 
 
शं न आपो धन्वन्याः शमु सन्त्वनूप्याः ।
 
शं नः खनित्रिमा आपः शमु याः कुम्भ आभृताः ।
 
शिवा नः सन्तु वार्षिकीः ॥४॥
 
शम् । नः । आपः। धन्वन्याः । शम् । ऊँ इति । सन्तु । अनूप्याः ।
 
शम् । नः । खनित्रिमाः । आपः । शम् । ऊँ इति । याः । कुम्भे । आऽभृताः ।
 
शिवाः । नः। सन्तु । वार्षिकीः ॥ ४ ॥
 
पूर्वं सामान्येनैव अपां प्रार्थना कृता । अधुना स्थानविशेषिता आपः प्रार्थ्यन्ते--नः अस्माकं धन्वन्याः धन्वनि मरुभूमौ भवा आपः शं सन्तु सुखकारिण्यो भवन्तु । रिवि रवि धवि गत्यर्थाः। इदित्त्वात् नुम् । 'कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः' (पाउ १, १५६ ) इति कनिन् प्रत्ययः । ‘भवे छन्दसि' (पा ४,४,११० ) इति यत् । 'ये चाभावकर्मणोः' (पा ६,४,१६८ ) इति प्रकृतिभावात् 'नस्तद्धिते' (पा ६,४,१४४ ) इति टिलोपाभावः। तथा अनूप्याः अनुगता आपो यस्मिन् देशे सः अनूपो देशः। 'ऋक्पूरब्धूः' (पा ५,४, ७४) इत्यकारः समासान्तः। 'ऊद् अनोर्देशे' (पा ६,३,९८ ) इति अप्शब्दाकारस्य ऊकारः। तत्र भवा आपः अनूप्याः । पूर्ववद् यत् । उशब्दः चार्थे । प्रभूतजलप्रदेशस्था आपश्च शं सन्तु सुखहेतवो भवन्तु । तथा खनित्रिमाः खननेन निर्वृत्ताः कूपोद्भवा आपः नः अस्माकं शं भवन्तु । खनु अवदारणे । अस्माच्छान्दसः क्त्रिप्रत्ययः । 'आर्धधातुकस्येड् वलादेः' (पा ७,२,३५) इति इडागमः । 'क्त्रेर्मन्नित्यम्' (पा ४,४,२० ) इति मप् । कुम्भे घटे आभृताः नदीतटाकादिभ्यः कुम्भेन आनीताः। हृञ् हरणे । अस्मात् कर्मणि निष्ठा । 'हृग्रहोर्भः' ( पावा ८,२,३२) इति भत्वम्। 'गतिरनन्तरः' (पा ६,२,४९) इति गतेः प्रकृतिस्वरत्वम् । ईदृश्यो याः प्रतिगृहं वर्तमानाः प्रसिद्धा आपः ताश्च शं भवन्तु । तथा वार्षिकीः वार्षिक्यः वर्षर्तौ भवाः । 'छन्दसि ठञ्' (पा ४,३,१९) इति वर्षाशब्दात् ठञ् प्रत्ययः। 'टिड्ढाणञ्' ( पा ४,३,१५ ) इति ङीप् । 'ञ्नित्यादिर्नित्यम्' (पा ६,१,१९७) इति आद्युदात्तत्वम्। वृष्टिसंभूता आपश्च नः अस्माकं शिवाः सुखकारिण्यः सन्तु भवन्तु । अस भुवि । अस्मात् लोटि अदादित्वात् शपो लुक् । 'श्नसोरल्लोपः' (पा ६,४, १११ ) इत्यकारलोपः।
 
इति षष्ठं सूक्तम् ॥
 
 
इति अर्थवसंहितायां प्रथमकाण्डे प्रथमोनुवाकः ।
 
 
}}
२९,७४०

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/225491" इत्यस्माद् पुनः प्राप्तिः