"मत्स्यपुराणम्/अध्यायः ८५" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
गुडपर्वतदानवर्णनम्।
 
ईश्वर उवाच।
अतः परं प्रवक्ष्यामि गुड़पर्वतमुत्तमम्।
यत्प्रदानान्नरः स्वर्गमाप्नोति सुरपुजितम्।। ८५.१ ।।
 
उत्तमो दशभिर्भारैर्मध्यमः पञ्चभिर्मतः।
त्रिभिर्भारैः कनिष्ठः स्यात्तदर्धेनाल्पवित्तवान्।। ८५.२ ।।
 
तद्वदामन्त्रणं पूजां हेमवृक्षसुरार्चनम्।
विष्कम्भपर्वतास्तद्वत्सरांसि वनदेवताः।। ८५.३ ।।
 
होमजागरणं तद्वल्लोकपालाधिवासनम्।
धान्यपर्वतवत् कुर्यादिमं मन्त्रमुदीरयेत्।। ८५.४ ।।
 
यथा देवेषु विश्वात्मा प्रवरोऽयं जनार्दनः।
सामवेदस्तु वेदानां महादेवस्तु योगिनाम्।। ८५.५ ।।
 
प्रणवः सर्वमन्त्राणां नारीणां पार्वती यथा।
तथा रसानां प्रवरः सदैवेक्षुरसोमतः।। ८५.६ ।।
 
मम तस्मात्‌ परां लक्ष्मी गुडपर्वत! देहि वै।
यस्मात्‌ सौभाग्यदायिन्या भ्राता त्वं गुडपर्वता।।
 
निवासश्चापि पार्वत्यास्तस्माच्छान्तिं प्रयच्छ मे।। ८५.७ ।।
 
अनेन विधिना यस्तु दद्याद्‌गुडमयं गिरिम्।
पूज्यमानः सगन्धर्वै गौरीलोके महीयते।। ८५.८ ।।
 
ततः कल्पशतान्ते तु सप्तद्वीपाधिपो भवेत्।
आयुरारोग्यसम्पन्नः शत्रुभिश्चापराजितः।। ८५.९ ।।
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_८५" इत्यस्माद् प्रतिप्राप्तम्