"मत्स्यपुराणम्/अध्यायः १०४" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
युधिष्ठिर उवाच।
भगवन्! श्रोतुमिच्छामि पुरा कल्पे यथास्थितम्।
ब्रह्मणा देवमुख्येन यथावत् कथितं मुने।। १०४.१ ।।
 
कथं प्रयागे गमनं नराणां तत्र कीद्रृशम्।
मृतानां का गतिस्तत्र स्नातानां तत्र किम्फलम्।।
ये वसन्ति प्रयागे तु ब्रूहि तेषां च किम्फलम्।। १०४.२ ।।
 
मार्कण्डेय उवाच।
कथयिष्यामि ते वत्स! यच्छ्रेष्ठं तत्र यत् फलम्।
पुरा हि सर्वविप्राणां कथ्यमानं मया श्रुतम्।। १०४.३ ।।
 
आप्रयागप्रतिष्ठानादापुराद्वासुकेर्ह्रदात्।
कम्बलाश्वतरौ नागौ नागश्च बहुमूलकः।।
एतत्प्रजापतेः क्षेत्रं त्रिषु लोकेषु विश्रुतम्।। १०४.४ ।।
 
तत्र स्नात्वा दिवं यान्ति ये मृतास्ते पुनर्भवाः।
ततो ब्रह्मादयो देवा रक्षां कुर्वन्ति सङ्गताः।। १०४.५ ।।
 
अन्ये च बहवस्तीर्थाः सर्वपापहराः शुभाः।
न शक्याः कथितुं राजन्! बहुवर्षशतैरपि।
संक्षेपेण प्रवक्ष्यामि प्रयागस्य तु कीर्तनम्।। १०४.६ ।।
 
षष्टिर्धनुः सहस्राणि यानि रक्षन्ति जाह्नवीम्।
यमुनां रक्षति सदा सविता सप्तवाहनः।। १०४.७ ।।
 
प्रयागं तु विशेषेण सदा रक्षति वासवः।
मण्डलं रक्षति हरिर्दैवतैः सह संगतः।। १०४.८ ।।
 
तं वटं रक्षति सदा शूलपाणिर्महेश्वरः।
स्थानं रक्षन्ति वै देवाः सर्वपापहरं शुभम्।। १०४.९ ।।
 
अधर्मेणावृतो लोकेनैव गच्छति तत्पदम्।
स्वल्पमल्पतरं पापं यदा ते स्यान्नराधिप।
प्रयागं स्मरमाणस्य सर्वमायाति संक्षयम्।। १०४.१० ।।
 
दर्शनात्तस्य तीर्थस्य नाम संङ्कीर्त्तनादपि।
मृत्तिका लम्भनाद्वापि नरः पापात्प्रमुच्यते।। १०४.११ ।।
 
पञ्चकुण्डानि राजेन्द्र! तेषां मध्ये तु जाह्नवी।
प्रयागस्य प्रवेशेतु पापं नश्यति तत्क्षणात्।। १०४.१२ ।।
 
योजनानां सहस्रेषु गंगायाः स्मरणान्नरः।
अपि दुष्कृतकर्मा तु लभते परमां गतिम्।। १०४.१३ ।।
 
कीर्त्तनान्मुच्यते पापाद् द्रृष्ट्वा भद्राणि पश्यति।
अवगाह्य च पीत्वा तु पुनात्यासप्तमङ्कुलम्।। १०४.१४ ।।
 
सत्यवादी जितक्रोधी अहिंसायां व्यवस्थितः।
धर्मानुसारीतत्वज्ञो गोब्राह्मणहिते रतः।। १०४.१५ ।।
 
गंगायमुनयोर्मध्ये स्नातो मुच्येत किल्बिषात्।
मनसा चिन्तयन् कामानवाप्नोति सुपुष्कलान्।। १०४.१६ ।।
 
ततो गत्वा प्रयागं तु सर्वदेवाभिरक्षितम्।
ब्रह्मचारी वसेन्मासं पितॄन् देवांश्च तर्पयेत्।।
ईप्सितान् लभते कामान् यत्र यत्राभिजायते।। १०४.१७ ।।
 
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता।
समागता महाभागा यमुना तत्रनिम्रगा।
तत्र सन्निहितो नित्यं साक्षाद्देवो महेश्वरः।। १०४.१८ ।।
 
दुष्प्राप्यं मानुषैः पुण्यं प्रयागन्तु युधिष्ठिर।
देवदानवगन्धर्वा ऋषयः सिद्धचारणाः।।
तदुपस्पृश्य राजेन्द्र! स्वर्गलोकमुपासते।। १०४.१९ ।।
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_१०४" इत्यस्माद् प्रतिप्राप्तम्