"मत्स्यपुराणम्/अध्यायः १०७" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
(<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती)
 
<poem>
 
मार्कण्डेय उवाच।
श्रृणु राजन्! प्रयागस्य माहात्म्यं पुनरेव तु।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्रसंशयः।। १०७.१ ।।
 
मानसं नाम तत्तीर्थं गङ्गाया उत्तरे तटे।
त्रिरात्रोपोषितो भूत्वा सर्वकामानवाप्नुयात्।। १०७.२ ।।
 
गोभूहिरण्यदानेन यत् फलं प्राप्नुयान्नरः।
स तत् फलमवाप्नोति तत्तीर्थं स्मरते पुनः।। १०७.३ ।।
 
अकामो वा सकामो वा गङ्गायां योऽभिपद्यते।
मृतस्तु लभते स्वर्गं नरकञ्च न पश्यति।। १०७.४ ।।
 
अप्सरोगणसङ्गीतैः सुप्तोऽसौ प्रतिबुद्ध्यते।
हंससारसयुक्तेन विमानेन स गच्छति।।
बहुवर्षसहस्राणि स्वर्गं राजेन्द्र! भुञ्जति।। १०७.५ ।।
 
ततः स्वर्गात् परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः।
सुवर्णमणिमुक्ताढ्ये जायते विपुले कुले।। १०७.६ ।।
 
षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथापगाः।
माघमासे गमिष्यन्ति गङ्गयमुनसङ्गमम्।। १०७.७ ।।
 
गवां शतसहस्रस्य सम्यग् दत्तस्य यत् फलम्।
प्रयागे माघमासे तु त्र्यहः स्नानात्तु तत् फलम्।। १०७.८ ।।
 
गङ्गायमुनयोर्मध्ये कर्षाग्निं यस्तु साधयेत्।
अहीनाङ्गो ह्यरोगश्च पञ्चेन्द्रियसमन्वितः।। १०७.९ ।।
 
यावन्ति रोमकूपाणि तस्य गात्रेषु देहिनः।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते।। १०७.१० ।।
 
ततः स्वर्गात् परिभ्रष्टो जम्बूद्वीपपतिर्भवेत्।
सभुक्त्वा विपुलान् भोगांस्तत्तीर्थं स्मरते पुनः।। १०७.११ ।।
 
जलप्रवेशं यः कुर्यात् सङ्गमे लोकविश्रुते।
राहुग्रस्ते तथा सोमे विमुक्तः सर्वकिल्बिषैः।। १०७.१२ ।।
 
सोमलोकमवाप्नोति सोमेन सह मोदते।
षष्टिवर्षसहस्राणि स्वर्गलोके महीयते।। १०७.१३ ।।
 
स्वर्गे च शक्रलोकेऽस्मिन् ऋषिगन्धर्वसेविते।
परिभ्रष्टस्तु राजेन्द्र! समृद्धे जायते कुले।। १०७.१४ ।।
 
अधः शिरस्तु यो ज्वालामूद्र्ध्वपादः पिबेन्नरः।
शतवर्षसहस्राणि स्वर्गलोके महीयते।। १०७.१५ ।।
 
परिभ्रष्टस्तु राजेन्द्र! सोऽग्निहोत्री भवेन्नरः।
भुक्तवा तु विपुलान् भोगान् तत्तीर्थं भजते पुनः।। १०७.१६ ।।
 
यः स्वदेहन्तुकर्तित्वा शकुनिभ्यः प्रयच्छति।
विहगैरुपभुक्तस्य श्रृणु तस्यापि यत् फलम्।। १०७.१७ ।।
 
शतं वर्षसहस्राणां सोमलोके महीयते।
तस्मादपि परिभ्रष्टो राजा भवति धार्मिकः।। १०७.१८ ।।
 
गुणवान् रूपसम्पन्नो विद्वांश्च प्रियवाचकः।
भुक्त्वा तु विपुलान् भोगांस्तत्तीर्थं भजते पुनः।। १०७.१९ ।।
 
यामुने चोत्तरेकूले प्रयागस्य तु दक्षिणे।
ऋणप्रमोचनं नाम तत्तीर्थं परमं स्मृतम्।। १०७.२० ।।
 
एकरात्रोषितः स्नात्वा ऋणैः सर्वैः प्रमुच्यते।
स्वर्गलोकमवाप्नोति अनृणश्च सदा भवेत्।। १०७.२१ ।।
 
</poem>
२६७

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/22567" इत्यस्माद् पुनः प्राप्तिः