"मत्स्यपुराणम्/अध्यायः १०८" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
 
युधिष्ठिर उवाच।
एतच्छ्रुत्वा प्रयागस्य यत्त्वया परिकीर्तितम्।
विशुद्धं मेऽद्य हृदयं प्रयागस्य तु कीर्तनात्।। १०८.१ ।।
 
अनाशकफलं ब्रूहि भगवंस्तत्र कीद्रृशम्।
यञ्च लोकमवाप्नोति विशुद्धः सर्वकिल्बिषैः।। १०८.२ ।।
 
मार्कण्डेय उवाच।
श्रृणु राजन्! प्रयागे तु अनाशकफलं विभो।
प्राप्नोति पुरषो धीमान् श्रद्धधानो जितेन्द्रियः।। १०८.३ ।।
 
अहीनाङ्गोऽप्यरोगश्च प़ञ्चेन्द्रियसमन्वितः।
अश्वमेधफलं तस्य गच्छतस्तु पदे पदे।। १०८.४ ।।
 
कुलानि तारयेद्राजन्! दशपूर्वान् दशापरान्।
मुच्यते सर्वपापेभ्यो गच्छेत् तु परमं पदम्।। १०८.५ ।।
 
युदिष्ठिर उवाच।
महाभाग्यं हि धर्म्मस्य यत्त्वं वदसि मे प्रभो!।
अल्पेनैव प्रयत्नेन बहून् धर्मानवाप्नुते।। १०८.६ ।।
 
अश्वमेधैस्तु बहुभिः प्राप्यते सुव्रतैरिह।
इमं मे संशयं छिन्धि परं कौतूहलं हि मे।। १०८.७ ।।
 
मार्कण्डेय उवाच।
श्रृणु राजन्! महावीर! यदुक्तं ब्रह्मयोनिना।
ऋषीणां सन्निधौ पूर्वं कथ्यमानं मया श्रुतम्।। १०८.८ ।।
 
पञ्चयोजनविस्तीर्णं प्रयागस्य तु मण्डलम्।
प्रविष्टमात्रे तद्भूमावश्वमेधः पदे पदे।। १०८.९ ।।
 
व्यतीतान् पुरुषान् सप्त भविष्यांश्च चतुर्दश।
नरस्तारयते सर्वान् यस्तु---प्राणान् परित्यजेत्।। १०८.१० ।।
 
एवं ज्ञात्वा तु राजेन्द्र! सदा सेवापरो भवेत्।
अश्रद्दधानाः पुरुषाः पापोऽपहतचेतसः।
न प्राप्नुवन्ति तत्स्तानं प्रयागं देवरक्षितम्।। १०८.११ ।।
 
युधिष्ठिर उवाच।
स्नेहाद्वा द्रव्यलोभाद्वा ये तु कामवशङ्गताः।
कथं तीर्थफलं तेषां कथं पुण्यफलं भवेत्।। १०८.१२ ।।
 
विक्रयः सर्वमाण्डानां कार्याकार्य्यमजानतः।
प्रयागे का गातिस्तस्य तन्मे ब्रूहि पितामह!।। १०८.१३ ।।
 
मार्कण्डेय उवाच।
श्रृणु राजन्! महागुह्यं सर्वपापप्रणाशनम्।
मासमेकन्तु यः स्नायात् प्रयागे नियतेन्द्रियः।।
मुच्यते सर्वपापेभ्यः स गच्छेत् परमं पदम्।। १०८.१४ ।।
 
विश्रम्भधातकानान्तु प्रयागे श्रृणु यत् फलम्।
त्रिकालमेवस्नायीत आहारं भैक्ष्यमाचरेत्।।
त्रिभिर्मासैः स मुच्येत प्रयागे तु न संशयः।। १०८.१५ ।।
 
अज्ञानेन तु यस्येह तीर्थयात्रादिकं भवेत्।
सर्वकामसमृद्धे तु स्वर्गलोके महीयते।।
स्थानञ्च लभते नित्यं धनधान्यसमाकुलम्।। १०८.१६ ।।
 
एवं ज्ञानेन संपूर्णः सदा भवति भोगवान्।
तारिताः पितरस्तेन नरकात् प्रपितामहाः।। १०८.१७ ।।
 
धर्मानुसारितत्वज्ञ! पृच्छतस्ते पुनः पुनः।
त्वत्प्रियार्थं समाख्यातं गुह्यमेतत् सनातनम्।। १०८.१८ ।।
 
युधिष्ठिर उवाच।
अद्यमे सफलं जन्म अद्यमे तारितं कुलम्।
प्रीतोऽस्म्यनुगृहीतोऽस्मि दर्शनादेवते मुने!।। १०८.१९ ।।
 
त्वद्दर्शनात्तु धर्मात्मन्! मुक्तोहऽञ्चाद्य किल्बिषात्।
इदानीं वेद्मि चात्मानं भगवन्! गतकल्मषम्।। १०८.२० ।।
 
मार्कण्डेय उवाच।
दिष्ट्या ते सफलं जन्म दिष्ट्या ते तारितं कुलम्।
कीर्तनाद्वर्धते पुण्यं श्रुतात्पापप्रणाशनम्।। १०८.२१ ।।
 
युधिष्ठिर उवाच।
यमुनायान्तु किं पुण्यं किं फलन्तु महामुने!।
एतन्मे सर्वमाख्या हि यथाद्रृष्टं यथा श्रुतम्।। १०८.२२ ।।
 
मार्कण्डेय उवाच।
तपनस्य सुतादेवी त्रिषुलोकेषु विश्रुता।
समाख्याता महाभागा यमुना तत्र निम्नगा।। १०८.२३ ।।
 
येनैव निः सृता गङ्गा तेनैव यमुना गता।
योजनानां सहस्रेषु कीर्तनात् पापनाशिनी।। १०८.२४ ।।
 
तत्र स्नात्वा च पीत्वा च यमुनायां युधिष्ठिर!।
कीर्तनाल्लभते पुण्यं द्रृष्ट्वा भद्राणि पश्यति।। १०८.२५ ।।
 
अवगाह्य च पीत्वा च पुनात्यासप्तमं कुलम्।
प्राणांस्त्यजति यस्तत्र स याति परमाङ्गतिम्।। १०८.२६ ।।
 
अग्नितीर्थमितिख्यातं यमुनादक्षिणे तटे।
पश्चिमे धर्मराजस्य तीर्थन्तु नरकं स्मृतम्।। १०८.२७ ।।
 
तत्र स्नात्वा दिवं यान्ति ये मृतास्ते पुनर्भवाः।
एवं तीर्थसहस्राणि यमुनादक्षिणे तटे।। १०८.२८ ।।
 
उत्तरेण प्रवक्ष्याणि आदित्यस्य महात्मनः।
तीर्थं निरञ्जनं नाम यत्र देवाः सवासवाः।। १०८.२९ ।।
 
उपासते स्म सन्ध्यां ये त्रिकालं हि युधिष्ठिर!
देवाः सेवन्ति तत्तीर्थं ये चान्ये विबुधाजनाः।। १०८.३० ।।
 
श्रद्दधानपरो भूत्वा कुरु तीर्थाभिषेचनम्।
अन्ये च बहवस्तीर्थाः सर्वपापहराः स्मृताः।।
तेषु स्नात्वा दिवं यान्ति ये मृतास्ते पुनर्भवाः।। १०८.३१ ।।
 
गङ्गा च यमुना चैव उभे तुल्यफले स्मृते।
केवलं ज्येष्ठभावेन गङ्गा सर्वत्र पूज्यते।। १०८.३२ ।।
 
एवं कुरुष्व कौन्तेय! सर्वतीर्थाभिषेचनम्।
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति।। १०८.३३ ।।
 
यस्त्विमं कल्प (ल्य) उत्थाय पठते च श्रृणोति च।
मुच्यते सर्वपापेभ्यः स्वर्गलोकं स गच्छति।। १०८.३४ ।।
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_१०८" इत्यस्माद् प्रतिप्राप्तम्