"मत्स्यपुराणम्/अध्यायः ९७" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
आदित्यवारव्रतकथनम्।
 
नारद उवाच।
यदारोग्यकरं पुंसां यदनन्तफलप्रदम्।
यच्छान्तये च मर्त्यानां वद नन्दीश तद्‌व्रतम्।। ९७.१ ।।
 
नन्दिकेश्वर उवाच।
यत्तद्विश्वात्मनो धाम परं ब्रह्मसनातनम्।
सूर्य्याग्निचन्द्ररूपेण तत्त्रिधा जगति स्थितम्।। ९७.२ ।।
 
तदाराध्य पुमान् विप्र प्राप्नोति कुशलं सदा।
तस्मादादित्य वारेण सदा नक्ताशनो भवेत्।। ९७.३ ।।
 
यदा हस्तेन संयुक्तमादित्यस्य च वासरम्।
तदा शनिदिने कुर्य्यदेकभुक्तं विमत्सरः।। ९७.4 ।।
 
नक्तमादित्यवारेण भोजयित्वा द्विजोत्तमान्।
पत्रैर्द्वादशसंयुक्तं रक्तचन्दनपङ्कजम्।। ९७.५ ।।
 
विलिख्य विन्यसेत्सूर्य्यं नमस्कारेण पूर्वतः।
दिवाकरं तथाग्नेय विवस्वन्तमतः परम्।। ९७.६ ।।
 
भगन्तु नैर्ऋते देवं वरुणं पश्चिमे दले।
महेन्द्रमनिले तद्वदादित्यञ्च तथोत्तरे।। ९७.७ ।।
 
शान्तमीशानभागे तु नमस्कारेणविन्यसेत्।
कर्णिका पूर्वपत्रेतु सूर्य्यस्य तुरगान्‌ न्यसेत्।। ९७.८ ।।
 
दक्षिणेऽर्यमनामानं मार्तण्डं पश्चिमे दले।
उत्तरे तु रविं देवं कर्णिकायाञ्च भास्करम्।। ९७.९ ।।
रक्तपुष्पोदकेनार्घ्यं सतिलारुणचन्दनम्।
तस्मिन् पद्मे ततो दद्यादिमं मन्त्रमुदीरयेत्।। ९७.१० ।।
 
कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः।
यस्मादग्नीन्द्ररूपस्त्वमतः पाहि दिवाकर!।। ९७.११ ।।
 
अग्निमीले नमस्तुभ्यमिषेत्वोर्जेच भास्कर!
अग्न आयाहि वरद! नमस्ते ज्योतिषाम्पते!।। ९७.१२ ।।
 
अर्घ्यं दत्त्वा विसृज्याथ निशि तैल विवर्जितम्।
भुञ्जीत वत्सरान्ते तु काञ्चनं कमलोत्तमम्।।
पुरुषञ्च यथाशक्त्या कारयेद्‌द्विभुजं तथा।। ९७.१३ ।।
 
सुवर्णश्रृङ्गीं कपिलां महार्घ्यां रौप्यैः खुरैः कांस्यदोहां सवत्साम्।
पूर्णे गुडस्योपरि ताम्रपात्रे निधाय पद्मं पुरुषञ्च दद्यात्।। ९७.१4 ।।
 
संपूज्य रक्ताम्बरमाल्यधूपैर्द्विजञ्च रक्तैरथ हेमश्रृङ्गैः।
संकल्पयित्वा पुरुषं सपद्मं दद्यादनेकव्रतदानकाय।।
अव्यङ्गरूपाय जितेन्द्रियाय कुटुम्बिने देयमनुद्धताय।। ९७.१५ ।।
 
नमो नमः पापविनाशनाय विश्वात्मने सप्ततुरङ्गमाय।
सामर्ग्यजुर्द्धामनिधे! विधात्र भवाब्धिपोताय जगत्सवित्रे।। ९७.१६ ।।
 
इत्यनेन विधिना समाचरेदब्दमेकमिह यस्तु मानवः।
सोऽधिरोहति विनष्टकल्मषः सूर्घ्यधाम धुतचामरावलिः।। ९७.१७ ।।
 
धर्मसंक्षयमवाप्य भूपतिः शोकदुःखभयरोगवर्जितः।
द्वीपसप्तकपतिः पुनः पुनर्द्धर्ममूर्तिरमितौजसा युतः।। ९७.१८ ।।
 
या च भर्तृगुरुदेवतत्परा वेदमूर्त्तिदिननक्तमाचरेत्।
सापि लोकममरेशवन्दिता याति नारद! रवेर्नसंशयः।। ९७.१९ ।।
 
यः पठेदपि श्रृणोति मानवः पठ्यमानमथवानुमोदते।
सोऽपि शक्रभुवनस्थितोऽमरैः पूज्यते वसति चाक्षयं दिवि।। ९७.२० ।।
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_९७" इत्यस्माद् प्रतिप्राप्तम्