"मत्स्यपुराणम्/अध्यायः ११४" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
भारतवर्षवर्णनम्।
ऋषय ऊचुः।
यदिदं भारतं वर्षं यस्मिन् स्वायम्भुवादयः।
चतुर्दशैव मनवः प्रजासर्गं ससर्जिरे।। ११४.१ ।।
 
एतद्वेदितुमिच्छामः सकाशात्तव सुव्रत!
उत्तरश्रवणं भूयः प्रब्रूहि वदतां वर!।। ११४.२ ।।
 
एतच्छ्रुत्वा ऋषीणां तु प्राब्रवील्लौमहर्षणिः।
पौराणिकस्तदासूत! ऋषीणां भावितात्मनाम्।। ११४.३ ।।
 
बुद्‌ध्या विचार्य्य बहुधा विमृश्य च पुनः पुनः।
तेभ्यस्तु कथयामास उत्तरश्रवणं तदा।। ११४.४ ।।
 
अथाहं वर्णयिष्यामि वर्षेऽस्मिन् भारते प्रजाः।
भरणात्प्रजनाच्चैव मनुर्भरत उच्यते।। ११४.५ ।।
 
निरुक्तवचनैश्चैव वर्षं तद्भारतं स्मृतम्।
यतः स्वर्गश्च मोक्षश्च मध्यमश्चापि हि स्मृतः।। ११४.६ ।।
 
न खल्वन्यत्र मर्त्यानां भूमौ कर्मविधिः स्मृतः।
भारतस्यास्य वर्षस्य नवभेदान्निबोधत।। ११४.७ ।।
 
इन्द्रद्वीपः केसरश्च ताम्रपर्णो गभस्तिमान्।
नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः।। ११४.८ ।।
 
अयं तु नवमस्तेषां द्वीपः सागरसंवृतः।
योजनानां सहस्रन्तु द्वीपोऽयं दक्षिणोत्तरः।। ११४.९ ।।
 
आयतस्तु कुमारीतो गङ्गायाः प्रवहावधिः।
तिर्यगूद्‌र्ध्वन्तु विस्तीर्णः सहस्राणि दशैव तु।। ११४.१० ।।
 
द्वीपोह्युपनिविष्टोऽयं म्लेच्छैरन्तेषु सर्वशः।
यवनाश्च किराताश्च तस्यान्ते पूर्वपश्चिमे।। ११४.११ ।।
 
ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः।
इज्यायुत वणिज्यादि वर्तयन्तो व्ववस्थिताः।। ११४.१२ ।।
 
तेषां सव्यवहारोऽयं वर्तनन्तु परस्परम्।
धर्मार्थकामसंयुक्तो वर्णानान्तु स्वकर्मसु।। ११४.१३ ।।
 
सङ्कल्पपञ्चमानान्तु आश्रमाणां यथाविधि।
इह स्वर्गापवर्गार्थं प्रवृत्तिरिह मानुषे।। ११४.१४ ।।
 
यस्त्वयं मानवो द्वीपस्तिर्यग्यामः प्रकीर्त्तितः।
य एनं जायते कृत्स्नं स सम्राडिति कीर्त्तितः।। ११४.१५ ।।
 
अयं लोकस्तु वै सम्राडन्तरिक्षजितां स्मृतः।
स्वराडसौ स्मृतो लोकः पुनर्वक्ष्यामि विस्तरात्।। ११४.१६ ।।
 
सप्त चास्मिन् महावर्षे विश्रुताः कुलपर्वताः।
महेन्द्रो मलयः सह्यः शक्तिमान् ऋक्षवानपि।। ११४.१७ ।।
 
विन्ध्यश्च पारियात्रश्च इत्येते कुलपर्वताः।
तेषां सहस्रशश्चान्ये पर्वतास्तु समीपतः।। ११४.१८ ।।
 
अभिज्ञातस्ततश्चान्ये विपुलाश्चित्र सानवः।
अन्ये तेभ्यः परिज्ञाता ह्रस्वा ह्रस्वोपजीविनः।। ११४.१९ ।।
 
तैर्विमिश्रा जानपदा आर्या म्लेच्छाश्च सर्वतः।
पिबन्ति बहुला नद्यो गङ्गासिन्धुः सरस्वती।। ११४.२० ।।
 
शतद्रूश्चन्द्रभागा च यमुना सरयू तथा।
ऐरावती वितस्ता च विशाला देविका कुहूः।। ११४.२१ ।।
 
गोमती धौतपापा च बाहुदा च द्रृषद्वती।
कौशिकी तु तृतीया च निश्चला गण्डकी तथा।
इक्षुर्लौहितमित्येता हिमवत्पार्श्वनिः सृताः।। ११४.२२ ।।
 
वेदस्तृतिर्वेत्रवती वृत्रघ्नी सिन्धुरेव च।
पर्णाशा नर्मदा चैव कावेरी महती तथा।। ११४.२३ ।।
 
पारा च धन्वतीरूपा विदुषा वेणुमत्यपि।
शिप्रा ह्यवन्ती कुन्ती च परियात्राश्रिताः स्मृताः।। ११४.२४ ।।
 
मन्दाकिनीदशार्णा च चित्रकूटा तथैव च।
तमसापिप्पलीश्येनी तथा चित्रोत्पलापि च।। ११४.२५ ।।
 
विमला चञ्चलाचैव तथा च धूतवाहिनी।
शुक्तिमन्ती शुनी लज्जा मुकुटा ह्रदिकापि च।।
ऋष्यवन्तप्रसूतास्तानथामलजलाः शुभाः।। ११४.२६ ।।
 
तापीपयोष्णी निर्विन्ध्या क्षिप्रा च ऋषभा नदी।
वेणा वैतरणी चैव विश्वमालाकुमुद्वती।। ११४.२७ ।।
 
तोया चैव महागौरी दुर्गमातुशिला तथा।
विन्ध्यपादप्रसूतास्ताः सर्वाः शीतजलाः शुभाः।। ११४.२८ ।।
 
गोदावरी भीमरथी कृष्णवेणी च वञ्जुला।
तुङ्गभद्रा सुप्रयोगा बाह्या कावेरि चैव तु
दक्षिणापथनद्यस्ताः सह्यपादाद्विनिः सृताः।। ११४.२९ ।।
 
कृतमाला ताम्रपर्णी पुष्पजा ह्युत्पलावती।
मलयप्रसूता नद्यः सर्वाः शीतजलाः शुभाः।। ११४.३० ।।
 
त्रिभागा ऋषिकुल्या च इक्षुदा त्रिदिवाचला।
ताम्रपर्णी तथा मूली शरवा विमला तथा
महेन्द्रतनयाः सर्वाः प्रख्याताः शुभगामिनीः।। ११४.३१ ।।
 
काशिकासुकुमारी च मन्दगामन्दवाहिनी।
कृपा च पाशिनीचैव शुक्तिमन्तात्मजास्तु ताः।। ११४.३२ ।।
 
सर्वाः पुण्यजलाः पुण्याः सर्वगाश्च समुद्रगाः।
विश्वस्य मातरः सर्वाः सर्वपापहराः शुभाः।। ११४.३३ ।।
 
तासां नद्युपनद्यश्च शतशोऽथ सहस्रशः।
तास्विमे कुरुपाञ्चालाः शाल्वाश्चैव सजाङ्गलाः।। ११४.३४ ।।
 
शूरसेना भद्रकारा बाह्याः सहपटच्चराः।
मत्स्याः किराताः कुल्याश्च कुन्तलाः काशिकोशलाः।। ११४.३५ ।।
 
आवन्ताश्च कलिङ्गाश्च मूकाश्चैवान्धकैः सह।
मध्यदेशाजनपदाः प्रायशः परिकीर्त्तिताः।। ११४.३६ ।।
 
सह्यस्यानन्तरे चैते तत्र गोदावरी नदी।
पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः।। ११४.३७ ।।
 
यत्र गोवर्धनो नाम मन्दरो गन्धमादनः।
रामप्रियार्थं स्वर्गीया वृक्षादिव्यास्तथौषधीः।। ११४.३८ ।।
 
भरद्वाजेन मुनिना प्रियार्थमवतारिताः।
ततः पुष्पवरो देशस्तेन जज्ञे मनोरमः।। ११४.३९ ।।
 
बाल्हीका वाटधानाश्च आभीराः कालतोयकाः।
पुरन्ध्राश्चैव शूद्राश्च पल्लवाश्चात्तखण्डिकाः।। ११४.४० ।।
 
गान्धारा यवनाश्चैव सिन्धुसौवीरमद्रकाः।
शका द्रुह्याः पुलिन्दाश्च पारदाहारमूर्त्तिकाः।। ११४.४१ ।।
 
रामठाः कण्टकाराश्च कैकेया दशनामकाः।
क्षत्रियोपनिवेश्याश्च वैश्याः शूद्रकुलानि च।। ११४.४२ ।।
 
अत्रयोऽथ भरद्वाजाः प्रस्थलाः सदसेरकाः।
लम्पकास्तलगानाश्च सैनिकाः सह जाङ्गलैः।।
एते देशा उदीच्यास्तु प्राच्यान्देशान्निबोधतः।। ११४.४३ ।।
 
आभीर श्रीकोंकदाणदधोभागे तापीतः पश्चिमे तटे।
आभीर देशो देवेशि विंध्यशैले व्यवस्थितः।। ११४.४४ ।।
 
अङ्गा वङ्गा मद्‌गुरका अन्तर्गिरिबहिर्गिरी।
सुह्योत्तराः प्रविजयाः मार्गवागेयमालवाः।।
प्राग्ज्योतिषाश्च पुण्ड्राश्च विदेहास्ताम्रलिप्तकाः।
शाल्वमागधगोनर्दः प्राच्या रजपदाः स्मृताः।। ११४.४५ ।।
 
तेषां परे जनपदा दक्षिणापथवासिनः।
पाण्ड्याश्च केरलाश्चैव चोलाः कुल्यास्तथैव च।। ११४.४६ ।।
 
सेतुकाः सूतिकाश्चैव कुपथावाजिवासिकाः।
नवराष्ट्रामाहिषिकाः कलिङ्गाश्चैवसर्वशः।। ११४.४७ ।।
 
कारूषाश्च सहैषीका आटव्याः शवरास्तथा।
पुलिन्दाविन्ध्यपुषिका वैदर्भा दण्डकैः सह।। ११४.४८ ।।
 
कुलीयाश्च सिरालाश्च रूपसास्तापसैः सह।
तथा तैत्तिरिकाश्चैव सर्वे कारस्करास्तथा।
वासिकाश्चैव ये चान्ये ये चैवान्तरनर्म्मदाः।
भारुकच्छाः समाहेया सह सारस्वतैस्तथा।। ११४.४९ ।।
 
काच्छीकाश्चैवसौराष्ट्रा आनर्ता अर्बुदैः सह।
इत्येते अपरान्तांस्तु श्रृणु ये विन्ध्यवासिनः।। ११४.५० ।।
 
मालवाश्चकरूषाश्च मेकलाश्चोत्कलैः सह।
औण्ड्रामाषादशार्णाश्च भोजाः किष्किन्धकैः सह।। ११४.५१ ।।
 
स्तोशलाः कोसलाश्चैव त्रैपुरा वैदिशास्तथा।
तुमुरास्तुम्बराश्चैव पद्गमा नैषधैः सह।। ११४.५२ ।।
 
अरूपाः शौण्डिकेराश्च वीतिहोत्रा अवन्तयः।
एते जनपदाः ख्याता विन्ध्यपृष्ठनिवासिनः।। ११४.५३ ।।
 
अतो देशान् प्रवक्ष्यामि पर्वताश्रयिणश्च चे।
निराहाराः सर्वगाश्च कुपथा अपथास्तथा।। ११४.५४ ।।
 
कुथप्रावरणाश्चैव ऊर्णादर्वा समुद्रकाः।
त्रिगर्ता मण्डलाश्चैव किराताश्चामरैः सह।। ११४.५५ ।।
 
चत्वारि भारते वर्षे युगानि मुनयोऽब्रुवन्।
कृतं त्रेता द्वापरञ्च कलिश्चेति चतुर्युगम्।। ११४.५७ ।।
 
मत्स्य उवाच।
एतच्छ्रुत्वा तु ऋषय उत्तरं पुनरेव ते।
शुश्रूषवस्तमूचुस्ते प्रकामं लौमहर्षणिम्।। ११४.५८ ।।
 
यच्च किम्पुरुषं वर्षं हरिवर्षं तथैव च।
आचक्ष्व नो यथातत्त्वं कीर्त्तितं भारतं त्वया।। ११४.५९ ।।
 
जम्बूखण्डस्य विस्तारं तथान्येषां विदाम्वर!।
द्वीपानां वासिनां तेषां वृक्षाणां प्रब्रवीहि नः।। ११४.६० ।।
 
पृष्टस्त्वेवं तदा विप्रैर्यया प्रश्नं विशेषतः।
उवाच ऋषिभिर्द्रृष्टं पुराणाभिमतं यथा।। ११४.६१ ।।
 
सूत उवाच।
शुश्रूषवस्तु यद्विप्राः शुश्रूषध्वमतन्द्रिताः।
जम्बूवर्षः किंपुरुषः सुमहान्नन्दनोपमः।। ११४.६२ ।।
 
दशवर्षसहस्राणि स्थितिः किम्पुरुषे स्मृता।
जायन्ते मानवास्तत्र सुतप्तकनकप्रभाः।। ११४.६३ ।।
 
वर्षे किंपुरुषे पुण्ये प्लक्षो मधुवहः स्मृतः।
तस्य किंपुरुषाः सर्वे पिबन्तो रसमुत्तमम्।। ११४.६४ ।।
 
अनामया ह्यशोकाश्च नित्यं मुदितमानसाः।
सुवर्णवर्णाश्चनराः स्त्रियश्चाप्सरसः स्मृताः।। ११४.६५ ।।
 
ततः परं किम्पुरुषात् हरिवर्षं प्रचक्षते।
महारजतसङ्काशा जायन्ते यत्र मानवाः।। ११४.६६ ।।
 
देवलोकच्युताः सर्वे बहुरूपाश्च सर्वशः।
हरिवर्षे नराः सर्वे पिबन्तीक्षुरसं शुभम्।। ११४.६७ ।।
 
न जरा बाधते तत्र तेन जीवन्ति ते चिरम्।
एकादशसहस्राणि तेषामायुः प्रकीर्तितम्।। ११४.६८ ।।
 
मध्यमं तन्मया प्रोक्तं नाम्न वर्षमिलावृतम्।
न तत्र सूर्यस्तपति नच जीवन्ति मानवाः।। ११४.६९ ।।
 
चन्द्रसूर्य्यौ सनक्षत्रावप्रकाशाविलावृते।
पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः।। ११४.७० ।।
 
पद्मगन्धाश्च जायन्ते तत्र सर्वे च मानवाः।
जम्बूफलरसाहाराः अनिष्पन्दाः सुगन्धिनः।। ११४.७१ ।।
 
देवलोकच्युताः सर्वे महारजतवाससः।
त्रयोदशसहस्राणि वर्षाणान्ते नरोत्तमाः।। ११४.७२ ।।
 
आयुः प्रमाणं जीवन्ति ये तु वर्षइलावृते।
मेरोस्तु दक्षिणो पार्श्वे निषधस्योत्तरेण वा।। ११४.७३ ।।
 
सुदर्शनो नाम महान् जम्बूवृक्षः सनातनः।
नित्यपुष्पफलोपेतः सिद्धचारणसेवितः।। ११४.७४ ।।
 
तस्य नाम्ना समाख्यातो जम्बूद्वीपो वनस्पतेः।
योजनानां सहस्रञ्च शतधा च महान्‌ पुनः।। ११४.७५ ।।
 
उत्सेधो वृक्षराजस्य दिवमावृत्य तिष्ठति।
तस्य जम्बूफलरसो नदी भूत्वा प्रसर्पति।। ११४.७६ ।।
 
मेरुं प्रदक्षिणं कृत्वा जम्बूमूलगता पुनः।
तं पिबन्ति सदा हृष्टा जम्बूरसमिलावृते।। ११४.७७ ।।
 
जम्बूफलरसं पीत्वा न जरा बाधतेऽपि तान्।
न क्षुधा न क्लमो वापि न दुःखञ्च तथाविधम्।। ११४.७८ ।।
 
तत्र जाम्बूनदं नाम कनकं देवभूषणम्।
इन्द्रगोपकसङ्काशं जायते भासुरञ्च यत्।। ११४.७९।।
 
सर्वेषां वर्षवृक्षाणां शुभः फलरसस्तु सः।
स्कन्नन्तु काञ्चनं शुभ्रं जायते देवभूषणम्।। ११४.८० ।।
 
तेषां मूत्रं पुरीषं वा दिक्ष्वष्टासु च सर्वशः।
ईश्वरानुग्रहाद्‌भूमिर्मृतांश्च ग्रसते तु तान्।। ११४.८१ ।।
 
रक्षः पिशाचा यक्षाश्च सर्वे हेमवतास्तु ते।
हेमकूटेतु विज्ञेया गन्धर्व्वाः साप्सरोगणाः।। ११४.८२ ।।
 
सर्वेनागा निषेवन्ते शेषवासुकितक्षकाः।
महामेरौ त्रयस्त्रिंशत् क्रीडन्ते यज्ञियाः शुभाः।। ११४.८३ ।।
 
नीलवैढूर्ययुक्तेऽस्मिन् सिद्धाब्रह्मर्षयोऽवसन्।
दैत्यानां दानवानाञ्च श्वेतः पर्वत उच्यते।। ११४.८४ ।।
 
शृङ्गवान् पर्वतश्रेष्ठः पितृणां प्रतिसञ्चरः।
इत्येतानि मयोक्तानि नव वर्षाणि भारते।। ११४.८५ ।।
 
भूतेरपि निविष्ठानि गतिमन्ति ध्रुवाणि च।
तेषां बुद्धिर्बहुविधा द्रृश्यते देवमानुषैः।।
अशक्या परिसंख्यातुं श्रद्धेया च विभूषता।। ११४.८६ ।।
 
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_११४" इत्यस्माद् प्रतिप्राप्तम्