"मत्स्यपुराणम्/अध्यायः १२१" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
तस्याश्रमस्योत्तरतस्त्रिपुरारिनिषेवितः।
नानारत्नमयैः श्रृङ्गैः कल्पद्रुमसमन्वितैः।। १२१.१ ।।
 
मध्ये हिमवतः पृष्ठे कैलासो नाम पर्वतः।
तस्मिन्निवसति श्रीमान् कुबेरः सह गुह्यकैः।। १२१.२ ।।
 
अप्सरोऽनुगतो राजा मोदते ह्यलकाघिपः।
कैलासपादसम्भूतं रम्यं शीतजलं शुभम्।। १२१.३ ।।
 
मन्दारपुष्परजसा पूरितं देवसन्निभम्।
तस्मात् प्रवहते दिव्या नदी मन्दाकिनी शुभा।। १२१.४ ।।
 
दिव्यञ्च नन्दनं तत्र तस्यास्तीरे महद्वनम्।
प्रागुत्तरेण कैलासाद्दिव्यं सौगन्धिकं गिरिम्।। १२१.५ ।।
 
सर्वधातुमयं दिव्यं सुवेलं पर्वतं प्रति।
चन्द्रप्रभो नाम गिरिः स शुभ्रो रत्नसन्निभः।। १२१.६ ।।
 
तत्समीपे सरो दिव्यमच्छोदं नाम विश्रुतम्।
तस्मात् प्रभवते दिव्या नदी ह्यच्छोदिका शुभा।। १२१.७ ।।
 
तस्यास्तीरे वनं दिव्यं महच्चैत्ररथं शभम्।
तस्मिन् गिरौ निवसति मणिभद्रः सहानुगः।। १२१.८ ।।
 
यक्षसेनापतिः क्रूरो गुह्यकेः परिवारितः।
पुण्या मन्दाकिनी नाम नदी ह्यच्छोदिका शुभा।। १२१.९ ।।
 
महीमण्डलमध्ये तु प्रविष्टे तु महोदधिम्।
कैलासदक्षिणे प्राच्यां शिवं सर्वौषधिं गिरिम्।। १२१.१० ।।
 
मनः शिलामयं दिव्यं सुवेलं पर्वतं प्रति।
लोहितो हेमश्रृङ्गस्तु गिरिः सूर्यप्रभो महान्।। १२१.११ ।।
 
तस्य पादे महद्दिव्यं लोहितं सुमहत्सरः।
तस्मात् प्रभवते पुण्यो लौहित्यश्च नदो महान्।। १२१.१२ ।।
 
दिव्यारण्यं विशोकञ्च तस्य तीरे महद्वनम्।
तस्मिन् गिरौ निवसति यक्षोमणिधरोवशी।। १२१.१३ ।।
 
सौम्यैः सुधार्मिकैश्चैव गुह्यकैः परिवारितः।
कैलासात् पश्चिमोदीच्यां ककुद्मानौषधी गिरिः।। १२१.१४ ।।
 
ककुद्मति च रुद्रस्य उत्पत्तिश्च ककुद्मिनः।
तदजनन्त्रैः ककुदं शैलन्त्रिककुदं प्रति।। १२१.१५ ।।
 
सर्वधातुमयस्तत्र सुमहान् वैद्युतो गिरिः।
तस्य पादे महद्दिव्यं मानसं सिद्धसेवितम्।। १२१.१६ ।।
 
तस्मात् प्रभवते पुण्या सरयूर्लोकपावनी।
तस्यास्तीरे वनं दिव्यं वैभ्राजं नामविश्रुतम्।। १२१.१७ ।।
 
कुबेरानुचरस्तस्मिन् प्रहेतितनयो वशी।
ब्रह्मधाता निवसति राक्षसोऽनन्तविक्रमः।। १२१.१८ ।।
 
कैलासात् पश्चिमामाशां दिव्यः सर्वौषधिर्गिरिः।
अरुणः पर्वतश्रेष्ठो रुक्मधातुविभूषितः।। १२१.१९ ।।
 
भवस्य दयितः श्रीमान्‌ पर्वतो हैमसन्निभः।
शातकौम्भमयैर्दिव्यैः शिलाजालैः समाचितः।। १२१.२० ।।
 
शतसंख्यैस्तापनीयैः श्रृङ्गैर्दिवमिवोल्लिखन्।
शृङ्गवान् सुमहादिव्यो दुर्गः शैलोमहाचितः।। १२१.२१ ।।
 
तस्मिन् गिरौ निवसति गिरिशो धूम्रलोचनः।
तस्य पादात् प्रभवति शैलोदं नाम तत्सरः।। १२१.२२ ।।
 
तस्मात् प्रभवते पुण्या नदीशैलोदकाशुभा।
सा चक्षुसी तयोर्मध्ये प्रविष्टा पश्चिमो दधिम्।। १२१.२३ ।।
 
अस्त्युत्तरेण कैलासाच्छिवः सर्वौषधो गिरिः।
गौरन्तु पर्वतश्रेष्ठं हरितालमयं प्रति।। १२१.२४ ।।
 
हिरण्यशृङ्गः सुमहान् दिव्यौषधिमयो गिरिः।
तस्य पादे महद्दिव्यं सरः काञ्चनबालुकम्।। १२१.२५ ।।
 
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः।
गङ्गार्थे स तु राजर्षिरुवास बहुलाः समाः।। १२१.२६ ।।
 
दिवं यास्यन्तु मे पूर्वे गंगातोयाप्लुतास्थिकाः।
तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता।। १२१.२७ ।।
 
सोमपादात् प्रसूता सा सप्तधा प्रविभज्यते।
यूपामणिमयास्तत्र विमानाश्च हिरण्मयाः।। १२१.२८ ।।
 
तत्रेष्ट्वा क्रतुभिः सिद्धः शक्रः सुरगणैः सह।
दिव्यच्छायापथस्तत्र नक्षत्राणान्तु मण्डलम्।। १२१.२९ ।।
 
द्रृश्यते भासुरा रात्रौ देवी त्रिपथगा तु सा।
अन्तरिक्षं दिवं चैव भावयित्वा भुवं गता।। १२१.३० ।।
 
भवोत्तमांगे पतिता संरुद्धा योगमायया।
तस्या ये बिन्दवः केचित्‌ क्रुद्धायाः पतिपा भुवि।। १२१.३१ ।।
 
ज्ञात्वा तस्या ह्यभिप्रायं क्रूरं देव्याश्चिकीर्षितम्।
भित्वा विशामि पातालं श्रोतसा गृह्य शङ्करम्।। १२१.३३ ।।
 
अथावलेपनं ज्ञात्वा तस्याः क्रुद्धन्तु शङ्करः।
तिरोभावयितुं बुद्धिरासीदङ्गेषु तां नदीम्।। १२१.३४ ।।
 
एतस्मिन्नेव काले तु द्रृष्ट्वा राजानमग्रतः।
धमनीसन्ततं क्षीणां क्षुधा व्याकुलितेन्द्रियम्।। १२१.३५ ।।
 
अनेन तोषितश्चाहं नद्यर्थे पूर्वमेव तु।
बुध्वास्य वरदानन्तु ततः कोपं न यच्छत।। १२१.३६ ।।
 
ब्रह्मणो वचनं श्रुत्वा यदुक्तं धारयन्नदीम्।
ततो विसर्जयामास संरुद्धां स्वेन तेजसा।। १२१.३७ ।।
 
नदी भगीरथस्यार्थे तपसोग्रेण तोषितः।
ततो विसर्जयामास सप्तस्रोतांसि गङ्गया।। १२१.३८ ।।
 
त्रीणि प्राचीमभिमुखं प्रतीचीन्त्रीण्यथैव तु।
स्रोतांसि त्रिपथायास्तु प्रत्यपद्यन्त सप्तधा।। १२१.३९ ।।
 
नलिनी ह्लादिनी चैव पावनी चैव प्राच्यगा।
सीता चक्षुश्च सिन्धुश्च तिस्रस्ता वै प्रतीच्यगाः।। १२१.४० ।।
 
सप्तमी त्वनुगा तासां दक्षिणेन भगीरथम्।
तस्मात् भागीरथी सा वै प्रविष्टा दक्षिणो दधिम्।। १२१.४१ ।।
 
सप्त चैताः प्लावयन्ति वर्षन्तु हिमसाह्वयम्।
प्रसूताः सप्त नद्यस्तु शुभा बिन्दुसरोद्भवाः।। १२१.४२ ।।
 
तान्देशान् प्लावयन्ति स्म म्लेच्छप्रायांश्च सर्वशः।
सशैलान् कुकुरान् रौध्रान् बर्बरान् यवनान् खसान्।। १२१.४३ ।।
 
पुलिकांश्च कुलत्थांश्च अङ्गलोक्यान्वरांश्च यान्।
कृत्वा द्विधा हिमवन्तं प्रविष्टा दक्षिणो दधिम्।। १२१.४४ ।।
 
अथ वीरमरूंश्चैव कालिकांश्चैवशूलिकान्।
तुषारान् बर्बरानङ्गान्यगृह्णात् परदान्‌ शकान्।। १२१.४५ ।।
 
एतान् जनपदांश्चक्षः प्लावयित्वोदधिङ्गता।
दरदोर्जगुण्डांश्चैव गान्धारानौरसान्‌ कुहून्।। १२१.४६ ।।
 
शिवपौरानिन्द्रमरून् वसतीन् समतेजसम्।
सैन्धवानुर्वसान् वर्वान् कुपश्रान् भीमरोमकान्।। १२१.४७ ।।
 
शुनामुखांश्चोर्दमरून् सिन्धुरेतान्निषेवते।
गन्धर्वान् किन्नरान्यक्षान् रक्षोविद्याधरोरगान्।। १२१.४८ ।।
 
कलापग्रामकांश्चैव तथा किंपुरुषान्नरान्।
किरातांश्च पुलिन्दांश्च कुरून् वै भारतानपि।। १२१.४९ ।।
 
पाञ्चालान् कौशिकान् मत्स्यान् मागधाङ्गांस्तथैव च।
ब्रह्मोत्तराश्च वङ्गांश्च ताम्रलिप्तांस्तथैव च।। १२१.५० ।।
 
एतान् जनपदानार्यान् गङ्गा भावयते शुभा।
ततः प्रतिहता विन्ध्ये प्रविष्टा दक्षिणो दधिम्।। १२१.५१ ।।
 
ततस्तु ह्लादिनी पुण्या प्राचीनाभिमुखा ययौ।
प्लावयन्त्युपकांश्चैव निषादानपि सर्वशः।। १२१.५२ ।।
 
धीवरानृषिकांश्चैव तथा नीलमुखानपि।
केकरानेककर्णाश्च किरातानपि चैव हि।। १२१.५३ ।।
 
कालिन्दगतिकांश्चैव कुशिकान्‌ स्वर्गभौमकान्।
सामण्डले समुद्रस्य तीरे भूत्वा तु सर्वशः।। १२१.५४ ।।
 
ततस्तु नलिनी चापि प्राचीमेव दिशं ययौ।
कुपथान् प्लावयन्ती सा इन्द्रद्युम्नसरांस्यपि।। १२१.५५ ।।
 
तथा खरपथान् देशान् वेत्रशङ्कुपथानपि।
मध्येनोज्जानकमरून् कुथप्रावरणान् ययौ।। १२१.५६ ।।
 
इन्द्रद्वीपसमीपे तु प्रविष्टा लवणोदधिम्।
ततस्तु पावनी प्रायात् प्राचीमाशाञ्जवेन तु।। १२१.५७ ।।
 
तोमरान्प्लावयन्ती च हंसमार्गान्‌ समूहकान्।
पूर्वान्देशांश्च सेवन्ती भित्वा सा बहुधा गिरिम्।।
कर्णप्रावरणान् प्राप्य गता साश्वमुखानपि।। १२१.५८ ।।
 
सिक्त्वा पर्वतमेरुं सा गत्वा विद्याधरानपि।
शैमिमण्डलकोष्ठन्तु सा प्रविष्टा महत्सरः।। १२१.५९ ।।
 
तासां नद्युपनद्योऽन्याः शतशोऽथ सहस्रशः।
उपगच्छन्ति ता नद्यो यतो वर्षति वासवः।। १२१.६० ।।
 
तीरे वंशौकसारायाः सुरभिर्नाम तद्वनम्।
हिरण्यश्रृङ्गो वसति विद्वान् कौबरको वशी।। १२१.६१ ।।
 
यज्ञादपेतः सुमहानमितौजाः सुविक्रमः।
तत्रागस्त्यैः परिवृता विद्वद्भिर्ब्रह्मराक्षसैः।। १२१.६२ ।।
 
कुबेरानुचरा ह्येते चत्वारस्तत्समाश्रिताः।
एवमेव तु विज्ञेया सिद्धिः पर्वतवासिनाम्।। १२१.६३ ।।
 
परस्परेण द्विगुणा धर्म्मतः कामतोऽर्थतः।
हेमकूटस्य पृष्ठे तु सर्पाणां तत्सरः स्मृतम्।। १२१.६४ ।।
 
सरस्वती प्रभवति तस्माज्योतिष्मती तु या।
अवगाढ़े ह्युभयतः समुद्रौ पूर्वपश्चिमौ।। १२१.६५ ।।
 
सरो विष्णुपदं नाम निषधे पर्वतोत्तमे।
यस्मादग्रे प्रभवति गन्धर्वानुकुले च ते।। १२१.६६ ।।
 
मेरोः पार्श्वात् प्रभवति ह्रदश्चन्द्रप्रभो महान्।
जम्बूश्चैव नदी पुण्या यस्यां जाम्बूनदं स्मृतम्।। १२१.६७ ।।
 
पयोदस्तु ह्रदो नीलः स शुभः पुण्‍डरीकवान्।
पुण्डरीकात् पयोदाच्च तस्माद् वै सम्प्रसूयताम्।। १२१.६८ ।।
 
सरसस्तुसरस्त्वेतत् स्मृतमुत्तरमानसम्।
मृग्याच मृगकान्ता च तस्माद्‌ द्वेसम्प्रसूयताम्।। १२१.६९ ।।
 
ह्रदाः कुरुषु विख्याताः पद्ममीनकुलाकुलाः।
नाम्ना ते वैजया नाम द्वादशो दधिसन्निभाः।। १२१.७० ।।
 
तेभ्यः शान्तीच मध्वीच द्वेनद्यौ सम्प्रसूयताम्।
किंपुरुषाद्यानि यान्यष्टौ तेषु देवो न वर्षति।। १२१.७१ ।।
 
उद्भिदान्युदकान्यत्र प्रवहन्ति सरिद्वराः।।
बलाहकश्च ऋषभो चक्रो मैनाक एव च।। १२१.७२ ।।
 
विनिविष्टाः प्रतिदिशं निमग्ना लवणाम्बुधिम्। १२१.७३ ।।
 
चन्द्रकान्तस्तथा द्रोणः सुमहांश्च शिलोच्चयः।
उद्गायता उदीच्यान्तु अवगाढा महोमधिम्।। १२१.७४ ।।
 
चक्रो बधिरकश्चैव तथा नारदपर्वतः।
प्रतीचीमायतास्ते वै प्रतिष्ठास्ते महोदधिम्।। १२१.७५ ।।
 
जीमूतो द्रावणश्चैव मैनाकश्चन्द्रपर्वतः।
आयतास्ते महाशैलाः समुद्रं दक्षिणम्प्रति।। १२१.७६ ।।
 
चक्रमैनाकयोर्मध्ये दिवि संदक्षिणापथे।।
तत्र संवर्तको नामसोऽग्निः पिबति तज्जलम्।
अग्निः समुद्रवासस्तु और्वोऽसौवड़वामुखः।। १२१.७७ ।।
 
इत्येते पर्वताविष्टाश्चत्वारो लवणो दधिम्।
छिद्यमानेषु पक्षेषु पुरा इन्द्रस्य वै भयात्।। १२१.७८ ।।
 
तेषान्तु द्रृश्यते चन्द्रे शुक्ले कृष्णे समाप्लुतिः।। १२१.७९ ।।
 
ते भारतस्य वर्षस्य भेदा ये न प्रकीर्त्तिताः
इहोदितस्य द्रृश्यन्ते अन्ये त्वन्यत्र चोदिताः।
उत्तरोत्तरमेतेषां वर्षमुद्रिच्यते गुणैः।। १२१.८० ।।
 
आरोग्यायुः प्रमाणाभ्यां धर्म्मतः कामतोऽर्थकः।
समन्तितानि भूतानि तेषु वर्षेषु भागशः।। १२१.८१ ।।
 
वसन्ति नानाजातीनि तेषु सर्वेषु तानि वै।
इत्येतद्धारयद्विश्वं पृथ्वी जगदिदं स्थिताः।। १२१.८१ ।।
 
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_१२१" इत्यस्माद् प्रतिप्राप्तम्