"मत्स्यपुराणम्/अध्यायः १२२" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
शाकद्वीपवर्णनम्।
सूत उवाच।
शाकद्वीपस्य वक्ष्यामि यथावदिह निश्चयम्।
कथ्यमानं निबोधध्वं शाकं द्वीपं द्विजोत्तमाः!।। १२२.१ ।।
 
जम्बूद्वीपस्य विस्ताराद्‌द्विगुणस्तस्य विस्तरः।
विस्तारात् त्रिगुणाश्चापि परीणाहः समन्ततः।। १२२.२ ।।
 
तेनावृतः समुद्रोऽयं द्वितीयो लवणोदकः।
तत्र पुण्या जनपदा चिराच्च म्रियते जनः।। १२२.३ ।।
 
कुत एव च दुर्भिक्षं क्षमातेजोयुतेष्विह।
तत्रापि पर्वताः शुभ्राः सप्तैव मणिभूषिताः।। १२२.४ ।।
 
शाकद्वीपादिषु त्वेषु सप्त सप्त नगास्त्रिषु।
ऋज्वायताः प्रतिदिशं निविष्टाः पर्वतोत्तमाः।। १२२.५ ।।
 
रत्नाकाराद्रिनामानः सानुमन्तो महाचिताः।
समोदिताः प्रतिदिशं द्वीपविस्तारमानतः।। १२२.६ ।।
 
उभयत्रावगाढौ च लवणक्षीरसागरौ।
शाकद्वीपे तु वक्ष्यामि सप्तदिव्यान् महाचलान्।। १२२.७ ।।
 
देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते।
प्रागायतः स सौवर्ण उदयो नाम पर्वतः।। १२२.८ ।।
 
तत्र मेघास्तु वृष्ट्यर्थं प्रभवन्त्यपयान्ति च।
तस्यापरेण सुमहान् जलधारो महागिरिः।। १२२.९ ।।
 
स वै चन्द्रः समाख्यातः सर्वौषधिसमन्वितः।
तस्मान्नित्यमुपादत्ते वासवः परमञ्जलम्।। १२२.१० ।।
 
नारदो नाम चैवोक्तो दुर्गशैलो महाचितः।
तत्राचलौ समुत्पन्नौ पूर्वं नारदपर्वतौ।। १२२.११ ।।
 
तस्यापरेण सुमहान् श्यामो नाम महागिरिः।
यत्र श्यामत्वमापन्नाः प्रजाः पूर्वमिमाः किल।। १२२.१२ ।।
 
स एव दुन्दुभिर्नाम श्यामपर्वतसन्निभः।
शब्दमृत्युः पुरा तस्मिन् दुन्दुभिस्ताड़ितः सुरैः ।। १२२.१३ ।।
 
रत्नमालान्तरमयः शाल्मलश्चान्तरालकृत्।
तस्यापरेण रजतो महानस्तो गिरिः स्मृतः।। १२२.१४ ।।
 
स वै सोमक इत्युक्तो देवैर्यत्रामृतं पुरा।
संभृतञ्च हृतञ्चैव मातुरर्थे गरुत्मता।। १२२.१५ ।।
 
तस्यापरे चाम्बिकेयः सुमनाश्चैव स स्मृतः।
हिरण्याक्षो वराहेण तस्मिन्‌ शैले निषूदितः।। १२२.१६ ।।
 
आम्बिकेयात् परो रम्यः सर्वौषधिनिषेवितः।
विभ्राजस्तु समाख्यातः स्फाटिकस्तु महान् गिरिः।। १२२.१७ ।।
 
यस्माद्विभ्राजते वह्निर्विभ्राजस्तेन स स्मृतः।
सैवेह केशवेत्युक्तो यतो वायुः प्रवाति च।। १२२.१८ ।।
 
तेषां वर्षाणि वक्ष्यामि पर्वतानां द्विजोत्तमाः!।
श्रृणुध्वं नामतस्तानि यथावदनुपूर्वशः।। १२२.१९ ।।
 
द्विनामान्येव वर्षाणि यथैव गिरयस्तथा।
उदयस्योदयं वर्षं जलधारेति विश्रुतम्।। १२२.२० ।।
 
नाम्नागतभयं नाम वर्षं तत् प्रथमं स्मृतम्।
द्वितीयं जलधारस्य सुकुमारमिति स्मृतम्।। १२२.२१ ।।
 
तदेव शैशिरं नाम वर्षं तत् परिकीर्त्तितम्।
नारदस्य च कौमारन्तदेव च सुखोदयम्।। १२२.२२ ।।
 
श्यामपर्वतवर्षं तदनीचकमिति स्मृतम्।
आनन्दकमितिप्रोक्तं तदेव मुनिभिः शुभम्।। १२२.२३ ।।
 
सोमकस्य शुभं वर्षं विज्ञेयं कुसुमोत्करम्।
तदेवासितमित्युक्तं वर्षं सोमकसंज्ञितम्।। १२२.२४ ।।
 
आंबिकेयस्य मैनाकं क्षेमकञ्चैव तत् स्मृतम्।
तदेव ध्रुवमित्युक्तं वर्षं विभ्राजसंज्ञितम्।। १२२.२५ ।।
 
द्वीपस्य परिणाहञ्च ह्रस्वदीर्घत्वमेव च।
जम्बूद्वीपेन संख्यातं तस्य मध्ये वनस्पतिम्।। १२२.२६ ।।
 
शाको नाम महावृक्षः प्रजास्तस्य महानुगाः।
एतेषु देवगन्धर्वाः सिद्धाश्च सह चारणैः।। १२२.२७ ।।
 
विहरन्ति रमन्ते च द्रृश्यमानाश्च तैः सह।
तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः।। १२२.२८ ।।
 
तेषु नद्यश्च सप्तैव प्रतिवर्षं समुद्रगाः।
द्विनाम्ना चैव ताः सर्वा गङ्गा सप्तविधा स्मृता।। १२२.२९ ।।
 
प्रथमा सुकुमारीति गङ्गा शिवजला शुभा।
मुनितप्ता च नाम्नैषा नदी सम्परिकीर्त्तिता।। १२२.३० ।।
 
सुकुमारी तपः सिद्धा द्वितीया नामतः सतो।
नन्दाच पावनी चैव तृतीया परिकीर्त्तिता।। १२२.३१ ।।
 
शिविका च चतुर्थी स्यात् द्विविधा च पुनः स्मृता।
इक्षुश्च पञ्चमी ज्ञेया तथैव च पुनः कुहूः।। १२२.३२ ।।
 
वेणुका चामृता चैव षष्ठी सम्परिकीर्त्तिता।
सुकृता च गभस्ती च सप्तमी परिकीर्त्तिता।। १२२.३३ ।।
 
एताः सप्त महाभागाः प्रतिवर्षं शिवोदकाः।
भावयन्ति जनं सर्वं शाकद्वीपनिवासिनम्।। १२२.३४ ।।
 
अभिगच्छन्ति ताश्चान्या नदनद्यः सरांसि च।
बहूदकपरिस्रावा यतो वर्षति वासवः।। १२२.३५ ।।
 
तासान्तु नामधेयानि परिमाणं तथैव च।
न श्क्यं परिसंख्यातुं पुण्यास्ताः सरिदुत्तमाः।। १२२.३७ ।।
 
ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते।
एते शान्तभयाः प्रोक्ताः प्रमोदा ये च वै शिवाः।।
आनन्दाश्च सुखाश्चैव क्षेमकाश्च नवैः सह।
वर्णाश्रमाचारयुता देशास्तु सप्त विश्रुताः।। १२२.३८ ।।
 
आरोग्या बलिनश्चैव सर्वे मरणवर्जिताः।
अवसर्पिणी न तेष्वस्ति तथैवोत्सर्पिणी पुनः।। १२२.३९ ।।
 
न तत्रास्ति युगावस्था चतुर्युगकृता क्वचित्।
त्रेतायुगसमः कालस्तथा तत्र प्रवर्त्तते।। १२२.४० ।।
 
शाकद्वीपादिषु ज्ञेयं पञ्चस्वेतेषु सर्वशः।
देशस्य तु विचारेण कालः स्वाभाविकः स्मृतः।
न तेषु सङ्करः कश्चित् वर्णाश्रमकृतः क्वचित्।। १२२.४१ ।।
 
धर्म्मस्य चाव्यभीचारादेकान्तसुखिनः प्रजाः।। १२२.४२ ।।
 
न तेषु माया लोभो वा ईर्ष्यासूया भयं कुतः।
विपर्ययो न तेष्वस्ति तद्वै स्वाभाविकं स्मृतम्।। १२२.४३ ।।
 
कालो नैव च तेष्वस्ति न दण्डो न च दाण्डिकः।
स्वधर्मेण च धर्मज्ञास्ते रक्षन्ति परस्परम्।। १२२.४४ ।।
 
परिमण्डलस्तु सुमहान् दीपो वै कुशसंज्ञकः।
नदीजलैः परिवृतः पर्वतैश्चाभ्रसन्निभैः।। १२२.४५ ।।
 
सर्वधातुविचित्रैश्च मणिविद्रमभूषितैः।
अन्यैश्च विविधाकारै रम्यैर्जनपदैस्तथा।। १२२.४६ ।।
 
वृक्षैः पुष्पफलोपेतैः सर्वतो धनधान्यवान्।
नित्यं पुष्पफलोपेतः सर्वरत्नसमावृतः।। १२२.४७ ।।
 
आवृतः पशुभिः सर्वैर्ग्रामारण्यैश्च सर्वशः।
आनुपूर्वात् समासेन कुशद्वीपं निबोधत।। १२२.४८ ।।
 
अथ तृतीयं वक्ष्यामि कुशद्वीपञ्च कृत्स्नशः।
कुशद्वीपेन क्षीरोदः सर्वतः परिवारितः।। १२२.४९ ।।
 
शाकद्वीपस्य विस्तारो द्विगुणेन समन्वितः।
तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः।। १२२.५० ।।
 
रत्नाकारस्तथा नद्यस्तेषां नामानि मे श्रृणु।
द्विनामानश्च ते सर्वे शाकद्वीपे यथा तथा।। १२२.५१ ।।
 
प्रथमः सूर्य्यसङ्काशः कुमुदो नाम पर्वतः।
विद्रुमोच्चय इत्युक्तः स एव च महीधरः।। १२२.५२ ।।
 
सर्वधातुमयैः श्रृङ्गैः शिलाजालसमन्वितैः।
द्वितीय पर्वतस्तत्र उन्नतो नाम विश्रुतः।। १२२.५३ ।।
 
हेमपर्वत इत्युक्तः स एव च महीधरः।
हरितालमयैः श्रृङ्गै र्द्वीपमावृत्य सर्वशः।। १२२.५४ ।।
 
बलाहकस्तृतीयस्तु जात्यञ्जनमयो गिरि।
द्युतिमान्नामतः प्रोक्तः स एव च महीधरः।। १२२.५५ ।।
 
चतुर्थः पर्वतो द्रोणो यत्रौषध्यो महागिरौ।
विशल्यकरणी चैव मृतसञ्जीवनी तथा।। १२२.५६ ।।
 
पुष्पवान्नाम सैवोक्तः पर्वतः सुमहाचितः।
कङ्कस्तु पञ्चमस्तेषां पर्वतो नाम सारवान्।। १२२.५७ ।।
 
कुशेशय इति प्रोक्तः पुनः स पृथिवीधरः।
दिव्यपुष्पफलोपेतो दिव्यवीरुत्समन्वितः।। १२२.५८ ।।
 
षष्ठस्तु पर्वतस्तत्र महिषो मेघसन्निभः।
स एव तु पुनः प्रोक्तो हरिरित्यभिविश्रुतः।। १२२.५९ ।।
 
तस्मिन् सोऽग्निर्निवसति महिषो नाम योऽप्सुजः।
सप्तमः पर्वतस्तत्र ककुद्मान् स हि भाषते।। १२२.६० ।।
 
मन्दरः सैव विज्ञेयः सर्वधातुमयः शुभः।
मन्द इत्येष यो धातुरपामर्थे प्रकाशकः।। १२२.६१ ।।
 
अपां विदारणाच्चैव मन्दरः स निगद्यते।
तत्र रत्नान्यनेकानि स्वयं रक्षति वासवः।। १२२.६२ ।।
 
प्रजापतिमुपादाय प्रजाभ्यो विदधत् स्वयम्।
तेषामन्तरविष्कम्भो द्विगुणः समुदाहृतः।। १२२.६३ ।।
 
इत्येते पर्वतः सप्त कुशद्वीपे प्रभाषिताः।
तेषां वर्षाणि वक्ष्यामि सप्तैव तु विभागशः।। १२२.६४ ।।
 
कुमुदस्य स्मृतः श्वेत उन्नतश्चैव स स्मृतः।
उन्नतस्य तु विज्ञेयं वर्षं लोहितसंज्ञकम्।। १२२.६५ ।।
 
वेणुमण्डलकञ्चैव तथैव परिकीर्त्तितम्।
बलाहकस्य जीमूतः स्वैरथाकारमित्यपि।। १२२.६६ ।।
 
द्रोणस्य हरिकं नाम लवणञ्च पुनः स्मृतम्।
कङ्कस्यापि ककुन्नाम धृतिमच्चैव तत् स्मृतम्।। १२२.६७ ।।
 
महिषं महिषस्यापि पुनश्चापि प्रभाकरम्।
ककुद्मिनस्तु यद्वर्षं कपिलं नाम विश्रुतम्।। १२२.६८ ।।
 
एतान्यपि विशिष्टानि सप्त सप्त पृथक् पृथक्।
वर्षाणि पर्वताश्चैव नदीस्तेषु निबोधत।। १२२.६९ ।।
 
तत्रापि नद्यः सप्तैव प्रतिवर्षं हि ताः स्मृताः।
द्विनामवत्यस्ताः सर्वाः सर्वाः पुण्यजलाः स्मृताः।। १२२.७० ।।
 
धूतपापा नदी नाम योनिश्चैव पुनः स्मृता।
सीता द्वितीया विज्ञेया सा चैव हि निशा स्मृता।। १२२.७१ ।।
 
पवित्रा तृतीया ज्ञेया वितृष्णापि च या पुनः।
चतुर्थी ह्लादिनीत्युक्ता चन्द्रभा इति च स्मृता।। १२२.७२ ।।
 
विद्युच्च पञ्चमी प्रोक्ता शुक्लाचैव विभाव्यते।
पुण्ड्रा षष्ठी तु विज्ञेया पुनश्चैव विभावती।। १२२.७३ ।।
 
महती सप्तमी प्रोक्ता पुनश्चैषा धृतिः स्मृता।
अन्यास्ताभ्योऽपि सञ्जाताः शतशोऽथ सहस्रशः।। १२२.७४ ।।
 
अभिगच्छन्ति ता नद्यो यतो वर्षति वासवः।
इत्येष सन्निवेशो वः कुशद्वीपस्य वर्णितः।। १२२.७५ ।।
 
शाकद्वीपेन विस्तारः प्रोक्तस्तस्य सनातनः।
कुशद्वीपः समुद्रेण घृतमण्डोदकेन च।। १२२.७६ ।।
 
सर्वतः सुमहान् द्वीपश्चन्द्रवत् परिवेष्टितः।
विस्तारान्‌ मण्डलाच्चैव क्षीरोदाद्‌द्विगुणोमतः।। १२२.७७ ।।
 
ततः परं प्रवक्ष्यामि क्रौञ्चद्वीपं यथा तथा।
कुशद्वीपस्य विस्ताराद् द्विगुणस्तस्य विस्तरः।। १२२.७८ ।।
 
घृतोदकः समुद्रो वै क्रौञ्चद्वीपेन संवृतः।
चक्रनेमिप्रमाणेन वृतो वृत्तेन सर्वशः।। १२२.७९ ।।
 
तस्मिन् द्वीपे नराः श्रेष्ठा देवनो गिरिरुच्यते।
देवनात्‌ परतश्चापि गोविन्दो नाम पर्वतः।। १२२.८० ।।
 
गोविन्दात् परतश्चापि क्रोञ्चस्तु प्रथमो गिरिः।
क्रौञ्चात्परे पावनकः पावनादन्धकारकः।। १२२.८१ ।।
 
अन्धकारात्परे चापि देवावृन्नाम पर्वतः।
देवावृतः परेणापि पुण्डरीको महान् गिरिः।। १२२.८२ ।।
 
एते रत्नमयाः सप्त क्रौञ्चद्वीपस्य पर्वता।
परस्परस्य द्विगुणो विष्कम्भो वर्षपर्वतः।। १२२.८३ ।।
 
वर्षाणि तस्य वक्ष्यामि नामतस्तु निबोधत।
क्रौञ्चस्य कुशलो देशो वामनस्य मनोऽनुगः।। १२२.८४ ।।
 
मनोऽनुगात्परे चोष्णस्तृतीयोऽपि स उच्यते।
उष्णात्परे पावनकः पावनादन्धकारकः।। १२२.८५ ।।
 
अन्धकारकदेशात्तु मुनिदेशस्तथापरः।
मुनिदेशात् परे चापि प्रोच्यते दुन्दुभिस्वनः।। १२२.८६ ।।
 
सिद्धचारणसङ्कीर्णो गौरप्रायः शुचिर्जनः।
श्रुतास्तत्रैव नद्यस्तु प्रतिवर्षङ्गताः शुभाः।। १२२.८७ ।।
 
नारी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा।
ख्याती च पुण्डरीका च गङ्गाः सप्तविधाः स्मृताः।। १२२.८८ ।।
 
तासां सहस्रशश्चान्या नद्यः पार्श्वसमीपगाः।
अभिगच्छन्ति ता नद्यो बहुलाश्च बहूदकाः।। १२२.८९ ।।
 
तेषां निसर्गो देशानामानुपूर्वेण सर्वशः।
न शक्यो विस्तराद्वक्तुमपि वर्षशतैरपि।। १२२.९० ।।
 
सर्गायश्च प्रजानान्तु संहारो यश्च तेषु वै।
अत ऊद्‌र्ध्वं प्रवक्ष्यामि शाल्मलस्य निबोधत।। १२२.९१ ।।
 
शाल्मलो द्विगुणो द्वीपः क्रौञ्चद्वीपस्य विस्तरात्।
परिवार्य्य समुद्रन्तु दधिमण्डोदकं स्थितम्।। १२२.९२ ।।
 
तत्र पुण्या जनपदाश्चिराच्च म्रियते जनः।
कुत एव तु दुर्भिक्षं क्षमातेजोयुता हि ते।। १२२.९३ ।।
 
प्रथमः सूर्य्यसङ्काशः सुमना नाम पर्वतः।
पीतस्तु मध्यमश्चासीत्ततः कुम्भमयो गिरिः।। १२२.९४ ।।
 
नाम्ना सर्वसुखो नाम दिव्यौषधिसमन्वितः।
तृतीयश्चैव सौवर्णो भृङ्गपत्रनिभो गिरिः।। १२२.९५ ।।
 
सुमहान् रोहितो नाम दिव्यो गिरिवरो हि सः।
सुमनाः कुशलो देशः सुखोदर्कः सुखोदयः। १२२.९६ ।।
 
रोहितो यस्तृतीयस्तु रोहिणो नाम विश्रुतः।
तत्र रत्नान्यनेकानि स्वयं रक्षति वासवः।। १२२.९७ ।।
 
प्रजापतिमुपादाय प्रसन्नो विदधत् स्वयम्।
न तत्र मेघा वर्षन्ति शीतोष्णञ्च न तद्विधम्।। १२२.९८ ।।
 
वर्णाश्रमाणां वार्ता वा त्रिषु द्वीपेषु विद्यते।
न ग्रहो न च चन्द्रोऽस्ति ईर्ष्याऽसूया भयं तथा।। १२२.९९ ।।
 
उद्भिदान्युदकान्यत्र गिरिप्रस्रवणानि च।
भोजनं षड्रसं तत्र तेषां स्वयमुपस्थितम्।। १२२.१०० ।।
 
अधमोत्तमं न तेष्वस्ति न लोभो न परिग्रहः।
आरोग्यबलवन्तश्च एकान्तसुखिनो नराः।। १२२.१०१ ।।
 
त्रिंशद्वर्षसहस्राणि मानसीं सिद्धिमास्थिताः।
सुखमायुश्च रूपञ्च धर्मैश्वर्य्यन्तथैव च।। १२२.१०२ ।।
 
शाल्मलान्तेषु विज्ञेयं द्वीपेषु त्रिषु सर्वतः।
व्याख्यातः शाल्मलान्तानां द्वीपानान्तु विधिः शुभः ।। १२२.१०३ ।।
 
परिमण्‍डस्तु द्वीपस्य चक्रवत् परिवेष्टितः।
सुरोदेन समुद्रेण द्विगुणेन समन्वितः।। १२२.१०४ ।।
 
 
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_१२२" इत्यस्माद् प्रतिप्राप्तम्