"मत्स्यपुराणम्/अध्यायः १३०" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
मयस्यत्रिपुरनिर्माणम्।
सूत उवाच।
इति चिन्त्य मयो दैत्यो दिव्योपाय प्रभावजम्।
चकार त्रिपुरं दुर्गं मनः सञ्चारचारितम्।। १३०.१ ।।
 
प्रकारोऽनेन मार्गेण इह वामुत्र गोपुरम्।
इह चाट्टालकद्वारमिह चाट्टालगोपुरम्।। १३०.२ ।।
 
राजमार्गं इतश्चापि विपुलो भवतामिति।
रथ्योपरथ्याः सत्रिका इहचत्वर एव च।। १३०.३ ।।
 
इदमन्तः पुरस्थानं रुद्रायतनमत्र च।
सवटानि तड़ागानि ह्यत्र वाप्यः सरांसि च।। १३०.४ ।।
 
आरामाश्च सभाश्चात्र उद्यानान्यत्र वा तथा।
उपनिर्गमो दानवानां भवत्यत्र मनोहरः।। १३०.५ ।।
 
इत्येवं मानसं तत्राकल्पयत् पुरकल्पवित्।
मयेन तत्पुरं सृष्टं त्रिपुरं त्वितिः नः श्रुतम्।। १३०.६ ।।
 
कार्ष्णायसमयं यत्तु मयेन विहितं पुरम्।
तारकाख्योऽधिपस्तत्र कृतस्थानाधिपोऽवसत्।। १३०.७ ।।
 
यत्तु पूर्णेन्दुसङ्काशं राजतं निर्मितं पुरम्।
विद्युन्माली प्रभुस्तत्र विद्युन्मालीत्विवाम्बुदः।। १३०.८ ।।
 
सुवर्णाविकृतं यत्र मयेन विहितं पुरम्।
स्वयमेव मयस्तत्र गतस्तदधिपः प्रभुः।। १३०.९ ।।
 
तारकस्य पुरं तत्र शतयोजनमन्तरम्।
विद्युन्मालिपुरञ्चापि शतयोजनकेऽन्तरम्।। १३०.१० ।।
 
मेरुपर्वतसङ्काशं मयस्यापि पुरं महत्।
पुष्पसंयोगमात्रेण कालेन समयः पुरा।। १३०.११ ।।
 
कृतवांस्त्रिपुरं दैत्यस्त्रिनेत्रः पुष्पकं यता।
येन येन मयो याति प्रकुर्वाणः पुरं पुरात्।। १३०.१२ ।।
 
प्रशस्तास्तत्र तत्रैव वारुण्यामालयाः स्वयम्।
रुक्मरूप्यायसानाञ्च शतशोऽथ सहस्रशः।। १३०.१३ ।।
 
रत्नाचितानि शोभन्ते पुराण्यमरविद्विषाम्।
प्रासादशतजुष्टानि कूटागारोत्कटानि च।। १३०.१४ ।।
 
सर्वेषां कामगानि स्युः सर्वलोकातिगानि च।
सोद्यानवापीकूपानि सपद्म सरवन्ति च।। १३०.१५ ।।
 
अशोकवनभूतानि कोकिला रुतवन्ति च।
चित्रशालाविशालानि चतुःशालोत्तमानि च।। १३०.१६ ।।
 
सप्ताष्टदशभौमानि सत्कृतानि मयेन च।
बहुध्वजपताकानि स्रग्दामालङ्कृतानि च।। १३०.१७ ।।
 
किङ्किणीजालशब्दानि गन्धवन्ति महान्ति च।
सुसंयुक्तोपलिप्तानि पुष्पनैवेद्यवन्ति च।। १३०.१८ ।।
 
यज्ञधूमान्धकाराणि संपूर्णकलशानि च।
गगनावरणाभानि हंसपङ्क्तिनिभानि च।। १३०.१९ ।।
 
पङ्क्तीकृतानि राजन्ते गृहाणि त्रिपुरे पुरे।
मुक्ताकलापैर्लम्बद्भिर्हसन्तीव शशिश्रियम्।। १३०.२० ।।
 
मल्लिकाजातिपुष्पाद्यैर्गन्धधूपाधिवासितैः।
पञ्चेन्द्रियसुखैर्नित्यं समैः सत्पुरुषैरिव।। १३०.२१ ।।
 
हेमराजतलोहाद्य मणिरत्नाञ्जनाङ्किताः।
प्राकारास्त्रिपुरे तस्मिन् गिरिप्राकारसन्निभाः।। १३०.२२ ।।
 
एकैकस्मिन् पुरे तस्मिन् गोपुराणां शतं शतम्।
सपताका ध्वजवतीर्द्रृश्यन्ते गिरिश्रृङ्गवत्।। १३०.२३ ।।
 
नूपुरारावरम्याणि त्रिपुरे तत् पुराण्यपि।
स्वर्गातिरिक्तश्रीकाणि तत्र कन्या पुराणि च।। १३०.२४ ।।
 
आरामैश्च विहारैश्च तडागवटचत्वरैः।
सरोभिश्च सरिद्भिश्च वनैश्चोपवनैरपि।। १३०.२५ ।।
 
दिव्यभोगोपभोगानि नानारत्नयुतानि च।
पुष्पोत्करैश्च सुभगास्त्रिपुरस्योपनिर्गमाः।। १३०.२६ ।।
 
परिखाशतगम्भीराः कृता मायानिवारणैः।
निशम्य तद्दुर्गविधानमुत्तमं कृतं मयेनाद्भुतवीर्यकर्मणा।
दितेः सुता दैवतराजवैरिणः सहस्रशः प्रापुरनन्तविक्रमाः।। १३०.२७ ।।
 
तदासुरैर्दर्पितवैरिमर्दनैर्जनार्दनैः शैलकरीन्द्रसन्निभैः।
बभूव पूर्णं त्रिपुरं तथा पुरा यथाम्बरं भूरिजलैर्जलप्रदैः।। १३०.२८ ।।
 
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_१३०" इत्यस्माद् प्रतिप्राप्तम्