"मत्स्यपुराणम्/अध्यायः १३९" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
मयस्य युद्धार्थं दानवान्प्रति प्रोत्साहनम्।
 
सूत उवाच।
तारकाख्ये हते युद्धे उत्सार्य प्रमथान् मयः।
उवाच दानवान् भूयो भूयः स तु भयावृतान्।। १३९.१ ।।
 
भोः सुरेन्द्राधुना सर्वे निबोधध्वं प्रभाषितम्।
यत् कर्त्तव्यं मया चैव युष्माभिश्च महाबलैः।। १३९.२ ।।
 
पुष्यं समेष्यते काले चन्द्र चन्द्रश्च निभाननाः।
यदैकं त्रिपुरं सर्वं क्षणमेकं भविष्यति।। १३९.३ ।।
 
कुरुध्वं निर्भया! काले कोकिलाशंसितेन च।
सकालः पुष्ययोगस्य पुरस्य च मया कृतः।। १३९.४ ।।
 
काले तस्मिन् पुरे यस्तु सम्भावयति संहतिम्।
स एनं कारयेच्चूर्णं बलिनैकेषुणा सुरः।। १३९.५ ।।
 
योधां प्राणो बलं यच्च या च वो वैरिता सुराः।!।
तत् कृत्वा हृदये चैव पालयध्वमिदं पुरम्।। १३९.६ ।।
 
महेश्वररथं ह्येकं सर्वप्राणेन भीषणम्।
विमुखीकुर्वर्तात्यर्थं यथा नोत्‌सृजते शरम्।। १३९.७ ।।
 
तत एवं कृतेऽस्माभिस्त्रिपुरस्यापि रक्षणे।
प्रतीक्षिष्यन्ति विवशाः पुष्ययोगं दिवौकसः।। १३९.८ ।।
 
निशम्य तन्मयस्यैवं दानवास्त्रिपुरालयाः।
मुहुः सिंहरवं कृत्वा मयमूचुर्यमोपमाः।। १३९.९ ।।
 
प्रयत्नेन वयं सर्वे कुर्मस्तव प्रभाषितम्।
तथा कुर्मो यथा रुद्रो न मोक्ष्यति पुरे शरम्।। १३९.१० ।।
 
अद्य यास्यामः संग्रामे तद्रुद्रस्य जिघांसवः।
कथयन्ति हितेः पुत्रा हृष्टा भिन्नतनूरुहाः।। १३९.११ ।।
 
कल्पं स्थास्यन्ति वा खस्थं त्रिपुरं शाश्वतं ध्रुवम्।
अदानवं वा भविता नारायणपदत्रयम्।। १३९.१२ ।।
 
वयं स्थास्यन्ति वा खस्थं त्रिपुरं शाश्वतं ध्रुवम्।
अदैवतमदैत्यं वा लोकं द्रक्ष्यन्ति मानवाः।। १३९.१३ ।।
 
इति संमन्त्र्य हृष्टास्ते पुरान्तर्विबुधारयः।
प्रदोषे मुदिता भूत्वा चेरुर्मन्‌मथचारताम्।। १३९.१४ ।।
 
मुहुर्मुक्तोदयो भ्रान्त उदयाग्रं महामणिः
तमांस्युत्सार्य भगवांश्चंद्रो जृम्भति सोऽम्बरम्।। १३९.१५ ।।
 
कुमुदालङ्‌कृते हंसो यथा सरसि विस्तृते।
सिंहो यथा चोपविष्टो वैढूर्यशिखरे महान्।। १३९.१६ ।।
 
विष्णोर्यथा च विस्तीर्णे हारश्चोरसि संस्थितः।
तथावगाढे नभसि चन्द्रो त्रिनयनोद्भवः।।
भ्राजते भ्राजयन् लोकान् सृजत् ज्योत्स्नारसं बलात्।। १३९.१७ ।।
 
शीतांशावुदिते चन्द्रे ज्योत्स्नापूर्णेपुरे सुराः।
प्रदोषे ललितं चक्रुर्गृहमात्मनमेव च।। १३९.१८ ।।
 
रथ्यासु राजमार्गेषु प्रासादेषु गृहेषु च।
दीपाश्चम्पकपुष्पाभा नाल्पस्नेहप्रदीपिताः।।
तदा मठेषु ते दीपाः स्नेहपूर्णाः प्रदीपिताः।। १३९.१९ ।।
 
गृहाणि वसुमन्त्येषां सर्वरत्नमयानि च।
ज्वलतो दीपयन्दीपान् चन्द्रोदयमिव ग्रहाः।। १२९.२० ।।
 
चन्द्रांशुभिर्भासमानमन्तर्दीपैः सुदीपितम्।
उपद्रवैः कुलमिव पीयते त्रिपुरे तमः।। १३९.२१ ।।
 
तस्मिन् पुरे वै तरुणप्रदोषे चन्द्राट्टहासे तरुणप्रदोषे।
रत्यर्थिनो वै दनुजा गृहेषु सहाङ्गनाभिः सुचिरं विरेमुः।। १३९.२२ ।।
 
विनोदिता ये तु वृषध्वजस्य पञ्चेषवस्ते मकरध्वजेन।
तत्रासुरेष्वासुरपुङ्गवेषु स्वाङ्गाङ्गनाः स्वेदयुता बभूवुः।। १३९.२३ ।।
 
कलप्रलापेषु च दानवीनां वीणाप्रलापेषु च मूर्च्छितांस्तु।
मत्तप्रलापेषु च कोकिलानां स चापबाणो मदनो ममन्थ।। १३९.२४ ।।
 
तमांसि नैशानि द्रुतं निहत्य ज्योत्स्ना वितानेन जगद्वितत्य।
खे रोहिणीं ताञ्च प्रियां समेत्य चन्द्रः प्रभाभिः कुरुतेऽधिराज्यम्।। १३९.२५ ।।
 
स्थित्वैव कान्तस्य तु पादमूले काचिद्वरस्त्रीस्वकपोलमूले।
धत्ते विशोकं रुदती करोति तेनाननं स्वं समलङ्करोति।। १३९.२६ ।।
 
द्रृष्ट्वाननं मण्डलदर्पणस्थं महाप्रभा मे मुखजेति जप्त्वा।
स्मृत्वा वरङ्गीरमणेरितानि तेनैव भावेन रतीमवाप।। १३९.२७ ।।
 
रोमाञ्चितैर्गात्रवरैर्युवभ्यो रतानुरागाद्रमणेन चान्याः।
स्वयं द्रुतं यान्ति मदाभिभूताः क्षपा यथा चार्क्कदिनावसाने।। १३९.२८ ।।
 
पेपीयते चातिरसानुविद्धा विमार्गितान् या च प्रियं प्रसन्ना।
काचित्प्रियस्यातिचिरात्प्रसन्ना आसीत्प्रलापेषु च सम्प्रसन्ना।। १३९.२९ ।।
 
गोशीर्षयुक्तैर्हरिचन्दनैश्च पङ्काङ्किताक्षीरधरा सुरीणाम्।
मनोज्ञरूपा रुचिरा बभूवुः पूर्णामृतस्येव सुवर्णकुम्भाः।। १३९.३० ।।
 
क्षताधरोष्ठा द्रुतदोषरक्ता ललन्ति दैत्या दयितासु रक्ताः।
तन्त्रीप्रलापा स्त्रिपुरेषु रक्ताः स्त्रीणां प्रलापेषु पुनर्विरक्ताः।। १३९.३१ ।।
 
क्वचित् प्रवृत्तं मधुराभिगानं कामस्य बाणैः सुकृतं निधानम्।
आपानभूमीषु सुखप्रमेयं गेयं प्रवृत्तन्त्वत साधयन्ति।। १३९.३२ ।।
 
गेयं प्रवृत्तं त्वथ शोधयन्ति केचित् प्रियां तत्र च साधयन्ति।
केचित्‌ प्रियां सम्प्रति बोधयन्ति सम्बुध्य सम्बुध्य च रामयन्ति।। १३९.३३ ।।
 
चूतप्रसूनप्रभवः सुगन्धः सूर्ये गते वै त्रिपुरे बभूव।
समर्मरी नूपुरमेखलानां शब्दश्च सम्बाधति कोकिलानाम्।। १३९.३४ ।।
 
प्रियावगूढा दयितोपगूढा काचित्प्ररूढाङ्गरुहापि नारी।
सुचारुबाष्पाङ्कुरपल्लवानां नवाम्बुसिक्ता इव भूमिरासीत्।। १३९.३५ ।।
 
शशाङ्कपादैरुपशोभितेषु प्रासादवर्येषु वराङ्गनानाम्।
पानेन खिन्नादयितातिवेलङ्कपोलमाघ्रासि च किं ममेदम्।। १३९.३६ ।।
 
आरोह मे श्रोणिमिमां विशालां पीनोन्नताङ्काञ्चनमेखलाढ्याम्।। १३९.३७ ।।
 
रथ्यासु चन्द्रोदयभासितासु सुरेन्द्रमार्गेषु च विस्तृतेषु।
दैत्याङ्गना यूथगता विभान्ति तारा यथा चन्द्रमसो दिवान्ते।। १३९.३८ ।।
 
घण्टाट्टहासेषु च चामरेषु प्रेङ्खासु चान्यामदलोलभावात्।।
सन्दोलयन्ते कलसम्प्रहासाः प्रोवाच काञ्चीगुण-सूक्ष्मनादा।। १३९.३९ ।।
 
अम्लानमालान्वितसुन्दरीणाम् पर्याय एषोऽस्ति च हर्षितानाम्।
श्रूयन्ति वाचः कलधौतकल्पा वापीषु चान्ये कलहंसशब्दाः।। १३९.४० ।।
 
काञ्चीकलापश्च सहाङ्गरागः प्रेङ्खासुत-द्रासकृताश्च भावाः।
छिन्दन्ति तासामसुराङ्गनानाम् प्रियालयान्मन्मथमार्गणानाम्।। १३९.४१ ।।
 
चित्राम्बरश्चोद्धृतकेशपाशः सन्दोल्यमानः शुशुभेऽसुरीणाम्।
सुचारुवेषाभरणैरुपेतस्तारागणैर्ज्योतिरिवास चन्द्रः।। १३९.४२ ।।
 
सन्दोलनादुच्छसितैश्चिन्नसूत्रैः कालीभ्रष्टैर्मणिभिर्विप्रकीर्णैः।
दोलाभूमिस्तैर्विचित्रा विभाति चन्द्रस्य पार्श्वोपगतैर्विचित्रा।। १३९.४३ ।।
 
सचन्द्रिके सोपवने प्रदोषे रुतेषु वृन्देषु च कोकिलानाम्।
शरव्ययं प्राप्य पुरेऽसुराणां प्रक्षीणवाणो मदनश्चचार।। १३९.४४ ।।
 
इति तत्र पुरेऽभविष्यतां सपदि हि पश्चिमकौमुदी तदासीत्।
रणशिरसि पराभविष्यतां वै भवतुरगैः कृतसङ्क्षया अरीणाम्।। १३९.४५ ।।
 
चन्द्रोऽथकुन्दकुसुमाकरहारवर्णो ज्योत्स्ना वितान रहितोऽभ्र समानवर्णः।
विच्छायतां हि समुपेत्य न भाति तद्वद्भाग्यक्षये धनपतिश्च नरो विवर्णः।। १३९.४६ ।।
 
चन्द्रप्रभामरुणसारथिनाभिभूय सन्तप्तकाञ्चनरथाङ्गसमानबिम्बः।
स्थित्वोदयाग्रमुकुटे बहुरेव सूर्य्यो भात्यम्बरे तिमिरतोयवहान्तरिष्यन्।। १३९.४७।।
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_१३९" इत्यस्माद् प्रतिप्राप्तम्