"मत्स्यपुराणम्/अध्यायः १४१" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
अमावास्यामहत्त्वर्णनम्।
 
कथं गच्छत्यमावास्यां मासि मासि दिवं नृप।
ऐलः पुरूरवाः सूत! तर्पयेत कथं पितॄन्।
एतदिच्छामहे श्रोतुं प्रभावन्तस्य धीमतः।। १४१.१ ।।
 
तस्य चाहं प्रवक्ष्यामि प्रभावं विस्तरेण तु।
ऐलस्य दिवि संयोगं सोमेन सह धीमता।। १४१.२ ।।
 
सोमाच्चैवामृतप्राप्तिः पितॄणां तर्पणां तथा।
सौम्या बर्हिषदः काव्या अग्निष्वात्तास्तथैव च।। १४१.३ ।।
 
यदाचन्द्रश्च सूर्य्यश्च नक्षत्राणां समागतौ।
अमावास्यां निवसत एकस्मिन्नथ मण्डले।। १४१.४ ।।
 
तदा स गच्छति द्रष्टुं दिवाकरनिशाकरौ।
अमावास्याममावास्यां मातामहपितामहौ।। १४१.५ ।।
 
अभिवाद्य तु तौ तत्र कालापेक्षः स तिष्ठति।
प्रचस्कन्द ततः सोममर्चयित्वा परिश्रमात्।। १४१.६ ।।
 
ऐलः पुरूरवा विद्वान् मासि श्राद्धचिकीर्षया।
ततः स दिवि सोमं वै ह्युपतस्थे पितॄनपि।। १४१.७ ।।
 
द्विलवङ्कुहुमात्रञ्च तावुभौ तु निधाय सः।
सिनीवाली प्रमाणाल्प कुहुमात्रव्रतोदये।। १४१.८ ।।
कुहूमात्रं पित्रूद्देशं ज्ञात्वा कुहुमुपासते।
तमुपास्य ततः सोमं कलापेक्षी प्रतीक्षते।। १४१.९ ।।
 
स्वधा मृतन्तु सोमाद्वै वसंस्तेषाञ्च तृप्तये।
दशभिः पञ्चभिश्चैव स्वधाऽमृतपरिस्रवैः।।
कृष्णपक्षभुजां प्रीतिर्दुह्यते परमांशुभिः।। १४१.१० ।।
 
सद्योभिक्षरता तेन सौम्येन मधुना च सः।
निवापेष्वथ दत्तेषु पित्र्येण विधिना तु वै।। १४१.११ ।।
 
स्वधा मृतेन सौम्येन तर्पयामास वै पितॄन्।
सौम्या बर्हिषदः काव्या अग्निष्वात्तास्तथैव च।। १४१.१२ ।।
 
ऋतुरग्नि स्मृतो विप्रैर्ऋतुं सम्वत्सरं विदुः।
जज्ञिरे ऋतवस्तस्माद्रृतुभ्यो ह्यार्त्तवाभवन्।। १४१.१३ ।।
 
पितरोर्त्तवोर्द्धमासा विज्ञेया ऋतुसूनवः।
पितामहास्तु ऋतवो ह्यमावास्याब्दसूनवः।।
प्रपितामहाः स्मृता देवाः पञ्चाब्दं ब्रह्मणः सुताः।। १४१.१४ ।।
 
सौम्याबर्हिषदः काव्या अग्निष्वात्ता इति त्रिधा।
गृहस्था ये तु यज्वानो हविर्यज्ञार्त्तवाश्च ये।।
स्मृता बर्हिषदस्ते वै पुराणे निश्चयं गताः।। १४१.१५ ।।
 
गृहमेधिनश्च यज्वानो अग्निष्वात्तार्त्तवाः स्मृताः।
अष्टका पतयः काव्याः पञ्चाब्दांस्तु निबोधत।। १४१.१६ ।।
तेषु सम्वत्सरो ह्यग्निः सूर्य्यस्तु परिवत्सरः।
सोमस्त्विड्‌ वत्सरश्चैव वायुश्चैवानुवत्सरः।। १४१.१७ ।।
 
रुद्रस्तु वत्सरस्तेषां पञ्चाब्दाये युगाल्पकाः।
कालेनाधिष्ठितस्तेषु चन्द्रमाः स्रवते सुधाम्।। १४१.१८ ।।
 
एते स्मृता देवकृत्याः सोमपाश्चोष्मपाश्च ये।
तांस्तेन तर्पयामास यावदासीत्पुरूरवाः।। १४१.१९ ।।
 
यस्मात्प्रसूयते सोमो मासि मासि विशेषतः।
ततः स्वधामृतं तद्वै पितॄणां सोमपायिनाम्।।
एतत्तदमृतं सोममवाप मधु चैव हि।। १४१.२० ।।
 
ततः पीतसुधं सोमं सूर्योऽसावेकरश्मिना।
आप्यायते सुषुम्णेन सोमन्तु सोमपायिनम्।। १४१.२१ ।।
 
निः शेषावैकलाः पूर्वा युगपद्‌ व्यापयन्‌ पुरा।
सुषुम्णाप्यायमानस्य भागं भागमहः क्रमात्।। १४१.२२ ।।
 
कलाः क्षीयन्ति कृष्णास्ताः शुक्ला ह्याप्याययन्ति च।
एवं सा सूर्यवीर्येण चन्द्रस्याप्यायिता तनुः।। १४१.२३ ।।
 
पौर्णमास्यां सद्रृश्येत शुक्लः सम्पूर्णमण्डलः।
एवमाप्यायितः सोमः शुक्लपक्षेप्यहः क्रमात्।।
देवैः पीतसुधं सोमं पुरा पश्चात् पिबेद्रविः।। १४१.२४ ।।
 
पीतं पञ्चदशाहन्तु रश्मिनैकेन भास्करः।
आप्याय यत् सुषुम्णेन भागं भागमहः क्रमात्।। १४१.२५ ।।
 
सुषुम्णाप्यायमानस्य शुक्लावर्द्धन्ति वै कलाः।
तस्माद्‌ध्रसन्ति वै कृष्णाः शुक्लाप्याययन्ति च।। १४१.२६ ।।
 
एवमाप्यायते सोमः क्षीयते च पुनः पुनः।
समृद्धिरेवं सोमस्य पक्षयोः शुक्लकृष्णयोः।। १४१.२७ ।।
 
इत्येष पितृमान् सोमः स्मृतस्तद्वत् सुधात्मकः।
कान्तः पञ्चदशैः सार्द्धं सुधामृतपरिस्रवैः।। १४१.२८ ।।
 
अतः परं प्रवक्ष्यामि पर्वाणां सन्धयश्च याः।
यथा ग्रथ्नन्ति पर्वाणि आवृत्तादिक्षुवेणुवत्।। १४१.२९ ।।
 
तथाब्दमासाः पक्षाश्च शुक्लाः कृष्णास्तु वै स्मृताः।।
पौर्णमास्यास्तु यो भेदो ग्रन्थयः सन्धयस्तथा।। १४१.३० ।।
 
अर्द्धमासस्य पर्वाणि द्वितीयाप्रभृतीनि च।
अग्न्याधानक्रिया यस्मान्नीयन्ते पर्वसन्धिषु।। १४१.३१ ।।
 
तस्मात्तु पर्वणोह्यादौ प्रतिपद्यादि सन्धिषु।
सायाह्ने अनुमत्याश्च द्वौलवौ काल उच्यते।।
लवौ द्वावेव राकायाः कालो ज्ञेयोऽपराह्णिकः।। १४१.३२ ।।
 
प्रकृतिः कृष्णपक्षस्य कालेऽतीतेऽपराह्णिके।
सायाह्ने प्रतिपद्येष स कालः पौर्णमासिकः।। १४१.३३ ।।
 
व्यतीपाते स्थिते सूर्ये लेखादूद्‌र्ध्वं युगान्तरम्।
युगान्तरोदिते चैवचन्द्रे लेखोपरिस्थिते।। १४१.३४ ।।
 
पूर्णमासव्यतीपातौ यदा पश्येत्परस्परम्।
तौ तु वै प्रतिपद्यावत् तस्मिन्‌ काले व्यवस्थितौ।। १४१.३५ ।।
 
तत्कालं सूर्यमुद्दिश्य द्रृष्ट्वा संख्यातुमर्हसि।
स चैव सत्क्रियाकालः षष्ठाकालोऽभिधीयते।। १४१.३६ ।।
 
पूर्णन्दुः पूर्णपक्षे तु रात्रिसन्धिषु पूर्णिमा।
तस्मादाप्यायते नक्तं पौर्णमास्यां निशाकरः।। १४१.३७ ।।
 
यदान्योन्यवतीं पाते पूर्णिमां प्रेक्षते दिवा।
चन्द्रादित्योऽपराह्णे तु पूर्णत्वात् पूर्णिमा स्मृता।। १४१.३८ ।।
 
यस्मात्तामनुमन्यन्ते पितरो दैवतैः सह।
तस्मादनुमतिर्नाम पूर्णत्वात् पूर्णिमा स्मृता।। १४१.३९ ।।
 
अत्यर्थं राजते यस्मात् पौर्णमास्यां निशाकरः।
रञ्जनाच्चैव चन्द्रस्य राकेति कवयो विदुः।। १४१.४० ।।
 
अमावसेतामृक्षे तु यदा चन्द्रदिवाकरौ।
एका पञ्चदशी रात्रिरमावास्या ततः स्मृता।। १४१.४१ ।।
 
उद्दिश्य ताममावास्यां यदा दर्शं समागतौ।
अन्योऽन्यं चन्द्रसूर्य्यौ तु दर्शनाद्दर्श उच्यते।। १४१.४२ ।।
 
द्वौ द्वौः लवावमावास्यां स कालः पर्वसन्धिषु।
द्व्यक्षरः कुहूमात्रश्च पर्वकालस्तु स स्मृतः।। १४१.४३ ।।
 
द्रृष्टचन्द्रा त्वमावास्या मध्याह्नप्रभृतीह वै।
दिवा तदूद्‌र्ध्वं रात्र्यान्तु सूर्ये प्राप्ते तु चन्द्रमाः।। १४१.४४ ।।
 
सूर्येण सहसोद्गच्छेत्ततः प्रातस्तनात्तु वै।। १४१.४५ ।।
 
समागम्य लवौ द्वौ तु मध्याह्नान्निपतन्रविः।
प्रतिपच्छुक्लपक्षस्य चन्द्रमाः सूर्य्यमण्डलात्।। १४१.४६ ।।
 
निर्मुच्यमानयोर्मध्ये तयोर्मण्डलयोस्तु वै।
स तदान्वाहुतेः कालो दर्शस्य च वषट्‌क्रियाः।।
एतद्रृतुमुखं ज्ञेयममावास्यान्तु पार्वणम्।। १४१.४७ ।।
 
दिवा पर्व त्वमावास्यां क्षीणेन्दौ धवले तु वै।
तस्माद्दिवा त्वमावास्यां गृह्यते यो दिवाकरः।। १४१.४८ ।।
 
कुहेति कोकिलेनोक्तं यस्मात् कालात् समाप्यते।
तत्कालं संज्ञिता ह्येषा अमावास्या कुहूः स्मृता।। १४१.४९ ।।
 
सिनीवालीप्रमाणन्तु क्षीणशेषो निशाकरः।
अमावास्या विशत्यर्कं सिनीवाली तदा स्मृता।। १४१.५० ।।
 
अनुमतिश्च राका च सिनीवाली कुहूस्तथा।
एतासां द्विलवः कालः कुहूमात्रा कुहूः स्मृता।। १४१.५१ ।।
 
इत्येष पर्वसन्धीनां कालो वै द्विलवः स्मृतः।
पर्वाणान्तुल्यकालस्तु तुल्याहुति वषट्‌क्रियाः।। १४१.५२ ।।
 
चद्रसूर्य्यव्यतीपाते समे वै पूर्णिमे उभे।
प्रतिपत्प्रतिपन्नस्तु पर्वकालो द्विमात्रकः।। १४१.५३ ।।
 
कालः कुहूसिनीवाल्योः समुद्धो द्विलवः स्मृतः।
अर्कनिर्मण्डले सोमे पर्वकालः कलाः स्मृताः। १४१.५४ ।।
 
यस्मात् पूर्यते सोमः प़ञ्चदश्यान्तु पूर्णिमा।
दशभिः पञ्चभिश्चैव कलाभिर्दिवसक्रमात्।। १४१.५५ ।।
 
तस्मात् पञ्चदशे सोमे कला वै नास्ति षोडशी।
तस्मात् सोमस्य विप्रोक्तः पञ्चदश्यां मया क्षयः।। १४१.५६ ।।
 
इत्येते पितरो देवाः सोमपाः सोमवर्द्धनाः।
आर्त्तवा ऋतवोऽथाब्दा देवास्तान् भावयन्ति हि।। १४१.५७ ।।
 
अतः परं प्रवक्ष्यामि पितॄन् श्राद्धभुजस्तु ये।
तेषां गतिञ्च सत्तत्त्वं प्राप्तिं श्राद्धस्य चैव हि।। १४१.५८ ।।
 
न मृतानाङ्गतिः शक्या ज्ञातुं वा पुनरागतिः।
 
तपसा हि प्रसिद्धेन किं पुनर्मांसचक्षुषा।। १४१.५९ ।।
 
अत्र देवान् पितॄंश्चैते पितरो लौकिकाः स्मृताः।
तेषान्ते धर्म्मसामर्थ्यात् स्मृताः सायुज्यगा द्विजैः।। १४१.६० ।।
 
यदि वाश्रमधर्मेण प्रज्ञानेषु व्यवस्थितान्।
अन्ये चात्र प्रसीदन्ति श्राद्धयुक्तेषु कर्म्मसु।। १४१.६१ ।।
 
ब्रह्मचर्येण तपसा यज्ञेन प्रजया भुवि।
श्राद्धेन विद्यया चैव चान्नदानेन सप्तधा।। १४१.६२ ।।
 
कर्म्मस्वेतेषु ये सक्तावर्त्तन्त्या देहपातनात्।
देवैस्ते पितॄभिः सार्द्धमूष्मपैः सोमपैस्तथा।।
स्वर्गता दिवि मोदन्ते पितृमन्त उपासते।। १४१.६३ ।।
 
प्रजावतां प्रसिद्धैषा उक्ताश्राद्धकृताञ्च वै।
तेषां निवापेदत्तं हि तत् कुलीनैस्तु बान्धवैः।। १४१.६४ ।।
 
मासश्राद्धं हि भुञ्जानास्तेऽप्येते सोमलौकिकाः।
एते मनुष्याः पितरो मासश्राद्धभुजस्तु वै।। १४१.६५ ।।
 
तेभ्योऽपरे येत्वन्ये सङ्कीर्णाः कर्मयोनिषु।
भ्रष्टाश्चाश्रमधर्मेषु स्वधा स्वाहा विवर्जिताः।। १४१.६६ ।।
 
भिन्ने देहे द्वुरापन्नाः प्रेतभूता यमक्षये।
स्वकर्माण्यनुशोचन्तो यातनास्थानमागताः।।१४१.६७ ।।
 
दीर्घाश्चैवातिशुष्काश्च श्मश्रुलाश्च विवाससः।
क्षुत्पिपासाभिभूतास्ते विद्रवन्ति त्वितस्ततः।। १४१.६८ ।।
 
सरित्‌सरस्तडागानि पुष्करिष्णश्च सर्वशः।
परान्नान्यभिकाङ्क्षन्तः काल्यमाना इतस्ततः।। १४१.६९ ।।
 
स्थानेषु पात्यमाना ये यातनास्थेषु तेषु वै।
शाल्मल्यां वै तरिण्याञ्च कुम्भीपाकेद्धवालुके।। १४१.७० ।।
 
असिपत्रवने चैव यात्यमानाः स्वकर्मभिः।
तत्रस्थानान्तु तेषां वै दुःखितानामशायिनाम्।। १४१.७१ ।।
 
तेषां लोकान्तरस्थानां बान्धवैर्नामगोत्रतः।
भूमावसव्यं दर्भेषु दत्ताः पिण्डास्त्रयस्तु वै।। १४१.७२ ।।
 
प्राप्तांस्तु तर्पयन्त्येव प्रेतस्थानेष्वधिष्ठितान्।
अप्राप्ता यातनास्थानं प्रभ्रष्टा ये च पञ्चधा।। १४१.७३ ।।
 
तेषां लोकान्तरस्थानां बान्धवैर्नामगोत्रतः।
भूमावसव्यं दर्भेषु दत्ताः पिण्डास्त्रयस्तु वै।। १४१.७४ ।।
 
प्राप्तांस्तु तर्पयन्त्येव प्रेतस्थानेष्वधिष्ठितान्।
अप्राप्ता यातनास्थानं प्रभ्रष्टा ये च पञ्चधा।। १४१.७५ ।।
 
पश्चाद्ये स्थावरान्ते वै भूतानीके स्वकर्मभिः।
नानारूपासु जातीनां तिर्यग्योनिषुमूर्त्तिषु।। १४१.७६ ।।
 
यदाहारा भवन्त्येते तासु तास्विह योनिषु।
तस्मिंस्तस्मिंस्तदाहारे श्राद्धं दत्तन्तु प्रीणयेत्।। १४१.७७ ।।
 
काले न्यायागतम्पात्रे विधिना प्रतिपादितम्।
प्राप्नुवन्त्यन्नमादत्तं यत्र यत्रावतिष्ठति।। १४१.७८ ।।
 
यथा गोषु प्रनष्टासु वत्सो विन्दति मातरम्।
तथा श्राद्धेषु द्रृष्टान्तो मन्त्रः प्रापयते तु तम्।। १४१.७९ ।।
 
एवं ह्यविकलं श्राद्धं श्रद्धा दत्तं मनुरब्रवीत्।
सनत्कुमारः प्रोवाच पश्यन् दिव्येन चक्षुषा।। १४१.८० ।।
 
गतागतज्ञः प्रेतानां प्राप्तिः श्राद्धस्य चैव हि।
कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी।। १४१.८१ ।।
 
इत्येते पितरो देवा देवाश्च पितरश्च वै।
अन्योन्यपितरो ह्येते देवाश्च पितरो दिवि।। १४१.८२ ।।
 
एते तु पितरो देवा मनुष्याः पितरश्च ये।
पिता पितामहश्चैव तथैव प्रपितामहः।। १४१.८३ ।।
 
इत्येष विषयः प्रोक्तः पितॄणां सोमपायिनाम्।
एतत् पितृमहत्त्वं हि पुराणे निश्चयं गतम्।। १४१.८४ ।।
इत्येष सोमसूर्य्याभ्यामैलस्य च समागमः।
अवाप्तिं श्रद्धया चैवं पितॄणाञ्चैव तर्पणम्।। १४१.८५ ।।
 
पर्वणाञ्चैव यः कालो यातना स्थानमेव च।
समासात् कीर्तितस्तुभ्यं सम एष सनातनः।। १४१.८६ ।।
 
वैरूप्यं येन तत्सर्वं कथितन्त्वेकदेशिकम्।
अशक्यं परिसंख्यातुं श्रद्धेयं भूतिमिच्छता।। १४१.८७ ।।
 
स्वायम्भुवस्य देवस्य एष सर्गो मयेरितः।
विस्तरेणानुपूर्व्याच्च भूयः किं कथयामि वः।। १४१.८८ ।।
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_१४१" इत्यस्माद् प्रतिप्राप्तम्