"मत्स्यपुराणम्/अध्यायः २००" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
वशिष्ठवंशजान् विप्रान् नामगोत्रवंशप्रवरवर्णनम्।
मत्स्य उवाच।
वसिष्ठवंशजान् विप्रान् निबोध वदतो मम।
एकार्षेयस्तु प्रवरो वासिष्ठानां प्रकीर्तितः ।। २००.१ ।।
 
वसिष्ठा एव वासिष्ठा अविवाह्या वसिष्ठजैः।
व्याघ्रपादा औपगवा वैक्लवाः शाद्वलायनाः ।। २००.२ ।।
 
कपिष्ठला औपलोमा अलब्धाश्च षठाः कठाः।
गौपयाना बोधपाश्च दाकव्या ह्यथ वाह्यकाः ।। २००.३ ।।
 
वालिशयाः पालिशयास्ततो वाग्ग्रन्थयश्चये।
आपस्थूणाः शीतवृत्ताः तथा ब्राह्म पुरेयकाः ।। २००.४ ।।
 
लोमायनाः स्वस्तिकराः शाण्डिलिर्गौडिनिस्तथा।
वाडोहलिश्च सुमनाश्चोपावृद्धिस्तथैव च ।। २००.५ ।।
 
चौलिर्वौलिर्ब्रह्मबलः पौलिः श्रवस एव च।
पौड़वो याज्ञवल्क्यश्च एकार्षेया महर्षयः ।। २००.६ ।।
 
वसिष्ठ एषां प्रवर अवैवाह्याः परस्परम्।
शैलालयो महाकर्णः कौरव्यः क्रोधिनस्तथा ।। २००.७ ।।
 
कपिञ्जला वालखिल्या भागवित्तायनाश्च ये।
कीलायनः कालशिखः कोरकृष्णाः सुरायणाः ।। २००.८ ।।
 
शाकाहार्याः शाकधियः काण्वा उपलपाश्च ये।
शाकायना उहाकाश्च अथ माषशरावयः ।। २००.९ ।।
 
दाकायना वालवयो वाकयो गोरथास्तथा।
लम्बायनाः श्यामवयो ये चकोडोदरायणाः ।। २००.१० ।।
 
प्रलम्बायनाश्च ऋषय औपमन्यव एव च।
साङ्ख्यायनाश्च ऋषयस्तथा वै वेदशेरकाः ।। २००.११ ।।
 
पालङ्कायन उद्गाहा ऋषयश्च बलेक्षवः।
मातेया ब्रह्मबलिनः पर्णागारिस्तथैव च ।। २००.१२ ।।
 
त्र्यार्षेयोऽभिमतश्चैषां सर्वेषां प्रवरस्तथा।
भिगीवसुर्वशिष्ठश्च इन्द्रप्रमदिरेव च ।। २००.१३ ।।
 
परस्परमवैवाह्या ऋषयः परिकीर्तिताः।
औपस्थलास्वस्थलयो पालोहालो हलाश्च ये।। २००.१४ ।।
 
माध्यन्दिनो माक्षतयः पैप्पलादिर्विचक्षुषः।
त्रैश्रृङ्गायन सैवल्काः कुण्डिनश्च नरोत्तम!।। २००.१५ ।।
 
त्र्यार्षेयाभिमताश्चैषां सर्वेषां प्रवराः शुभाः।
वसिष्ठमित्रावरुणौ कुण्डिनश्च महातपाः ।। २००.१६ ।।
 
परस्परमवैवाह्या ऋषयः परिकीर्तिताः।
शिवकर्णो वयश्चैव पादपश्च तथैव च ।। २००.१७ ।।
 
त्र्यार्षेयोऽभिमतश्चैषां सर्वेषां प्रवरस्तथा।
जातूकर्ण्यो वसिष्ठश्च तथैवात्रिश्च पार्थिव !
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।। २००.१८ ।।
 
वसिष्ठवंशेऽभिहिता मयैते ऋषिप्रधानाः सततं द्विजेन्द्राः।
येषां तु नाम्ना परिकीर्तितेन पापं समग्रं पुरुषो जहाति ।। २००.१९ ।।
 
 
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_२००" इत्यस्माद् प्रतिप्राप्तम्