"मत्स्यपुराणम्/अध्यायः २०२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
अतः परमगस्त्यस्य वक्ष्ये वंशोद्भवान् द्विजान्।
अगस्त्यश्च करम्भश्च कौशल्यः करटस्तथा ।। २०२.१ ।।
 
सुमेधसो मयोभुवस्तथा गान्धारकायणाः।
पौलस्त्याः पौलहाश्चैव क्रतुवंशभवास्तथा ।। २०२.२ ।।
 
आर्षेयाभिमताश्चैषां सर्वेषां प्रवराः शुभाः।
अगस्त्यश्च महेन्द्रश्च ऋषिश्चैव मयोभुवः ।। २०२.३ ।।
 
परस्परमवैवाह्या ऋषयः परिकीर्तिताः।
पौर्णमासाः पारणाश्च आर्षेयाः परिकीर्तिताः ।। २०२.४ ।।
 
अगस्त्यः पौर्णमासश्च पारणश्च महातपाः।
परस्परमवैवाह्याः पौर्णमासास्तु पारणैः।। २०२.५ ।।
 
एवमुक्तो ऋषीणान्तु वंश उत्तमपौरुषः।
अत परं प्रवक्ष्यामि किम्भवानद्य कथ्यताम् ।। २०२.६ ।।
 
मनुरुवाच।
पुलहस्य पुलस्त्यस्य क्रतोश्चैवमहात्मनः।
अगस्त्यस्य तथा चैव कथं वंशस्तदुच्यताम् ।। २०२.७ ।।
 
मत्स्य उवाच।
क्रतुः खल्वनपत्योऽभूद्राजन्वैवस्वतेऽन्तरै।
इध्मवाहं स पुत्रत्वे जग्राह ऋषिसत्तमः ।। २०२.८ ।।
 
अगस्त्यपुत्रं धर्मज्ञं आगस्त्याः क्रतवस्ततः।
पुलहस्य तथा पुत्रास्त्रयश्च पृथिवीपते! ।। २०२.९ ।।
 
तेषान्तु जन्म वक्ष्यामि उत्तरत्र यथाविधि।
पुलहस्तु प्रजां दृष्ट्वा नातिप्रीतमनाः स्वकाम् ।। २०२.१० ।।
 
अगस्त्यजं दृढास्यन्तु पुत्रत्वे वृतवांस्ततः।
पौलहाश्च तथा राजन्! आगस्त्याः परिकीर्तिताः ।। २०२.११ ।।
 
पुलस्त्यान्वयसम्भूतान् दृष्ट्वा रक्षः समुद्भवान्।
अगस्त्यस्य सुतान् धीमान् पुत्रत्वे वृतवांस्ततः ।। २०२.१२ ।।
 
पौलस्त्याश्च तथा राजन्नागस्त्याः परिकीर्तिताः।
सगोत्रत्वादिमे सर्वे परस्परमनन्वयाः ।। २०२.१३ ।।
 
एते तवोक्ताः प्रवरा द्विजानीं महानुभावा नृपवंशकाराः।
एषान्तु नाम्ना परिकीर्तितेन पापं समग्रं पुरुषो जहाति ।। २०२.१४ ।।
 
 
 
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_२०२" इत्यस्माद् प्रतिप्राप्तम्