"मत्स्यपुराणम्/अध्यायः २०४" इत्यस्य संस्करणे भेदः
Content deleted Content added
<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती |
No edit summary |
||
पङ्क्तिः १:
<poem>
मनुमत्स्यसंवादे पितृगाथावर्णनम्।
मत्स्य उवाच।
एतद्वंशभवा विप्राः श्राद्धे भोज्याः प्रयत्नतः।
पितॄणां वल्लभं यस्मादेषु श्राद्धं नरेश्वर! ।। २०४.१ ।।
अतः परं प्रवक्ष्यामि पितृभिर्याः प्रकीर्तिताः।
गाथाः पार्थिवशार्दूल! कामयद्भिः पुरे स्वके ।। २०४.२ ।।
अपि स्यात्स कुलेऽस्माकं यो नो दद्याज्जलाञ्जलिम्।
नदीषु बहुतो यासु शीतलासु विशेषतः ।। २०४.३ ।।
अपि स्यात्स कुलेऽस्माकं यः श्राद्धं नित्यमाचरेत्।
पयोमूलफलैर्भक्ष्ये स्तिलतोयेन वा पुनः ।। २०४.४ ।।
अपि स्यात्सकुलेऽस्माकं योनो दद्यात्त्रयोदशीम्।
पायसं मधुसर्पिभ्यां वर्षासु च मघासु च ।। २०४.५ ।।
अपि स्यात्स कुलेऽस्माकं खड्गमांसेन यः सकृत्।
श्राद्धं कुर्यात्प्रयत्नेन कालशाकेन वा पुनः ।। २०४.६ ।।
कालशाकं महाशाकं मधु मुन्यन्नमेव च।
विषाणवर्जा ये खड्गा आसूर्यं तदशीमहि ।। २०४.७ ।।
गयायां दर्शने राहोः खड्गमांसेन योगिनाम्।
भोजयेत्कः कुलेऽस्माकं च्छायायां कुञ्जरस्य च ।। २०४.८ ।।
आकल्पकालिकी तृप्तिस्तेनास्माकं भविष्यति।
दाता सर्वेषु लोकेषु कामचारो भविष्यति ।। २०४.९ ।।
आभूतसंप्लवं कालं नात्र कार्या विचारणा।
यदेतत्पञ्चकं तस्मादेकेनापि च यः सदा ।। २०४.१० ।।
तृप्तिं प्राप्स्याम चानन्तां किं पुनः सर्वसम्पदा।
अपि स्यात्स कुलेऽस्माकं दद्यात् कृष्णाजिनञ्च यः ।। २०४.११ ।।
अपि स्यात्स कुलेऽस्माकं कश्चित् पुरुषसत्तमः।
प्रसूयमानां यो धेनुं दद्यात् ब्राह्मणपुङ्गवे ।। २०४.१२ ।।
अपि स्यात्स कुलेऽस्माकं वृषभं यः समुत्सृजेत्।
सर्ववर्णविशेषेण शुक्लनीलं वृषन्तथा ।। २०४.१३ ।।
अपि स्यात्स कुलेऽस्माकं यः कुर्यात् श्रद्धयान्वितः।
सुवर्णदानं गोदानं पृथिवीदानमेव च ।। २०४.१४ ।।
अपि स्यात्स कुलेऽस्माकं कश्चित् पुरुषसत्तमः।
कूपारामतडागानां वापीनां यश्च कारकः ।। २०४.१५ ।।
अपि स्यात्स कुलेऽस्माकं सर्वभावेन यो हरिम्।
प्रयायाच्छरणं विष्णुं देवेशं मधुसूदनम् ।। २०४.१६ ।।
अपिनः सकुले भूयात् कश्चिद्विद्वान् विचक्षणः।
धर्मशास्त्राणि यो दद्याद् विधिना विदुषामपि ।। २०४.१७ ।।
एतावदुक्तं तव भूमिपाल! श्राद्धस्य कल्पं मुनिसम्प्रदिष्टम्।
पापापहं पुण्यविवर्द्धनञ्च लोकेषु मुख्यत्वकरन्तथैव ।। २०४.१८ ।।
</poem>
|