"मत्स्यपुराणम्/अध्यायः २०७" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
वृषोत्सर्गविधिवर्णनम्।
मनुरुवाच।
भगवंच्छ्रोतुमिच्छामि वृषभस्य च लक्षणम्।
वृषोत्सर्गविधिञ्चैव तथा पुण्यफलं महत् ।। २०७.१ ।।
 
मत्स्य उवाच।
धेनुमादौ परीक्षेत सुशीलाञ्च गुणान्विताम्।
अव्यङ्गामपरिक्लिष्टां जीववत्सामरोगिणीम् ।। २०७.२ ।।
 
स्निग्धवर्णां स्निग्धखुरां स्निग्ध श्रृङ्गीं तथैव च।
मनोहराकृतिं सौम्यां सुप्रमाणामनुद्धताम् ।। २०७.३ ।।
 
आवर्तैर्दक्षिणावर्तैर्युक्तां दक्षिणतस्तथा।
वामावर्तैर्वामतश्च विस्तीर्ण जघनां तथा ।। २०७.४ ।।
 
मृदुसंहतताम्रेष्ठीं रक्तग्रीवासुशोभिताम्।
अश्यामदीर्घास्फुटिता रक्तजिह्वा तथा च या ।। २०७.५ ।।
 
विस्रावामलनेत्रा च शफैरविरलैर्दृढ़ैः।
वैढूर्यमधुवर्णैश्च जलबुद्बुदसन्निभैः ।। २०७.६ ।।
 
रक्तस्निग्धैश्च नयनैस्तथा रक्तकनीनिकैः।
सप्त चतुर्दशदन्ता च तथा वा श्यामतालुका ।। २०७.७ ।।
 
षडुन्नता सुपार्श्वोरुः पृथुपञ्चसमायता।
अष्टायतशिरोग्रीवा या राजन्! सा सुलक्षणा ।। २०७.८ ।।
 
मनुरुवाच।
षडुन्नताः के भगवन्! के च पञ्चसमायताः।
आयाताश्च तथैवाष्टौ धेनूनाङ्के शुभावहाः ।। २०७.९ ।।
 
मत्स्य उवाच।
उरः पृष्ठं शिरः कुक्षी श्रोणी च वसुधाधिप!।
षडुन्नतानि धेनूनां पूजयन्ति विचक्षणाः ।। २०७.१० ।।
 
कर्णौ नेत्रे ललाटञ्च पञ्चभास्करनन्दन!।
समायतानि शस्यन्ते पुच्छं सास्ना च सक्थिनी ।। २०७.११ ।।
 
चत्वारश्चस्तना राजन्! ज्ञेया ह्यष्टौ मनीषिभिः।
शिरोग्रीवायताश्चैते भूमिपाल! दशस्मृताः ।। २०७.१२ ।।
 
तस्याः सुतं परीक्षेत वृषभं लक्षणान्वितम्।
उन्नतस्कन्धककुदं ऋजुलाङ्गूलकम्बलम् ।। २०७.१३ ।।
 
महाकटितटस्कन्धं वैढूर्यमणिलोचनम्।
प्रवालगर्भश्रृङ्गाग्रं सुदीर्घ पृथुबालधिम् ।। २०७.१४ ।।
 
नवाष्टादशसङ्ख्यैर्वा तीक्ष्णाग्रैर्दर्शनैः शुभैः।
मल्लिकाक्षश्च मोक्तव्यो गृहेऽपि धनधान्यदः ।। २०७.१५ ।।
 
वर्णतस्ताम्रकपिलो ब्राह्मणस्य प्रशस्यते।
श्वेतोरक्तश्च कृष्णश्च गौरः पाटक एव च ।। २०७.१६ ।।
 
श्रृङ्गिणस्ताम्रपृष्ठश्च शबलः पञ्चबालकैः।
पृथुकर्णौ महास्कन्धः श्लक्ष्णरोमा च यो भवेत्
रक्ताक्षः कपिलो यश्च रक्तश्रृङ्गतलो भवेत् ।। २०७.१७ ।।
 
श्वेतोदरः कृष्णपार्श्वो ब्राह्मणस्य तु शस्यते।
स्निग्धा रक्तेन वर्णेन क्षत्रियस्य प्रशस्यते ।। २०७.१८ ।।
 
काचनाभेन वैश्यस्य कृष्णेनाप्यन्त्यजन्मनः।
यस्य प्रागायते शृङ्गे भ्रूमुखाभिमुखे सदा ।। २०७.१९ ।।
 
सर्वेषामेव वर्णानां सर्वः सर्वार्थसाधकः।
मार्जारपादः कपिलो धन्यः कपिल पिङ्गलः ।। २०७.२० ।।
 
श्वेतो मार्जारपादस्तु धन्यो मणि निभेक्षणः।
करटः पिङ्गलश्चैव श्वेतपादस्तथैव च ।। २०७.२१ ।।
 
सर्वापादसितो यश्च द्विपादः सत्य एव च।
कपिञ्जलनिभो धन्यस्तथा तित्तिरिसन्निभः ।। २०७.२२ ।।
 
आकर्णमूलश्वेतन्तु मुखं यस्य प्रकाशते।
नन्दीमुखः स विज्ञेयो रक्तवर्णो विशेषतः ।। २०७.२३ ।।
 
श्वेतन्तु जठरं यस्य भवेत् पृष्ठं च गोपतेः।
वृषभः स समुद्राख्यः सततं कुलवर्धनः ।। २०७.२४ ।।
 
मल्लिकापुष्पचित्रश्च धन्यो भवति पुङ्गवः।
कमलैर्मण्डलैश्चापि चित्रो भवति भाग्यदः ।। २०७.२५ ।।
 
अतसीपुष्पवर्णश्च तथा धन्यतरः स्मृतः।
एते धन्यास्तथा धन्यान् कीर्तयिष्यामि ते नृप! ।। २०७.२६ ।।
 
कृष्ण ताल्वोष्ठवदना रूक्षश्रृङ्ग शफाश्च ये।
अव्यक्तवर्ण ह्रस्वाश्च व्याघ्रसिंह-निभाश्च ये।। २०७.२७ ।।
 
ध्वाङ्क्ष गृध्र सवर्णाश्च तथा मूषकसन्निभाः।
कुण्ठाः काणास्तथा खञ्जाः केकराक्षास्तथैव च ।। २०७.२८ ।।
 
विषमश्वेतपादाश्च उद्भ्रान्तनयनास्तथा।
नैते वृषाः प्रमोक्तव्या न च धार्यास्तथा गृहे ।। २०७.२९ ।।
 
मोक्तव्यानाञ्च धार्याणां तेषां वक्ष्यामि लक्षणम्।
स्वस्तिकाकारश्रृङ्गाश्च तथा मेघौघनिस्वनाः ।। २०७.३० ।।
 
महाप्रमाणाश्च तथा मत्तमातङ्गगामिनः।
महोरस्का महोच्छ्राया महाबलपराक्रमाः ।। २०७.३१ ।।
 
शिरः कर्णौ ललाटञ्च बालधिश्चरणास्तथा।
नेत्रे पार्श्वे च कृष्णानि शस्यन्ते चन्द्रभासिनाम् ।। २०७.३२ ।।
 
श्वेतान्येतानि शस्यन्ते कृष्णस्य तु विशेषतः।
भूमौ कर्षति लाङ्गूलं प्रलम्बस्थूलबालधीः ।। २०७.३३ ।।
 
पुरस्तादुद्यतो नीलो वृषभश्च प्रशस्यते।
शक्तिध्वजपताकाढ्या येषां राजी विराजते ।। २०७.३४ ।।
 
अनड्वाहस्तु ते धन्याश्चित्रसिद्धिजयावहाः।
प्रदक्षिणं निवर्तन्ते स्वयं ये विनिवर्तिताः ।। २०७.३५ ।।
 
समुन्नतशिरोग्रीवा धन्यास्ते यूथवर्द्धनाः।
रक्तश्रृङ्गाग्रनयनः श्वेतवर्णो भवेद्यदि ।। २०७.३६ ।।
 
शफैः प्रवालसदृशैर्नास्ति धन्यतरस्ततः।
एते धार्य्याः प्रयत्नेन मोक्तव्या यदि वा वृषाः।। २०७.३७ ।।
 
धारिताश्च तथा मुक्ता धनधान्यप्रवर्द्धनाः।
चरणानि मुखं पुच्छं यस्य श्वेतानि गोपतेः ।। २०७.३८ ।।
 
लाक्षारस-सवर्णश्च तं नीलमिति निर्दिशेत्।
वृष एष स मोक्तव्यो न सन्धार्यो गृहे भवेत् ।। २०७.३९ ।।
 
तदर्थमेषा चरति लोके गाथा पुरातनी।
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।। २०७.४० ।।
 
गौरीञ्चाप्युद्वहेत्कन्यां नीलं वा वृषमुत्सृजेत् ।। २०७.४१ ।।
 
एवं वृषं लक्षणसंप्रयुक्तं गृहोद्भवं क्रीतमथापि राजन्!
मुक्ता न शोचेन्मरणं महात्मा मोक्षं गतश्चाहमतोऽभिधास्ये ।। २०७.४२ ।।
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_२०७" इत्यस्माद् प्रतिप्राप्तम्