"मत्स्यपुराणम्/अध्यायः २०८" इत्यस्य संस्करणे भेदः
Content deleted Content added
<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती |
No edit summary |
||
पङ्क्तिः १:
<poem>
पतिव्रतामाहात्म्ये सावित्र्युपाख्यानम्।
सूत उवाच।
ततः स राजा देवेशं पप्रच्छामितविक्रमः।
पतिव्रतानां माहात्म्यं तत्सम्बन्धां कथामपि ।। २०८.१ ।।
मनुरुवाच।
पतिव्रतानां का श्रेष्ठा कया मृत्युः पराजितः ।
नामसङ्कीर्तनं कस्याः कीर्तनीयं सदा नरैः ।। २०८.२ ।।
मत्स्य उवाच।
वैलोम्यं धर्मराजोऽपि नाचरत्यथ योषिताम्।
पतिव्रतानां धर्मज्ञ! पूज्यास्तस्यापि ताः सदा ।। २०८.३ ।।
अत्र ते वर्णयिष्यामि कथां पापप्रणाशिनीम्।
यथा विमोक्षितो भर्त्ता मृत्युपाशाद्यतः स्त्रिया ।। २०८.४ ।।
मद्रेषु शाकलो राजा बभूवाश्वपतिः पुरा।
अपुत्रस्तप्यमानोऽसौ पुत्रार्थी सर्वकामदाम् ।। २०८.५ ।।
आराधयति सावित्रीं लक्षितोऽसौ द्विजोत्तमैः।
सिद्धार्थकैर्हूयमानां सावित्रीं प्रत्यहं द्विजैः ।। २०८.६ ।।
शतसंख्यैश्चतुर्थ्यान्तु दशमासागते दिने।
काले तु दर्शयामास स्वान्तनुं मनुजेश्वरम् ।। २०८.७ ।।
सावित्र्युवाच।
राजन्! भक्तोऽसि मे नित्यं दास्यामि त्वां सुतां सदा।
तां दत्तां मत्प्रसादेन पुत्रीं प्राप्स्यसि शोभनाम् ।। २०८.८ ।।
एतावदुक्त्वा सा राज्ञः प्रणतस्यैव पार्थिव!।
जगामादर्शनं देवी यथा वै नृप! चञ्चला ।। २०८.९ ।।
मालती नाम तस्यासीद्राज्ञः पत्नी पतिव्रता।
सुषुवे तनयां काले सावित्रीमिव रूपतः ।। २०८.१० ।।
सावित्र्याहूतया दत्ता तद्रूपसदृशी तथा।
सावित्री च भवत्वेषा जगाद नृपतिर्द्विजान्।। २०८.११ ।।
कालेन यौवनं प्राप्ता ददौ सत्यवते पिता।
नारदस्तु ततः प्राह राजानं दीप्ततेजसम् ।। २०८.१२ ।।
संवत्सरेण क्षीणायुः भविष्यति तृपात्मजः।
सकृत्कन्याः प्रदीयन्ते चिन्तयित्वा नराधिपः ।। २०८.१३ ।।
तथापि प्रददौ कन्यां द्युमत्सेनात्मजे शुभे।
सावित्र्यापि च भर्तारमासाद्य नृपमन्दिरे ।। २०८.१४ ।।
नारदस्य तु वाक्येन दूयमानेन चेतसा।
शुश्रूषां परमां चक्रे भर्तृश्वशुरयोर्वने ।। २०८.१५ ।।
राज्याद् भ्रष्टः सभार्यस्तु नष्टचक्षुर्नराधिपः।
न तुतोष समासाद्य राजपुत्रीं तथा स्नुषाम् ।। २०८.१६ ।।
चतुर्थेऽहनि मर्तव्यं तथा सत्यवता द्विजाः!।
श्वशुरेणाभ्यनुज्ञाता तदा राजसुतापि सा ।। २०८.१७ ।।
चक्रे त्रिरात्रं धर्मज्ञा प्राप्ते तस्मिंस्तदा दिने।
चारुपुष्पफलाहारः सत्यवांस्तु ययौ वनम् ।। २०८.१८ ।।
श्वशुरेणाभ्यनुज्ञाता याचना भङ्गभीरुणा।
सावित्र्यपि जगामार्ता सह भर्त्रा महद्वनम् ।। २०८.१९ ।।
चेतसा दूयमानेन गूहमाना महद् भयम्।
वने पप्रच्छ भर्तारं द्रुमाश्चासदृशांस्तथा ।। २०८.२० ।।
आश्वासयामास स राजपुत्रीं क्लान्तां वने पद्मविशालनेत्राम्।
सन्दर्शनेनाथ द्रुमद्विजानान्तथा मृगाणां विपिने नृवीरः ।। २०८.२१ ।।
</poem>
|