"आर्षेयकल्पः/उपोद्घातः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८४:
प्रजापतिस्त्रिष्टुप् । पूर्वरौहिणपुरोडाशाचरणकाले हिम् इन्द्रन्नर (आ० गा० २०५) इति राजनम् । इन्द्रस्त्रिष्टुप् । हुते घर्मे होइहा इमाउवां (आ० गा० १८१-२) इत्यश्विनोर्व्रते । अश्विनौ बृहती । उत्तर० रौहिणाचरणकाले काइही इन्द्रन्नर (आ० गा० २०६) इति रौहिणम् । इन्द्रस्त्रिष्टुप् । घर्मोपकरणानि सम्राडासन्द्यां समारोपयन्ति । तदा इत एत (ग्रा० ३.१०.९२.१) इति आरूढवदाङ्गिरसं त्रिर्गायेत् । ऊपा- स्थाने सुवा इति निधनम् ।। अङ्गिरसोऽनुष्टुप् । शार्ङ्गारूढवदाङ्गिरसे वा त्रिरभ्यस्येत् । अन्तरा पराचे(द्रा० श्रौ० २.१.३)तिवचनात् । प्रवर्ग्यसाम्ना- माद्यन्तयोस्त्रिर्गानमुक्तम् । इतरेषां सकृत् । एतानि सामानि प्रति- प्रवर्ग्यं गायेत् । सर्वेषूपसदन्तेषु आतिथ्यान्तवत्सोमाप्यायनं निह्नवनं सुब्रह्मण्याह्वानं च कार्यम् । अपराह्णे निह्नवने सव्यं पाणिमुत्तानं दक्षिणं न्यञ्चं कृत्वेति विशेषः । प्रवर्ग्योद्वासनकाले प्रस्तोता सम्राडा- सन्दीमुत्तरेण गत्वा पश्चात्तिष्ठन् अध्वर्युप्रेषितः त्यग्नाइर् (ग्रा० १२.१२. ४६५.४) इति प्रवर्ग्यसाम गायेत् । स्तोभान् प्रतिपदमुक्त्वा निधनायैव- वाइ इति ब्रूयात् । ए विश्वमित्यादि (दीनि ?) त्रीणि निधनानि मन्द्रस्वरान्तं कर्षन्तो घर्मोपयुक्ताः सर्वे पत्नी च ब्रूयुः । बृहस्पतिरत्यष्टिरग्निः । एवं मध्ये आहवनीयस्थाने च गायेत् । तत्रास्य स्थानत्रये सकृत् सकृद्गाने समुदायसिद्धं त्रिर्गानम् । न तु प्रतिस्थानं त्रिर्गानम् । तथा च तस्यां त्रिवृद्यथा प्रथमस्य प्रवर्ग्यसाम्नः इति प्रवर्ग्यसाम्नः प्रयोगे अवभृथसाम्नोऽतिदिष्टे तस्य त्रिर्वचने एकविंशतिः पदानि (ष० विं० ३.४.२०) इति श्रुत्युक्तमेकविंशतिपदत्वं तस्योपपद्यते । नान्यथा । परिषिच्यमाने च आहवनीये परिषेकजलमुपस्पृश्य अचिक्रदद्- (ग्रा० १४.४.४९७.१) वार्षाहरं त्रिर्गायेत् । वृषाहरिर्गायत्री सूर्यः । परिषिक्ते इष्टाहोत्रीयं (ग्रा० ४. ४.१५१.१) त्रिर्गायेत् । अप्सरसो गायत्रीन्द्रः । तस्य सर्वे पूर्ववन्निधनं ब्रूयुः । प्रत्याव्रजन् अभिप्रवः- (ग्रा० गे० ६.१.२३५.३, ऊ० गा० द० ३.३) श्यैतं साम त्रिर्गायेत् । प्रजापतिर्बृहतीन्द्रः । तृचे वैकस्यां बा यजमानो निधनमनूपेयात् । यदैकस्यां तदा आद्यायां ब्रूयात् । अन्त्यायाम् इति केचित् । पूर्वया द्वारा प्रपद्योत्तरेणाग्नीन गत्वा पश्चात् गार्ह- पत्यस्य तिष्ठन् प्रवर्ग्यस्थानं प्रेक्षमाणो वामदेव्यं (ऊ० गा० द० १.५) तृचे गायेत् । वामदेवो गायत्रीन्द्रः । अथाग्निप्रणयने अग्निमनुगच्छन् कभ्राजा अग्निर्मूर्द्धा ( आ० गा० २५१) इति अग्नेर्व्रतं त्रिर्गायेत् । अग्निर्गायत्र्यग्निः ।।
 
[[File:औदुम्बरी Audumbari.jpg|thumb|औदुम्बर्याः मूले सामगानम्]]
[ औदुम्बर्युच्छ्रयणम्]
 
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/उपोद्घातः" इत्यस्माद् प्रतिप्राप्तम्