"तैत्तिरीयारण्यकम्(विस्वर)/प्रपाठकः ५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४८:
5.10 अनुवाक १०
 
प्रजापतिं वै देवाः शुक्रं पयोऽदुह्रन् । तदेभ्यो न व्यभवत् । तदग्निर्व्यकरोत् । तानि शुक्रियाणि सामान्यभवन् । तेषां यो रसोऽत्यक्षरत् । तानि शुक्रयजूꣳ ष्यभवन् । शुक्रियाणां वा एतानि शुक्रियाणि । सामपयसं वा एतयोरन्यत् । देवानामन्यत्पयः । यद्गोः पयः १ तत्साम्नः पयः । यदजायै पयः । तद्देवानां पयः । तस्माद्यत्रैतैर्यजुर्भिश्चरन्ति । तत्पयसा चरन्ति । प्रजापतिमेव तद्देवान्पयसान्नाद्येन समर्धयन्ति । एष ह त्वै साक्षात्प्रवर्ग्यं भक्षयति । यस्यैवं विदुषः प्रवर्ग्यः प्रवृज्यते । उत्तरवेद्यामुद्वासयेत्तेजस्कामस्य । तेजो वा उत्तरवेदिः २ तेजः प्रवर्ग्यः । तेजसैव तेजः समर्धयति । उत्तरवेद्यामुद्वासयेदन्नकामस्य । शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । मुखमुत्तरवेदिः । शीर्ष्णैव मुखꣳ सं दधात्यन्नाद्याय । अन्नाद एव भवति । यत्र खलु वा एतमुद्वासितं वयाꣳ सि पर्यासते । परि वै तां समां प्रजा वयाꣳ स्यासते ३ तस्मादुत्तरवेद्यामेवोद्वासयेत् । प्रजानां गोपीथाय । पुरो वा पश्चाद्वोद्वासयेत् । पुरस्ताद्वा एतज् ज्योतिरुदेति । तत्पश्चान्नि म्रोचति । स्वामेवैनं योनिमनूद्वासयति । अपां मध्य उद्वासयेत् । अपां वा एतन्मध्याज् ज्योतिरजायत । ज्योतिः प्रवर्ग्यः । स्व एवैनं योनौ प्रति ष्ठापयति ४ यं द्विष्यात् । यत्र स स्यात् । तस्यां दिश्युद्वासयेत् । एष वा अग्निर्वैश्वानरः । यत्प्रवर्ग्यः । अग्निनैवैनं वैश्वानरेणाभि प्र वर्तयति । औदुम्बर्याꣳ शाखायामुद्वासयेत् । ऊर्ग्वा उदुम्बरः । अन्नं प्राणः । शुग्घर्मः ५ इदमहममुष्यामुष्यायणस्य शुचा प्राणमपि दहामीत्याह । शुचैवास्य प्राणमपि दहति । ताजगार्तिमार्च्छति । यत्र दर्भा उपदीकसन्तताः स्युः । तदुद्वासयेद्वृष्टिकामस्य । एता वा अपामनूज्जआवर्योअपामनूज्झावर्यो नाम । यद्दर्भाः । असौ खलु वा आदित्य इतो वृष्टिमुदीरयति । असावेवास्मा आदित्यो वृष्टिं नि यच्छति । ता आपो नियता धन्वना यन्ति ६ गोः पय उत्तरवेदिरासते स्थापयति घर्मो यन्ति
 
5.11 अनुवाक ११
 
प्रजापतिः संभ्रियमाणः । संराट्संभृतःसम्राट्संभृतः । घर्मः प्रवृक्तः । महावीर उद्वासितः । असौ खलु वावैष आदित्यः । यत्प्रवर्ग्यः । स एतानि नामान्यकुरुत । य एवं वेद । विदुरेनं नाम्ना । ब्रह्मवादिनो वदन्ति १ यो वै वसीयाꣳ सं यथानाममुपचरति । पुण्यार्तिं वै स तस्मै कामयते । पुण्यार्तिं अस्मै कामयन्ते । य एवं वेद । तस्मादेवं विद्वान् । घर्म इति दिवा चक्षीत । संराडिति नक्तम् । एते वा एतस्य प्रिये तनुवौ । एते अस्य प्रिये नामनी । प्रिययैवैनं तनुवा २ प्रियेण नाम्ना समर्धयति । कीर्तिरस्य पूर्वा गच्छति जनतामायतः । गायत्री देवेभ्योऽपाक्रामत् । तां देवाः प्रवर्ग्येणैवानु व्यभवन् । प्रवर्ग्येणाप्नुवन् । यच्चतुर्विꣳ शतिः कृत्वः प्रवर्ग्यं प्रवृणक्ति । गायत्रीमेव तदनु वि भवति । गायत्रीमाप्नोति । पूर्वास्य जनं यतः कीर्तिर्गच्छति । वैश्वदेवः सꣳ सन्नः ३ वसवः प्रवृक्तः । सोमोऽभिकीर्यमाणः । आश्विनः पयस्यानीयमाने । मारुतः क्वथन् । पौष्ण उदन्तःसारस्वतो विष्यन्दमानः । मैत्रः शरोगृहीतः । तेज उद्यतो वायुः । ह्रियमाणः प्रजापतिः । हूयमानो वाग्घृतः ४ असौ खलु वावैष आदित्यः । यत्प्रवर्ग्यः । स एतानि नामान्यकुरुत । य एवं वेद । विदुरेनं नाम्ना । ब्रह्मवादिनो वदन्ति । यन्मृन्मयमाहुतिं नाश्नुतेऽथ । कस्मादेषोऽश्नुत इति । वागेष इति ब्रूयात् । वाच्येव वाचं दधाति ५ तस्मादश्नुते । प्रजापतिर्वा एष द्वादशधा विहितः । यत्प्रवर्ग्यः । यत्प्रागवकाशेभ्यः । तेन प्रजा असृजत । अवकाशैर्देवासुरानसृजत । यदूर्ध्वमवकाशेभ्यः । तेनान्नमसृजत । अन्नं प्रजापतिः । प्रजापतिर्वावैषः
६ वदन्ति तनुवा सꣳ सन्नो हूयमानो वाग्घुतो दधात्येषः