"मत्स्यपुराणम्/अध्यायः १५७" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
पार्वतीम्प्रति ब्रह्मवरदानम्।
 
देव्युवाच।
मातरं मां परित्यज्य यस्मात्त्वं स्नेह विक्लवात्।
विहितावसरः स्त्रीणां शङ्करस्य रहो विधौ ।। १५७.१
 
तस्मात्ते पुरुषा रुक्षा जडा हृदयवर्जिता।
गणेश क्षारसदृशी शिला माता भविष्यति ।। १५७.२
 
निमित्तमेतद्विख्यातं वीरकस्य शिलोदये।
सोऽभवत्प्रक्रमेणैव विचित्राक्यान संशयः ।। १५७.३
 
एवमुत्सृष्टशापायाः गिरिपुत्र्यस्त्वनन्तरम्।
निर्जगाम मुखात् क्रोधः सिंहरूपी महाबलः ।। १५७.४
 
स तु सिंहः करालास्यो जटाजटिलकन्धरः।
प्रोद्धूत लम्बलाङ्गूलो दंष्टोत्कट मुखातटः ।। १५७.५
 
व्यावृत्तास्यो ललज्जिह्वः क्षामकुक्षिः शिरादिषु।
तस्याशु वर्तितुं देवी व्यवस्यत सती तदा ।। १५७.६
 
ज्ञात्वा मनोगतं तस्या भगवांश्चतुराननः।
आगम्योवाच देवेशो गिरिजां स्पष्टया गिरा ।। १५७.७
 
ब्रह्मोवाच।
किं पुत्रि! प्राप्तुकामासि किमलभ्यं ददामि ते ।। १५७.८
विरम्यतामतिक्लेशात् तपसोऽस्मान् मदाज्ञया।
तच्छ्रुत्वोवाच गिरिजा गुरुङ्गौरव गर्भितम् ।। १५७.९
 
वाक्यं वाचा चिरोद्गीर्ण वर्णनिर्णींत वाञ्छितम्।
देव्युवाच।
तपसा दुष्करेणाप्तः परित्वे शङ्करो मया ।। १५७.१०
 
स मां श्यामलवर्णेति बहुशः प्रोक्तवान् भवः।
स्यामहं काञ्चनाकारा वाल्लभ्ये न च संयुता ।। १५७.११
 
भर्तुर्भूतपतेरङ्गमेकतो निर्विशेऽङ्कवत्।
तस्यास्तद्भाषितं श्रुत्वा प्रोवाच कमलासनः ।। १५७.१२
 
एवं भव त्वं भूयश्च भर्तृदेहार्द्धधारिणी।
ततस्तस्याज भृङ्गाङ्गं फुल्लनीलोत्पलत्वचम् ।। १५७.१३
 
त्वचा सा चाभवद्दीप्ता घण्टा हस्ताविलोचना।
नानाभरणपूर्णाङ्गी पीतकौशेयधारिणी ।। १५७.१४
 
तामब्रवीत्ततो ब्रह्मा देवीं नीलाम्बुजत्विषम्।
निशे भूधरजा देह सम्पर्कात्त्वं ममाज्ञया ।। १५७.१५
 
सम्प्राप्ता कृतकृत्यत्वमेकानंशा पुराह्यसि।
य एष सिंहः प्रोद्भूतो देव्याः क्रोधाद्वरानने ।। १५७.१६
 
स तेऽस्तु वाहनं देवि! केतौ चास्तु महाबलः।
गच्छ विन्ध्याचलं तत्र सुरकार्यं करिष्यसि ।। १५७.१७
 
पञ्चालो नाम यक्षोऽयं यक्षलक्षपदानुगः।
दत्तस्ते किङ्करो देवि! मया मायाशतैर्यतः ।। १५७.१८
 
इत्युक्ता कौशिकी देवी विन्ध्य शैलं जगाम ह।
उमापि प्राप्तसङ्कल्पा जगाम गिरिशान्तिकम् ।। १५७.१९
 
प्रविशन्तीति तां द्वारि ह्यपकृष्य समाहितः।
रुरोध वीरको देवीं हेम वेत्र लताधरः ।। १५७.२०
 
तामुवाच च कोपेन रूपात्तु व्यभिचारिणीम्।
प्रयोजनं न तेऽस्तीह गच्छ यावन्न भेस्त्यसि ।। १५७.२१
 
देव्या रूपधरो दैत्यो देवं वञ्चयितुं त्विह।
प्रविष्टो न च दृष्टोऽसौ स वै देवेन घातितः ।। १५७.२२
 
घातिते चाहमाज्ञप्तो नीलकण्ठेन कोपिना।
द्वारेषु नावधानं ते यस्मात् पश्यामि वै ततः ।। १५७.२३
 
भविष्यसि नमद्द्वास्थो वर्ष पूगान्यनेकशः।
अतस्तेऽत्र न दास्यामि प्रवेशं गम्यतां द्रुतम् ।। १५७.२४
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_१५७" इत्यस्माद् प्रतिप्राप्तम्