"आश्वलायन श्रौतसूत्रम्/अध्यायः ७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४४:
७.९।४ विष्णोर् नु कम् इति सूक्ते परो मात्रया इत्य् अच्छावाकः । (सोम आभिप्लव षडह उक्थ्य अहः)
 
७.१०।१ पृष्ठ्यस्य अभिप्लवेन उक्ते अहनी आद्ये आद्याभ्याम् । (सोम पृष्ठ्य षडह १३ अहः)
७.१०।२ तृतीय सवनानि च अन्वहम् । (सोम पृष्ठ्य षडह १३ अहः)
७.१०।३ उप प्रयन्त इति तु प्रथमो अहन्य् आज्यम् । अग्निम् दूतम् इति द्वितीये । (सोम पृष्ठ्य षडह १३ अहः)
७.१०।४ तृतीये युक्ष्व हि इत्य् आज्यम् । (सोम पृष्ठ्य षडह १३ अहः)
७.१०।५ वायव् आ याहि वीतय इत्य् एका वायो याहि शिवा दिव इति द्वे इन्द्रश् च वायव् एषाम् सुतानाम् इति द्वयोर् अन्यतराम् द्विर् आ मित्रे वरुणे वयम् अश्विनाव् एह गच्छतम् आ याह्य् अद्रिभिः सुतम् सजूर् विश्वेभिर् देवेभिर् उत नः प्रिय अप्रियास्व् इत्य् औष्णिहम् प्रउगम् । (सोम पृष्ठ्य षडह १३ अहः)
७.१०।६ उत्तमे अन्वृचम् अभ्यासाश् चतुर् अक्षराः । (सोम पृष्ठ्य षडह १३ अहः)
७.१०।७ न वा । (सोम पृष्ठ्य षडह १३ अहः)
७.१०।८ तृतीयेन आभिप्लविकेन उक्तो मध्यंदिनः । तम् तम् इद् राधसे महे त्रय इन्द्रस्य सोमा इति मरुत्वतीयस्य प्रतिपद् अनुचरौ । वैरूपम् चेत् पृष्ठम् यद् द्याव इन्द्र तृ शतम् यद् इन्द्र यावतस् त्वम् इत् प्रगाथौ स्तोत्रिय अनुरूपौ । (सोम पृष्ठ्य षडह १३ अहः)
 
७.११।१ चतुर्थे अहन्य् यत् प्रातर् अनुवाक प्रतिपद्य् अर्धर्च आद्यो न्यूङ्खः । (सोम पृष्ठ्य षडह चतुर्थमहः)