"मत्स्यपुराणम्/अध्यायः १८९" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
नर्मदामाहात्म्ये कावेरीसंगममाहात्म्यवर्णनम्।
सूत उवाच।
पृच्छन्ति ते महात्मानो मार्कण्डेयं महामुनिम्।
युधिष्ठिर-पुरोगास्ते ऋषयश्च तपोधनाः ।। १८९.१ ।।
 
आख्याहि भगवन्। तथ्यं कावेरी सङ्गमो महान्।
लोकानाञ्च हितार्थाय अस्माकञ्च विवृद्धये ।। १८९.२ ।।
 
सदा पापरता ये च नरा दुष्कृतकारिणः।
मुच्यन्ते सर्वपापेभ्यो गच्छन्ति परमं पदम् ।। १८९.३ ।।
 
मार्कण्डेय उवाच।
श्रृण्वन्त्ववहिताः सर्वे युधिष्ठरपुरोगमाः।
अस्ति वीरो महायक्षः कुबेरः सत्यविक्रमः ।। १८९.४ ।।
 
इदं तीर्थमनुप्राप्य राजा यक्षाधिपोऽभवत्।
सिद्धं प्राप्तो महाराज! तन्मे निगदतः श्रृणु ।। १८९.५ ।।
 
कावेरी नर्मदा यत्र सङ्गमो लोकविश्रुतः।
तत्र स्नात्वा शुचिर्भूत्वा कुबेरः सत्यविक्रमः ।। १८९.६ ।।
 
तपोऽतप्यत यक्षेन्द्रो दिव्यं वर्षशतं महत्।
तस्य तुष्टो महादेवः प्रदातुं वरमुत्तमम् ।। १८९.७ ।।
 
भो भो यक्ष! महासत्व! वरं ब्रूहि यथेप्सितम्।
ब्रूहि कार्यं यथेष्टन्तु यद्वा मनसि वर्तते ।। १८९.८ ।।
 
कुबेर उवाच।
यदि तुष्टोऽसि मे देव! यदि देयो वरो मम।
अद्य प्रभृति सर्वेषां यक्षाणामधिपो भवेत् ।। १८९.९ ।।
 
कुबेरस्य वचः श्रुत्वा परितुष्टो महोश्वरः।
एवमस्तु ततो देवस्तत्रैवान्तर धीयत ।। १८९.१० ।।
 
सोऽपि लब्धवरो यक्षः शीघ्रं लब्धफलोदयः।
पूजितः स तु यक्षैश्च ह्यभिषिक्तस्तु पार्थिव! ।। १८९.११ ।।
 
कावेरीसङ्गमं तत्र सर्वपापप्रणाशनम्।
ये नरा नाभिजानन्ति वञ्चितास्ते न संशयः ।। १८९.१२ ।।
 
तस्मात् सर्व प्रयत्नेन तत्र स्नायीत मानवः।
कावेरी च महापुण्या नर्मदा च महानदी ।। १८९.१३ ।।
 
तत्र स्नात्वा तु राजेन्द्र! ह्यर्चयेद् वृषभध्वजम्।
अश्वमेधफलं प्राप्य रुद्रलोके महीयते ।। १८९.१४ ।।
 
अग्निप्रवेशं यः कुर्य्याद्यश्च कुर्य्यादनाशकम्।
अनिवर्त्या गतिस्तस्य यथा मे शङ्करोऽब्रवीत् ।। १८९.१५ ।।
 
सेव्यमानो वरस्त्रीमिः क्रीडते दिवि रुद्रवत्।
षष्टिवर्षसहस्राणि षष्टिकोट्यस्तथापराः ।। १८९.१६ ।।
 
मोदते रुद्रलोकस्थो यत्र तत्रैव गच्छति।
पुण्यक्षयात् परिभ्रष्टो राजा भवति धार्मिकः ।। १८९.१७ ।।
 
भोगवान् दानशीलश्च महाकुल समुद्भवः।
तत्र पीत्वा जलं सम्यक् चान्द्रायणफलं लभेत् ।। १८९.१८ ।।
 
स्वर्गं गच्छन्ति ते मर्त्या ये पिबन्ति शुभं जलम्।
गङ्गायमुनयोर्मध्ये यत् फलं प्राप्नुयान्नरः
कावेरी सङ्गमे स्नात्वा तत् फलं तस्य जायते ।। १८९.१९ ।।
 
एवमादि तु राजेन्द्र! कावेरी सङ्गमे महत्।
पुण्यं महत्फलं तत्र सर्वपापप्रणाशनम् ।। १८९.२० ।।
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_१८९" इत्यस्माद् प्रतिप्राप्तम्