"मत्स्यपुराणम्/अध्यायः १८७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem>
नर्मदामाहात्म्ये ज्वालेश्वरतीर्थमाहात्म्यवर्णनम्।
 
मार्कण्डेय उवाच।
नर्मदा तु नदी श्रेष्ठा पुण्यात् पुण्यतमाहिता।
मुनिभिस्तु महाभागैर्विभक्ता मोक्षकांक्षिभिः ।। १८७.१
 
यज्ञोपवीतमात्राणि प्रविभक्तानि पाण्डव।
तेषु स्नात्वा तु राजेन्द्र! सर्वपापैः प्रमुच्यते ।। १८७.२
 
ज(ज्वा)लेश्वरं परन्तीर्थं त्रिषु लोकेषु विश्रुतम्।
तस्योत्पत्तिं कथयतः श्रुणु त्वं पाण्डुनन्दन! ।। १८७.३
 
पुरा मुनिगणाः सर्वे सेन्द्राश्चैव मरुद्गणाः।
भयोद्विग्ना विरूपाक्षं परित्रायस्व न प्रभो! ।। १८७.४
 
श्रीभगवानुवाच।
स्वागतं तु सुरश्रेष्ठाः! किमर्थमिह चागताः।
किं दुःखं को नु सन्तापः कुतो वा भयमागतम् ।। १८७.५
 
कथयध्वं महाभागाः एवमिच्छामि वेदितुम्।
एवमुक्तास्तु रुद्रेण कथयन् संशितव्रताः ।। १८७.६
 
ऋषय ऊचुः।
अतिवीर्य्यो महाघोरो दानवो बलदर्पितः।
बाणो नामेति विख्यातो यस्य वै त्रिपुरं पुरम् ।। १८७.७
 
गगने सततं दिव्यं भ्रमते तस्य तेजसा!
ततो भीता विरूपाक्ष! त्वामेव शरणं गताः ।। १८७.८
 
त्रायस्व महतो दुःखात् त्वं हि नः परमा गतिः।
एवं प्रसादं देवेश! सर्वेषां कर्तुमर्हसि ।। १८७.९
 
येन देवाः सगन्धर्वाः सुखमेधन्ति शङ्कर!।
परां निर्वृतिमायान्ति तत्प्रभो! कर्तुमर्हसि ।। १८७.१0
 
श्रीभगवानुवाच।
एतत् सर्वं करिष्यामि मा विषादं गमिष्यथ।
अचिरेणैव कालेन कुर्य्यां युष्मत् सुखावहम् ।। १८७.११
 
आश्वास्य स तु तान् सर्व्वान्नर्मदा तटमाश्रितः।
चिन्तयामास देवेशस्तद्वधं प्रतिमानद! ।। १८७.१२
 
अथ केन प्रकारेण हन्तव्यं त्रिपुरं मया।
परं संचिन्त्य भगवान् नारदं चास्मरत्तदा।
स्मरणादेव! संप्राप्तो नारदः समुपस्थितः ।। १८७.१३
 
नारद उवाच।
आज्ञापय महादेव! किमर्थञ्च स्मृतो ह्यहम्।
किं कार्य्यन्तु मया देव! कर्तव्यं कथयस्व मे ।। १८७.१४
 
श्रीभगवानुवाच।
गच्छ नारद! तत्रैव यत्र तत्त्रिपुरं महत्।
बाणस्य दानवेन्द्रस्य शीघ्रं गत्वा च तत्कुरु ।। १८७.१५
 
या भर्तृदेवतास्तत्र स्त्रियश्चाप्सरसां समाः।
तासां वै तेजसा विप्र! भ्रमते त्रिपुरन्दिवि ।। १८७.१६
 
तत्र गत्वा तु विप्रेन्द्र! मतिमन्यां प्रबोधय।
देवस्य वचनं श्रुत्वा मुनिस्त्वरितविक्रमः ।। १८७.१७
 
स्त्रीणां हृदयनाशाय प्रविष्टस्तत् पुरं प्रति।
शोभते तत्पुरं दिव्यं नानारत्नोपशोभितम् ।। १८७.१८
 
शतयोजनविस्तीर्णं ततो द्विगुणमायतम्।
ततोऽपश्यद्धि तत्रैव बाणन्तु बलदर्पितम् ।। १८७.१९
 
मणिकुण्डलकेयूर मुकुटेन विराजितम्।
हारदोरसुवर्णैश्च चन्द्रकान्तविभूषितम् ।। १८७.२0
 
रशना तस्य रत्नाढ्या बाहू कनकमण्डितौ।
चन्द्रकान्तमहावज्रमणिविद्रुमभूषिते ।। १८७.२१
 
द्वादशार्कद्युतिनिभे निविष्टं परमात्मने।
उत्थितो नारदं दृष्ट्वा दानवेन्द्रो महाबलः ।। १८७.२२
 
बाण उवाच।
देवर्षे! त्वं स्वयं प्राप्तो अर्घ्यं पाद्यं निवेदये।
 
सोऽभिवाद्य यथान्यायं क्रियतां किं द्विजोत्तम! ।। १८७.२३
 
चिरात्त्वमागतो विप्र! स्थीयतामिदमासनम्।
एवं सम्भाषयित्वा तु नारदं ऋषिसत्तमम्
तस्य भार्या महादेवी ह्यनौपम्या तु नामतः ।। १८७.२४
 
अनौपम्योवाच।
भगवन्। केन धर्मेण देवास्तुष्यन्ति नारद!।
व्रतेन नियमेनाथ दानेन तपसापि वा ।। १८७.२५
 
नारदः उवाच।
तिलधेनुञ्च यो दद्याद् ब्राह्मणे वेदपारगे।
ससागरवनद्वीपा दत्ता भवति मेदिनी ।। १८७.२६
 
सूर्यकोटिप्रतीकाशैः विमानैः सार्वकामिकैः।
मोदते सुचिरं कालमक्षयं कृतशासनम् ।। १८७.२७
 
आम्रामल कपित्थानि बदराणि तथैव च।
कदम्बचम्पकाशोकाननेकविविधद्रुमान् ।। १८७.२८
 
अश्वत्थपिप्पलां श्चैव कदलीवटदाडिमान्।
पिचुमन्दं मधूकं च उपोष्य स्त्री ददाति या ।। १८७.२९
 
स्तनौ कपित्थसदृशावुरू च कदलीसमौ।
अश्वत्थे वन्दनीया च पिचुमन्दे सुगन्धिनी ।। १८७.३0
 
चम्पके चम्पकाभा स्यादशोके शोकवर्जिता।
मधूके मधुरं वक्ति वटे च मृदुगात्रिका।। १८७.३१
 
बदरी सर्वदा स्त्रीणां महासौभाग्यदायिनी।
कुक्कुटी कर्कटी चैव द्रव्यषष्ठी न शस्यते ।। १८७.३२
 
कदम्बमिश्रकनक मञ्जरी पूजनं तथा।
अनग्निपक्वमन्नञ्च पक्वान्नानामभक्षणम्।। १८७.३३
 
फलानाञ्च परित्यागः सन्ध्या मौनं तथैव च।
प्रथमं क्षेत्रपालस्य पूजा कार्या प्रयत्नतः ।। १८७.३४
 
तस्या भवति वै भर्ता मुखप्रेक्षः सदानघे!।
अष्टमी च चतुर्थी च पञ्चमी द्वादशी तथा ।। १८७.३५
 
संक्रान्तिर्विषुवच्चैव दिनच्छिद्र मुखं तथा।
एतांस्तु दिवसान् दिव्यानुपवासन्ति याः स्त्रियः
तासान्तु धर्म्मयुक्तानां स्वर्गवासो न संशयः ।। १८७.३६
 
कलिकालुष्यनिर्मुक्ताः सर्वपापविवर्जिताः।
उपवासरतां नारीं नोपसर्पति तां यमः ।। १८७.३७
 
अनौपम्योवाच।
अस्मत्कृतेन पुण्येन पुराजन्मकृतेन वा।
भवदागमनं भूतं किञ्चित् पृच्छाम्यहं व्रतम्।। १८७.३८
 
अस्ति विन्ध्यावलिर्नाम बलिपत्नी यशस्विनी।
श्वश्रूर्ममापि विप्रेन्द्र! न तुष्यति कदाचन ।। १८७.३९
 
श्वशुरोऽपि सर्वकालं दृष्ट्वा चापि न पश्यति।
अस्तिकुम्भीनसी नाम ननान्दा पापकारिणी ।। १८७.४0
 
दृष्ट्वा चैवाङ्गुलीभंगं सदा कालं करोति च।
दिव्येन तु पथा याति मम सौख्यं कथं वद ।। १८७.४१
 
ऊषरेण प्ररोहन्ति बीजं कुर्यात् कथंचन।
येन व्रतेन चीर्णेन भवन्ति वशगा मम ।।
तद्व्रतं ब्रूहि विप्रेन्द्र! दासभावं व्रजामि ते ।। १८७.४२
 
नारद उवाच।
यदेतत्ते मया पूर्वं व्रतमुक्तं शुभानने!
अनेन पार्वती देवी चीर्णेन वरवर्णिनि! ।। १८७.४३
 
शङ्करस्य शरीरस्था विष्णोर्लक्ष्मीस्तथैव च।
सावित्री ब्रह्मणश्चैव वसिष्ठस्याप्यरुन्धती ।। १८७.४४
 
एतेनोपोषितेनेह भर्ता स्थास्यति ते वशे।
श्वश्रू श्वशुरयोश्चैव मुखबन्धो भविष्यति ।। १८७.४५
 
एवं श्रुत्वा तु सुश्रोणि यथेष्टं कर्तुमर्हसि।
नारदस्य वचः श्रुत्वा राज्ञी वचनमब्रवीत् ।। १८७.४६
 
प्रसादं कुरु विप्रेन्द्र! दानं ग्राह्यं यथेप्सितम्।
सुवर्णमणिरत्नानि वस्त्राण्याभरणानि च ।। १८७.४७
 
तव दास्याम्यहं विप्र! यच्चान्यदपि दुर्लभम्।
प्रगृहाण द्विजश्रेष्ठ! प्रीयेतां हरिशङ्करौ ।। १८७.४८
 
नारद उवाच।
अन्यस्मै दीयतां भद्रे! क्षीणवृत्तिस्तु यो द्विजः।
अहन्तु सर्वसम्पन्नो मद्भक्तिः क्रियतामिति ।। १८७.४९
 
एवं तासां मनो हृत्वा सर्वासान्तु पतिव्रताः।
जगाम भरत श्रेष्ठ! स्वकीयं स्थानकं पुनः ।। १८७.५0
 
ततो ह्यहृष्टदया अन्यतो गतमानसा।
पुरे छिद्रं समुत्पन्नं बाणस्य तु महात्मनः ।। १८७.५१
 
नर्मदामाहात्म्ये ज्वालेश्वरतीर्थमाहात्म्यवर्णनम्।
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_१८७" इत्यस्माद् प्रतिप्राप्तम्