"मत्स्यपुराणम्/अध्यायः २५८" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
सूत उवाच।
अथातः संप्रवक्ष्यामि दार्वाहरणमुत्तमम्।
धनिष्ठा पञ्चके मुक्त्वा विष्ट्यादिकमतः परम् ।। २५७.१
 
ततः सांवत्सरादिष्टे दिने यायाद्वनं बुधः।
प्रथमं बलिपूजाञ्च कुर्य्याद्वृक्षस्य सर्वदा ।। २५७.२
 
पूर्वोत्तरेण पतितं गृहदारु प्रशस्यते।
अन्यथा न शुभं विन्द्यात् याम्योपरि निपातनम् ।। २५७.३
 
क्षीरवृक्षोद्भवं दारु न गृहे विनिवेशयेत्।
कृताधिवासं विहगैरनिलानलपीड़ितम् ।। २५७.४
 
गजावरुग्णञ्च तथा विद्युन्निर्घातपीड़ितम्।
अर्द्धशुष्कं तथा दारुभग्नशुष्कं तथैव च ।। २५७.५
 
चैत्यदेवालयोत्पन्नं नदीसङ्गमजन्तथा।
श्मशानकूपनिलयं तड़ागादि समुद्भवम् ।। २५७.६
 
वर्जयेत् सर्वथा दारु यदीच्छेद्विपुलां श्रियम्।
तथा कण्टकिनो वृक्षान् नीपनिम्ब विभीतकान् ।। २५७.७
 
श्लेष्मातका नाम्रतरून् वर्जयेत् गृहकर्मणि।
आसनाशोकमधुकसर्जशालाः शुभावहाः ।। २५७.८
 
चन्दनं पनसन्धन्यं सुरदारुहरिद्रवः।
द्वाभ्यामेकेन वा कुर्यात् त्रिभिर्वा भवनं शुभम् ।। २५७.९
 
बहुभिः कारितं यस्मादनेकभयदं भवेत्।
एकैव शिंशपा धन्या श्रीपर्णा तिन्दुकी तथा ।। २५७.१०
 
एता नान्यसमायुक्ताः कदाचिच्छुभकारकाः।
स्यन्दनः पनसस्तद्वत् सरलार्जुनपद्मकाः ।। २५७.११
 
एते नान्यसमायुक्ता वास्तुकार्यफलप्रदाः।
तरुच्छेदे महापीते गोधा विन्द्याद्विचक्षणः ।। २५७.१२
 
माञ्चिष्ठवर्णे भेकः स्यान्नीले सर्पादि निर्दिशेत्।
अरुणे सरठं विद्यान्मुक्ताभे शुकमादिशेत् ।। २५७.१३
 
कपिले मूषकान्विद्यात् खड्गाभे जलमादिशेत् ।
एवं विधं सगर्भन्तु वर्जयेद्वास्तु कर्मणि ।। २५७.१४
 
पूर्वच्छिन्नन्तु गृह्णीयान्निमित्तशकुनैः शुभैः।
व्यासेन गुणिते दैर्घ्य अष्टाभिर्वैहृते तथा ।। २५७.१५
 
यच्छेषमायतं विद्यादष्टभेदं वदामि वः।
ध्वजो धूमश्च सिंहश्च वृषभः खर एव च।। २५७.१६
 
हस्तीध्वांक्षश्च पूर्वाद्याः करशेषाभवन्त्यमी।
ध्वजः सर्वमुखो धन्यः प्रत्यग्द्वारो विशेषतः ।। २५७.१७
 
उदङ्मुखो भवेत्सिंहः प्राङ्मुखो वृषभो भवेत्।
दक्षिणाभिमुखो हस्ती सप्तभिः समुदाहृतः ।। २५७.१८
 
एकेन ध्वज उद्धिष्टस्त्रिभिः सिंहः प्रकीर्तितः।
पञ्चभिर्वृषभः प्रोक्तो विकोणस्थाश्च वर्जयेत् ।। २५७.१९
 
तमेवाष्टगुणं कृत्वा करराशिं विचक्षणः।
सप्तविंशाहृते भागे ऋक्षं विद्याद्विचक्षणः ।। २५७.२०
 
अष्टभिर्भाजिते ऋक्षे यः शेषः सव्ययो मतः।
व्याधिकं न कुर्वीत यतो दोषकरम्भवेत् ।।
आयाधिके भवेच्छान्तिरित्याह भगवान् हरिः ।। २५७.२१
 
कृत्वाग्रतो द्विजवरानथ पूर्णकुम्भं दध्यक्ष ताम्र दल पुष्प फलोपशोभम्।
कृत्वा हिरण्यवसनानि तदा द्विजेभ्यो मङ्गल्यशान्तिनिलयाय गृहं विशेत्तु ।। २५७.२२
 
गृह्योक्तहोमविधिना बलिकर्म कुर्यात् प्रासादवास्तुशमने च विधिर्य उक्तः।
सन्तर्पयेद्द्विजवरानथ भक्ष्यभोज्यैः शुक्लाम्बरः स्वभवनं प्रविशेत्सधूपम् ।। २५७.२३
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_२५८" इत्यस्माद् प्रतिप्राप्तम्