"मत्स्यपुराणम्/अध्यायः २६१" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
नानादेवप्रतिमाप्रमाणवर्णनम्।
 
सूत उवाच।
प्रभाकरस्य प्रतिमामिदानीं श्रुणुत द्विजाः!।
रथस्थं कारयेद्देवं पद्महस्तं सुलोचनम् ।। २६१.१
 
सप्ताश्वञ्चैक चक्रञ्च रथं तस्य प्रकल्पयेत्।
मुकुटेन विचित्रेण पद्मगर्भसमप्रभम् ।। २६१.२
 
नानाभरणभूषाभ्यां भुजाभ्यां धृतपुष्करम्।
स्कन्धस्थे पुष्करे ते तु लीलयैव धृते सदा ।। २६१.३
 
चोलकच्छन्नवपुषं क्वचिच्चित्रेषु दर्शयेत्।
वस्त्रयुग्मसमोपेतं चरणौ तेजसावृतौ ।। २६१.४
 
प्रतिहारौ च कर्तव्यौ पार्श्वयोर्दण्डिपिङ्गलौ।
कर्तव्यौ खड्गहस्तौ तौ पार्श्वयोः पुरुषावुभौ ।। २६१.५
 
लोखनीकृतहस्तञ्च पार्श्वे धातारमव्ययम्।
नानादेवगणैर्युक्तमेवं कुर्याद्दिवाकरम् ।। २६१.६
 
अरुणः सारथिश्चास्य पद्मिनीपत्रसन्निभः।
अश्वौ सुवलयग्रीवावन्तस्थौ तस्य पार्श्वयोः ।। २६१.७
 
भुजङ्गरज्जुभिर्बद्धाः सप्ताश्वा रश्मिसंयुताः।
पद्मस्थं वाहनस्थं वा पद्महस्तं प्रकल्पयेत् ।। २६१.८
 
वह्नेस्तु लक्षणं वक्ष्ये सर्वकामफलप्रदम्।
दीप्तं सुवर्णवपुषमर्धचन्द्रासने स्थितम् ।। २६१.९
 
बालार्कसदृशं तस्य वदनञ्चापि दर्शयेत्।
यज्ञोपवीतिनं देवं लम्बकूर्चधरं तथा ।। २६१.१०
 
कमण्डलुं वामकरे दक्षिणे त्वक्षसूत्रकम्।
ज्वालावितानसंयुक्तमजवाहनमुज्वलम् ।। २६१.११
 
कुण्डस्थं वापि कुर्वीत मूर्ध्नि सप्तशिखान्वितम्।
तथा यमं प्रवक्ष्यामि दण्डपाशधरं विंभुम् ।। २६१.१२
 
महामहिषमारूढं कृष्णाञ्जनचयोपमम्।
सिंहासनगतञ्चापि दीप्ताग्निसमलोचनम् ।। २६१.१३
 
महिषश्चित्रगुप्तश्च करालाः किङ्करास्तथा।
समन्ताद्दर्शयेत्तस्य सौम्या सौम्यान् सुरासुरान् ।। २६१.१४
 
राक्षसेन्द्रं तथा वक्ष्ये लोकपालञ्च नैर्ऋतम्।
नरारूढं महामायं रक्षोभिर्बहुभिर्वृतम् ।। २६१.१५
 
खड्गहस्तं महानीलं कज्जलाचलसन्निभम्।
नरयुक्तविमानस्थं पीताभरणभूषितम् ।। २६१.१६
 
वरुणाञ्च प्रवक्ष्यामि पाशहस्तं महाबलम्‌।
शङ्खस्फटिकवर्णाभं सितहाराम्बरावृतम् ।। २६१.१७
 
झषासनगतं शान्तं किरीटाङ्गदधारिणम्।
वायुरूपं प्रवक्ष्यामि धूम्रन्तु मृगवाहनम् ।। २६१.१८
 
चित्राम्बरधरं शान्तं युवानं कुञ्चितभ्रुवम्।
मृगाधिरूढं वरदं पताकाध्वजसंयुतम् ।। २६१.१९
 
कुबेरञ्च प्रवक्ष्यामि कुण्डलाभ्यामलंकृतम्।
महोदरं महाकायं निध्यष्टकसमन्वितम् ।। २६१.२०
 
गुह्यकैर्बहुभिर्युक्तं धनव्ययकरैस्तथा।
हारकेयूररचितं सिताम्बरधरं सदा ।। २६१.२१
 
गदाधरञ्च कर्तव्यं वरदं मुकुटान्वितम्।
नरयुक्तविमानस्थं एवं रीत्या च कारयेत् ।। २६१.२२
 
तथैवेशं प्रवक्ष्यामि धवलं धवलेक्षणम्।
त्रिशूलपाणिनं देवं त्र्यक्षं वृषगतं प्रभुम् ।। २६१.२३
 
मातृणां लक्षणं वक्ष्ये यथावदनुपूर्वशः।
ब्रह्माणी ब्रह्मसदृशी चतुर्वक्त्रा चतुर्भुजा ।। २६१.२४
 
हंसाधिरूढ़ां कर्तव्या साक्षसूत्रकमण्डलुः।
महेश्वरस्य रूपेण तथा माहेश्वरी मता ।। २६१.२५
 
जटा मुकुटसंयुक्ता वृषस्था चन्द्रशेखरा।
कपालशूलखट्वाङ्ग वरदाढ्या चतुर्भुजा ।। २६१.२६
 
कुमाररूपा कौमरी मयूरवरवाहना।
रक्तवस्त्राधरा तद्वच्छूलशक्तिधरा मता ।। २६१.२७
 
हारकेयूरसम्पन्ना कृकवाकुधरा तथा।
वैष्णवी विष्णुसदृशा गरुडे समुपस्थिता ।। २६१.२८
 
चतुर्बाहुश्च वरदा शङ्कचक्रगदाधरा।
सिंहासनगता वापि बालकेन समन्विता ।। २६१.२९
 
वाराहीञ्च प्रवक्ष्यामि महिषोपरि संस्थिताम्।
वराहसदृशी देवी शिरश्चामरधारिणी ।। २६१.३०
 
गदाचक्रधरा तद्वद्दानवेन्द्रविनाशिनी।
इन्द्राणीमिन्द्रसदृशीं वज्रशूलगदाधराम् ।। २६१.३१
 
गजासनगतां देवीं लोचनैर्बहुभिर्वृताम्।
तप्तकाञ्चनवर्णाभां दिव्याभरणभूषिताम् ।। २६१.३२
 
तीक्ष्मखड्गधरां तद्वद् वक्ष्ये योगेश्वरीमिमाम्।
दीर्घजिह्वामूर्ध्वकेशीमस्थिखण्डैश्च मण्डिताम् ।। २६१.३३
 
दंष्ट्राकरालवदनां कुर्य्याच्चैव कृशोदरीम् ।
कपालमालिनीं देवीं मुण्डमालाविभूषिताम् ।। २६१.३४
 
कपालं वामहस्ते तु मांसशोणितपूरितम्।
मस्तिष्काक्तञ्च विभ्राणां शक्तिकां दक्षिणे करे ।। २६१.३५
 
गृध्रस्था वायसस्था वा निर्मांसा विनतोदरी।
करालवदना तद्वत् कर्तव्या सा त्रिलोचना ।। २६१.३६
 
चामुण्डा बद्धघण्टा वा द्वीपिचर्मधरा शुभा।
दिग्वासाः कालिका तद्वद्रासभस्था कपालिनी ।। २६१.३७
 
सुरक्तपुष्पाभरणा वर्धनी ध्वजसंयुता।
विनायकञ्च कुर्वीत मातॄणामन्तिके सदा ।। २६१.३८
 
वीरेश्वरश्च भगवान् वृषारूढो जटाधरः।
वीणाहस्तत्रिशूली च मातॄणामग्रतो भवेत् ।। २६१.३९
 
श्रियं देवीं प्रवक्ष्यामि नवे वयसि संस्थिताम्।
सुयौवनां पीतगण्डां रक्तोष्ठीं कुञ्चितभ्रुवम् ।। २६१.४०
 
पीनोन्नतस्तनतटां मणिकुण्डलधारिणीम्।
सुमण्डलं मुखं तस्याः शिरः सीमन्तभूषणम् ।। २६१.४१
 
पद्मस्वस्तिकशङ्खैर्वा भूषितां कुण्डलालकैः।
कञ्चुकाबद्धगात्रौ च हारभूषौ पयोधरौ ।। २६१.४२
 
नागहस्तोपमौ बाहू केयूरकटकोज्ज्वलौ।
पद्मं हस्ते प्रदातव्यं श्रीफलं दक्षिणे भुजे ।। २६१.४३
 
मेखलाभरणं तद्वत्तप्तकाञ्चनसप्रभाम्।
नानाभरणसम्पन्नां शोभनाम्वरधारिणीम् ।। २६१.४४
 
पार्श्वे तस्याः स्त्रियः कार्य्या श्चामरव्यग्रपाणयः।
पद्मासनोपविष्टा तु पद्मसिंहासनम्थिता ।। २६१.४५
 
करिभ्यां स्नाप्यमानासौ भृङ्गराभ्यामनेकशः।
प्रक्षालयन्तौ करिणौ भृङ्गाराभ्यां तथापरौ ।। २६१.४६
 
स्तूयमाना च लोकेशैस्तथा गन्धर्वगुह्यकैः।
तथैव यक्षिणी कार्या सिद्धासुरनिषेविता ।। २६१.४७
 
पार्श्वयोः कलशौ तस्यास्तोरणे देवदानवाः।
नागाश्चैव तु कर्तव्याः खड्गखेटकधारिणः ।। २६१.४८
 
अधस्तात्प्रकृतिस्तेषां नाभेरूर्ध्वन्तु पौरुषी।
फणाश्च मूर्ध्नि कर्तव्याद्विजिह्वा बहवः समाः ।। २६१.४९
 
पिशाचा राक्षसाश्चैव भूतवेतालजातयः।
निर्मांसाश्चैव ते सर्वे रौद्रा विकृतरूपिणः ।। २६१.५०
 
क्षेत्रपालश्च कर्तव्यो जटिलो विकृताननः।
दिग्वासा जटिलस्वद्वच्छ्वागोमायु निषेवितः ।। २६१.५१
 
कपालं वामहस्ते तु शिरः केशैः समावृतम्।
दक्षिणे शक्तिकां दद्यादसुरक्षयकारिणीम् ।। २६१.५२
 
अथातः सम्प्रवक्ष्यामि द्विभुजं कुसुमायुधम्।
पार्श्वे चाश्वमुखं तस्य मकरध्वजसंयुतम् ।। २६१.५३
 
दक्षिणे पुष्पबाणञ्च वामे पुष्पमयं धनुः।
प्रीतिः स्याद्दक्षिणे तस्य भोजनोपस्करान्विता ।। २६१.५४
 
रतिश्च वामपार्श्वेतु शयनं सारसान्वितम्।
पटश्च पटहश्चैव खरः कामातुरस्तथा ।। २६१.५५
 
पार्श्वतो जलवापी च वनं नन्दनमेव च।
सुशोभनश्च कर्तव्यो भगवान् कुसुमायुधः ।। २६१.५६
 
संस्थानमीषद्वक्त्रं स्याद्विस्मितवक्त्रकम् ।
एतदुद्देशतः प्रोक्तं प्रतिमालक्षणं मया।
विस्तरेण न शक्नोति बृहस्पतिरपि द्विजाः ! ।। २६१.५७
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_२६१" इत्यस्माद् प्रतिप्राप्तम्