"मत्स्यपुराणम्/अध्यायः २६६" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
(<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती)
 
<poem>
 
देवप्रतिष्ठाविधिवर्णनम्।
 
सूत उवाच।
कृत्वाधिवासं देवानां शुभं कुर्य्यात् समाहितः।
प्रासादस्यानुरूपेण मानं लिङ्गस्य वा पुनः ।। २६६.१
 
पुष्पोदकेन प्रासादं प्रोक्ष्य मन्त्रयुतेन तु।
पातयेत् पक्षसूत्रन्तु द्वारसूत्रं तथैव च ।। २६६.२
 
आश्रयेत् किञ्चिदीशानीं मध्यं ज्ञात्वा दिशं बुधः।
ईशानीमाश्रितं देवं पूजयन्ति दिवौकसः ।। २६६.३
 
आयुरारोग्यफलदमथोत्तरसमाश्रितम्।
शुभं स्यादशुभं प्रोक्तमन्यथा स्थापनं बुधैः ।। २६६.४
 
अधः कूर्मशिला प्रोक्ता सदा ब्रह्म शिलाधिका।
उपर्यवस्थिता तस्या ब्रह्मभागाधिका शिला ।। २६६.५
 
ततस्तु पिण्डिका कार्या पूर्वोक्तैः नामलक्षणैः।
ततः प्रक्षालितां कृत्वा पञ्चगव्येन पिण्डिकाम् ।। २६६.६
 
कषाय तोयेन पुनर्मन्त्र युक्तेन सर्वतः।
देवतार्चास्त्रयं मन्त्रं पिण्डिकासु नियोजयेत् ।। २६६.७
 
तत उत्थाप्य देवेशं उत्तिष्ठ ब्रह्मणेति च।
आनीय गर्भभवनं पीठान्ते स्थापयेत्पुनः ।। २६६.८
 
अर्घ्यपाद्यादिकं तत्र मधुपर्कं प्रयोजयेत्।
ततो मुहूर्तं विश्रम्य रत्नन्यासं समाचरेत् ।। २६६.९
 
वज्र-मौक्तिक-वैढूर्य शङ्खस्फटिकमेव च।
पुष्परागेन्द्रनीलञ्च नीलं पूर्वादितः क्रमात् ।। २६६.१०
 
तालकञ्च शिलावज्रमञ्जनं श्याममेव च।
काक्षी काशी समाक्षीकं गौरिकञ्चादितः क्रमात् ।। २६६.११
 
गोधूमञ्च यवं तद्वत्तिलमुद्गं तथैव च।
नीवारमथ श्यामाकं सर्षपं व्रीहिमेव च ।। २६६.१२
 
न्यस्य क्रमेण पूर्वादि चन्दनं रक्तचन्दनम्।
अगरुञ्चादनञ्चापि उशीरञ्च ततः परम् ।। २६६.१३
 
वैष्णवीं सहदेवीञ्च लक्ष्मणाञ्च ततः परम्।
स्वर्लोक पालनाम्नातु न्यसेदोङ्कारपूर्वकम् ।। २६६.१४
 
सर्वबीजानि धातूंश्च रत्नान्योषधयस्तथा।
काञ्चनं पद्मरागन्तु पारदं पद्ममेव च ।। २६६.१५
 
कूर्मं धरां वृषं तत्र न्यसेत्पूर्वादितः क्रमात्।
ब्रह्मस्थाने तु दातव्या संहता स्युः परस्परम् ।। २६६.१६
 
कनकं विद्रुमं ताम्रं कांस्यञ्चैवारकूटकम्।
रजतं विमलं पुष्पं लोहञ्चैव क्रमेण तु ।। २६६.१७
 
काञ्चनं हरितालञ्च सर्वाभावेऽपि निक्षिपेत्।
दद्यात् बीजौषधिस्थाने सहदेवीं यवानपि।। २६६.१८
 
न्यासमन्त्रानतो वक्ष्ये लोकपालात्मकानिह।
इन्द्रस्तु सहसा दीप्तः सर्वदेवाधिपो महान् ।। २६६.१९
 
वज्रहस्तो महासत्वस्तस्मै नित्यं नमो नमः।
आग्नेयः पुरुषो रक्तः सर्वदेवमयः शिखी ।। २६६.२०
 
धूमकेतुरनाधृष्यस्तस्मै नित्यं नमो नमः।
यमश्चोत्पलवर्णाभः किरीटी दण्कडधृक् सदा ।। २६६.२१
 
धर्मसाक्षी विशुद्धात्मा तस्मै नित्यं नमो नमः ।
निर्ऋतिस्तु पुमान् कृष्णः सर्वरक्षोऽधिपो महान् ।। २६६.२२
 
खड्गहस्तो महासत्वस्तस्मै नित्यं नमो नमः।
वरुणो धवलो विष्णुः पुरुषो निम्नगाधिपः ।। २६६.२३
 
पाशहस्तो महाबाहुस्तस्मै नित्यं नमो नमः।
वायुश्च सर्ववर्णो वै सर्वगन्धवहः शुभः ।। २६६.२४
 
पुरुषोध्वजहस्तश्च तस्मै नित्यं नमो नमः।
गौरो यश्च पुमान् सौम्यः सर्वौषधिसमन्वितः ।। २६६.२५
 
नक्षत्राधिपतिः सोमस्तस्मै नित्यं नमो नमः।
ईशानपुरुषः शुक्लः सर्वविद्याधिपो महान् ।। २६६.२६
 
शूलहस्तो विरूपक्षस्तस्मै नित्यं नमो नमः।
पद्मयोनिश्चतुर्मूर्ति र्वेदवासाः पितामहः ।। २६६.२७
 
यज्ञाद्यक्षश्चतुर्वक्त्रस्तस्मै नित्यं नमो नमः।
योऽसावनन्तरुपेण ब्रह्माण्डं सचराचरम् ।। २६६.२८
 
पुष्पवद्धारयेन्मूर्ध्नि तस्मै नित्यं नमो नमः।
ओङ्कारपूर्वका ह्येते न्यासे बलिनिवेदने ।। २६६.२९
 
मन्त्राःस्तु सर्वकार्य्याणां वृद्धिपुत्रफलप्रदाः।
न्यासं कृत्वा तु मन्त्राणां पायसेनानुलेपितम् ।। २६६.३०
 
पाटेनाच्छादयेत् श्वभ्रं शुक्लेनोपरि यत्नतः।
तत उत्थाप्य देवेशमिष्टदेशे तु शोभने ।। २६६.३१
 
ध्रुवा द्यौरिति मन्त्रेण श्वभ्रोपरि निवेशयेत्।
ततः स्थिरीकृतस्यास्य हस्तं दत्वा तु मस्तके ।। २६६.३२
 
ध्यात्वा परमसद्भावाद् देवदेवञ्च निष्कलम्।
देवव्रतं तथा सोमं रुद्रसूक्तं तथैव च ।। २६६.३३
 
आत्मानमीश्वरं कृत्वा नानाभरणभूषितम्।
यस्य देवस्य यद्रूपं तद्ध्याने संस्मरेत् तथा ।। २६६.३४
 
अतसीपुष्पसङ्काशं शङ्कचक्रगदाधरम्।
संस्थापयामि देवेशं देवो भूत्वा जनार्दनम् ।। २६६.३५
 
त्र्यक्षञ्च दशबाहुञ्च चन्द्रार्ध कृतशेखरम्।
गणेशं वृषसंस्थञ्च स्थापयामि त्रिलोचनम् ।। २६६.३६
 
ऋषिभिः संस्तुतं देवं चतुर्वक्त्रं जटाधरम्।
पितामहं महाबाहुं स्थापयाम्यम्बुजोद्भवम् ।। २६६.३७
 
सहस्रकिरणं शान्तमप्सरोगणसंयुक्तम्।
पद्महस्तं महाबाहुं स्थापयामि दिवाकरम् ।। २६६.३८
 
देवमन्त्रां स्तथा रौद्रान् रुद्रस्य स्थापने जपेत्।
विष्णोस्तु वैष्णवांस्तद्वत् ब्राह्मणान् वै ब्रह्मणो बुधैः ।। २६६.३९
 
सौराः सूर्यस्य जप्तव्यास्तथान्येषु तदाश्रयाः।
वेदमन्त्रप्रतिष्ठा तु यस्मादानन्ददायिनी ।। २६६.४०
 
स्थापयेद्यन्तु देवेशन्तं प्रधानं प्रकल्पयेत्।
तस्य पार्श्वस्थितानन्यान् संस्मरेत् परिवारितः ।। २६६.४१
 
गणं नन्दिमहाकालं वृषभृङ्गिरिटिं गुहम्।
देवीं विनायकञ्चैव विष्णुं ब्रह्माणमेव च ।। २६६.४२
 
रुद्रं शक्रं जयन्तञ्च लोकपालान् समन्ततः।
तथैवाप्सरसः सर्वा गन्धर्वगणगुह्यकान् ।। २६६.४३
 
यो यत्र स्थाप्यते देवस्तस्य तान् परितः स्मरेत्।
आवाहयेत्तथा रुद्रं मन्त्रेणानेन यत्नतः ।। २६६.४४
 
यस्य सिंहा रथे युक्ता व्याघ्रभूतास्तथोरगाः।
ऋषयो लोकपालाश्च देवःस्कन्दस्तथा वृषः ।। २६६.४५
 
प्रियो गणो मातरश्च सोमो विष्णुः पितामहः।
नागा यक्षाः सगन्धर्वा ये च दिव्या नभश्चराः ।। २६६.४६
 
तमहं ऋक्षमींशानं शिवं रुद्रमुमापतिम्।
आवाहयामि सगणं सपत्नीकं वृषध्वजम् ।। २६६.४७
 
आगच्छ भगवन्! रुद्रानुग्रहाय शिवो भव।
शाश्वतो भवपूजां मे गृहाण त्वं नमो नमः ।। २६६.४८
 
ॐ नमः स्वागतं भगवते नमः ॐ नमः सोमाय सगणाय सपरिवाराय प्रतिगृह्णात्
भगवन्! मन्त्रपूतमिदं सर्वमर्घ्यपाद्यमाचमनीयमासनं ब्रह्मणाभिहितं नमो नमः स्वाहा ।। २६६. ४९
 
ततः पुण्याहघोषेण ब्रह्मघोषैश्च पुष्कलैः।
स्नापयेत्तु ततो देवं दधिक्षीरघृतेन च ।। २६६.५०
 
मधुशर्करया तद्वत् पुष्पगन्धोदकेन च।
शिवध्यानैकचित्तस्तु मन्त्रानेतानुदीरयेत् ।। २६६.५१
 
यज्जाग्रतो दूरमुदेति। ततो विराडजायत इति च। सहस्रशीर्षा पुरुष इति च। अभित्वा शूरनोनम इति च। पुरुष एवेदं सर्वमिति। त्रिपादूर्ध्वमिति। येनेदं भूतमिति। नत्वा अवीन्य इति।
सर्वांश्चैतान् प्रतिष्ठासु मन्त्रान् जप्त्वा पुनः पुनः।
चतुः कृत्वा स्पृशेदद्भिर्मूलमध्ये शिरस्यपि ।। २६६.५२
 
स्थापिते तु ततो देवे यजमानोऽथ मूर्तिपम्।
आचार्यं पूजयेद् भक्त्या वस्त्रालङ्कारभूषणैः ।। २६६.५३
 
दीनान्धकृपणांस्तद्वत् ये चान्ये समुपस्थिताः।
ततस्तु मधुना देवं प्रथमेऽहनि लेपयेत् ।। २६६.५४
 
हरिद्रयाऽथ सिद्धार्थैर्द्वितीयेऽहनि तत्वतः।
चन्दनेन यवैस्तद्वत् तृतीयेऽहनि लेपयेत् ।। २६६.५५
 
मनः शिला प्रियङ्गुभ्यां चतुर्थेऽहनि लेपयेत्।
सौभाग्यशुभदं यस्माल्लेपनं व्याधिनाशनम् ।। २६६.५६
 
परम्प्रीतिकरन्नॄणामेतद्वेदविदो विदुः।
कृष्णाञ्चनन्तिलं तद्वत् पञ्चमेऽपि निवेदयेत् ।। २६६.५७
 
षष्ठे तु सघृतं दद्याच्चन्दनं पद्मकेसरम्।
रोचनागुरुपुष्पं तु सप्तमेऽहनि दापयेत् ।। २६६.५८
 
यत्र सद्योऽधिवासः स्यात् तत्र सर्वं निवेदयेत्।
स्थितं न चालयेद्देवमन्यथा दोषभाग्भवेत् ।। २६६.५९
 
पूरयेत्सिकताभिस्तु निच्छ्रिद्रं सर्वतो भवेत्।
लोकपालस्य दिग्भागे यस्य सञ्चलते विभुः ।। २६६.६०
 
तस्य लोकपतेः शान्तिर्देयांश्चेमाश्च दक्षिणाः।
इन्द्रायाभरणं दद्यात् काञ्चनं चाल्पवित्तवान् ।। २६६.६१
 
अग्नेः सुवर्णमेवस्याद्यमस्य महिषं तथा।
अन्नञ्च काञ्चनं तद्यान्नैर्ऋतं राक्षसं प्रति ।। २६६.६२
 
वरुणं प्रतिमुक्तानि सशुक्तीनि प्रदापयेत्।
रीतिकं वायवे दद्यात् वस्त्रयुग्मेन साम्प्रतम् ।। २६६.६३
 
सोमाय धेनुर्दातव्या रजतं सवृषं शिवे।
यस्यां यस्यां सञ्चलनं शान्तिः स्यात्तत्र तत्र तु ।। २६६.६४
 
अन्यथा तु भवेद् धोरं भयं कुलविनाशनम्।
अचलं कारयेत्तस्मात् सिकताभिः सुरेश्वरम् ।। २६६.६५
 
अन्नं वस्त्रञ्च दातव्यं पुण्याह जयमङ्गलम्।
त्रिः पञ्च सप्त दश वा दिनानि स्यात् महोत्सवः ।। २६६.६६
 
चतुर्थेऽह्नि महास्नानं चतुर्थी कर्मकारयेत्।
दक्षिणा च पुनस्तद्वद्देया तत्रातिभक्तितः ।। २६६.६७
 
देवप्रतिष्ठा-विधिरेषु तुभ्यं निवेदितः पापविनाशहेतोः।
यस्माद् बुधैः पूर्वमनन्तमुक्तमनेकविद्याधरदेवपूज्यम् ।। २६६.६८
 
</poem>
बेनामी उपयोगकर्ता
"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/22747" इत्यस्माद् प्रतिप्राप्तम्