"मत्स्यपुराणम्/अध्यायः २८०" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
हिरण्याश्वमहादानविधिवर्णनम्।
मत्स्य उवाच।
 
अथात संप्रवक्ष्यामि हिरण्याश्वविधिं परम्।
यस्य प्रदानाद् भुवने चानन्त्यं फलमश्नुते ।। २८०.१
 
पुण्यां तिथिमथासाद्य कृत्वा ब्राह्मणवाचनम्।
लोकेशावाहनं कुर्यात् तुला पुरुषदानवत् ।। २८०.२
 
ऋत्विक्मण्डपसम्भार भूषणाच्छादनादिकम्।
स्वल्पे त्वेकाग्निवत् कुर्याद्धेमवाजि मखम्बुधः ।। २८०.३
 
स्थापयेद्वेदिमध्ये तु कृष्णाजिन तिलोपरि।
कौशेयवस्त्रसम्वीतं कारयेत् हेम वाजिनम् ।। २८०.४
 
शक्तितस्त्रिपलादूर्ध्वमासहस्रपलाद् बुधः।
पादुकोपानहच्छत्र चामरासनभाजनैः ।। २८०.५
 
पूर्णकुम्भाष्टकोपेतं माल्येक्षु-फलसंयुतम्।
शय्यां सोपस्करां तद्वत् हेममार्तण्डसंयुताम् ।। २८०.६
 
ततः सर्वौषधी स्नान स्नापितो द्विजपुङ्गवैः।
इममुच्चारयेन् मन्त्रं गृहीत कुसुमाञ्जलिः ।। २८०.७
 
नमस्ते सर्वदेवेश वेदाहरणलम्पट!।
वाजिरूपेण मामस्मात् पाहि संसारसागरात् ।। २८०.८
 
त्वमेव सप्तधा भूत्वा छन्दोरूपेण भास्कर!।
यस्माद् भासयसे लोकानतः पाहि सनातन! ।। २८०.९
 
एवमुच्चार्य गुरवे तमश्वं विनिवेदयेत्।
दत्वा पापक्षयाद् भानोः लोकमभ्येति शाश्वतम् ।। २८०.१०
 
गोभिर्विभवतः सर्वान्नृत्विजश्चापि पूजयेत्।
सर्वधान्योपकरणं गुरवे विनिवेदयेत् ।। २८०.११
 
सर्वं शय्यादिकं दत्वा भुञ्जीता तैलमेव हि।
पुराणश्रवणं तद्वत् कारयेद् भोजनादिकम् ।। २८०.१२
 
इमं हिरण्याश्वविधिं करोति यः संपूज्यमानो दिवि देवसङ्घैः।
विमुक्तपापः स पुरं मुरारेः प्राप्नोति सिद्धैरभिपूजितः सन् ।। २८०.१३
 
इति पठति य एतद्वेमवाजिप्रदानं सकलकलुषमुक्तः सोऽश्वमेधेन युक्तः।
कनकमयविमानेनार्कलोकं प्रयाति त्रिदशपतिवधूभिः पूज्यते योऽभिपश्येत् ।। २८०.१४
 
यो वा श्रृणोति पुरुषोऽल्पधनः स्मरेद्वा हेमाश्वदानमभिनन्दयतीह लोके।
सोऽपि प्रयाति हतकल्मषशुद्धदेहः स्थानं पुरन्दरमहेश्वरदेवजुष्टम् ।। २८०.१५
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_२८०" इत्यस्माद् प्रतिप्राप्तम्