"मत्स्यपुराणम्/अध्यायः २८७" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
सप्तसागरमहादानविधिवर्णनम्।
 
मत्स्य उवाच।
अथातः संप्रवक्ष्यामि महादानमनुत्तमम्।
सप्तसागरकं नाम सर्वपापप्रणाशनम् ।। २८७.१
 
पुण्यं दिनमथासाद्य कृत्वा ब्राह्मणवाचनम्।
तुला पुरुषवत् कुर्यात् लोकेशावाहनं बुधः ।। २८७.२
 
ऋत्विग्मण्डपसम्भार भूषणाच्छादनादिकम्।
कारयेत् सप्तकुण्डानि काञ्चनानि विचक्षणः ।। २८७.३
 
प्रादेशमात्राणि तथा रत्निमात्राणि वै पुनः।
कुर्यात् सप्तपलादूर्ध्वमासहस्राच्च शक्तितः ।। २८७.४
 
संस्थाप्यानि च सर्वाणि कृष्णाजिन तिलोपरि।
प्रथमं पूरयेत्कुण्डं लवणेन विचक्षणः ।। २८७.५
 
द्वितीयं पयसा तद्वत् तृतीयं सर्पिषा पुनः।
चतुर्थन्तु गुडेनैव दध्ना पञ्चममेव च ।। २८७.६
 
षष्ठं शर्करया तद्वत् सप्तमं तीर्थवारिणा।
स्थापयेल्लवणस्थं तु ब्रह्माणं काञ्चनं शुभम् ।। २८७.७
 
केशवं क्षीरमध्ये तु घृतमध्ये महेश्वरम्।
भास्करं गुडमध्ये तु दधिमध्ये निशाधिपम् ।। २८७.८
 
शर्करायां न्यसेल्लक्ष्मीं जलमध्ये तु पार्वतीम्।
सर्वेषु सर्वरत्नानि धान्यानि च समन्ततः ।। २८७.९
 
तुलापुरुषवच्छेषमत्रापि परिकल्पयेत्।
ततो वारुणहोमान्ते स्नापितो वेदपुङ्गवैः ।। २८७.१०
 
त्रिःप्रदक्षिणमावृत्य मन्त्रानेतानुदीरयेत्।
नमो वः सर्वसिन्धूनामाधारेभ्यः सनातनाः ।।
जन्तूनां प्राणदेभ्यश्च समुद्रेभ्यो नमो नमः ।। २८७.११
 
क्षीरोदकाज्य-दधि-माधुर-लावणेक्षु सारामृतेन भुवनत्रय-जीवसङ्घान्।
आनन्दयन्ति वसुभिश्च यतो भवन्तस्तस्मान्ममाप्यघविघातमलं दिशन्तु ।। २८७.१२
 
यस्मात् समस्तभुवनेषु भवन्त एव तीर्थामरासुरसुबद्धमणिप्रदानम्।
पापक्षयामृतविलेपनभूषणाय लोकस्य बिभ्रति तदस्तु ममापि लक्ष्मीः ।। २८७.१३
 
इति ददाति रसामृतसंयुतान् शुचिरविस्मयवानिह सागरान्।
कमलकाञ्चनवर्णमयानसौ पदमुपैति हरेरमरार्चितः ।। २८७.१४
 
सकलपापविधौतविराजितः पितृपितामहपुत्रकलत्रकम्।
नरकलोकसमाकुलमप्ययं झटिति सोऽपि नयेच्छिवमन्दिरम् ।। २८७.१५
 
</poem>
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_२८७" इत्यस्माद् प्रतिप्राप्तम्