"मार्चमासस्य प्रवचनानि" इत्यस्य संस्करणे भेदः

{{header | title = मार्चमासस्य प्रवचनानि | author = | translator = | s... नवीन पृष्ठं निर्मीत अस्ती
 
पङ्क्तिः १२२:
यः प्रकोष्ठे सुखं मन्यते, सः काराबद्धः। सः वस्तुतः सुखे स्यादिति वयं मन्यामहे। देहातीतं किमपि न विद्यते, विषये एव सर्वं सुखं विद्यते चेति यदि वयं मन्यामहे तर्हि तद् बद्धजनसदृशमेव ननु! कदाचिद् बाह्यजगत्स्पर्शः भवति चेत् काराबद्धजीवनं सुखकरमिति सः न मन्येत। तथैव भगवतःआनन्दस्पर्शः जातः चेद् मनुष्यः विषये न लीनः भवेत्। चित्तं वयं निर्विषयं कर्तुं न शक्नुमः, परं तद् भगवति योजयितुं न शक्नुमः इति न। व्रात्यम् अश्वं यथा समञ्जनेन चालयामः तथा मनोविषये करणीयं भवेत्। यदा वृत्तिः परिवर्तते तदा सावधानेन भवितव्यम्। भगवत्स्मरणं विस्मरति चेद् मनः अस्वस्थं भवेत्। अधुना अप्रियं नामस्मरणं बलेन कारयामः चेत्प्रियविषयाः निर्गच्छन्ति। प्रपञ्चसमस्यां परिहरामः तर्हि परमार्थसमस्येभ्यः किमर्थं बिभीमः। यदि वयं विवेकेन सुखिनः भवितुं न शक्नुमः तर्हि सुखं कदापि न प्राप्स्यामः। केवलं गिरिवनं गत्वा परमार्थः सिद्ध्यति किम्? तथा भवति चेद् मर्कटानामपि सिद्ध्येत्। अधस्तनप्राणिनः विकारनियमनस्य चिन्तनमपि कर्तुं न शक्नुवन्ति। परं मनुष्यः साध्वसाधू जानाति। सः सारासारविचारं कर्तुं शक्नोति। एषा तस्य उपरि भगवत्कृपा एव। जगत्परिष्कारकार्ये न भवितव्यम्। तदर्थं विशिष्टजनाः जायन्ते। स्वपुत्रः अपि भवेत् तं योग्यकथनं पर्याप्तम्, परम्‘अहं तं सम्यक् करिष्यामि एव’ इति भ्रमः मास्तु। आत्मानं परिष्करोतुजगदपि परिष्कुर्यात्।
***कर्तव्यरूपेण यथा अधिवक्ता संघर्षं करोति, तथैव कर्तव्यरूपेणैव प्रामाणिकतया प्रपञ्चः करणीयः। तस्मिन् भगवान् न विस्मर्तव्यः। ****
 
[[वर्गः:प्रवचनानि]]
"https://sa.wikisource.org/wiki/मार्चमासस्य_प्रवचनानि" इत्यस्माद् प्रतिप्राप्तम्