"जानेवारीमासस्य प्रवचनानि" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः १७:
==== ***सामान्यजनेन बहु विचिकित्साम् अकृत्वा यथोक्तं नामजपः करणीयः। तेन तस्य कल्याणं निश्चयेन भविष्यति। *** ====
== जानेवारी 4==
==''' नाम कथं जपनीयम्? '''==
‘नाम कथं स्मरणीयम्’ इति पृच्छा इत्युक्ते ‘लड्डुकं कथं खादामि’ इति पृच्छासमं वर्तते। लड्डुकं कथमपि खादामः चेद् मधुरमेव वर्तते। तथैव नाम कथमपि जपामः चेत् कार्यं करोत्येव। येन लड्डुकः खादितः सः तं कथं खादामि इति न पृच्छेत्। तथैव नामजप्ता कथं जपामि इति न पृच्छेत्। क्षेत्रे यदा बीजं वपन्ति तदा तद् उर्ध्वमुखम् वर्तते वा इति न पश्यन्ति। तत् कथमपि भवेत् अङुरः बीजात् क्वापि बहिः आगच्छेत् सः भूमितः एव बहिः आगच्छति। तद्वद् नाम कथमपि स्मरामः चेत् तत् स्मरणं स्मर्तुः सम्यक् विकासं कारयिष्यति, तं सुयोग्यमार्गम् आनेष्यति च।
नामस्मरणसमये कथम् उपवेशनं, किम् आसनम् इति एतादृशः प्रश्नः इत्युक्ते श्वासोच्छ्वाससमये कथम् उपविशामः इति प्रश्नः इव। चिन्तयन्तु, कश्चन श्वासरोगेण पीडितः जनः अस्ति। सः कथम् उपविशति? सः एवम् उपविशति, लुण्ठति वा येन श्वासोच्छ्वासः विनाकष्टं भवेत्। श्वासोच्छ्वासः सुखेन प्रवर्तेत इति तस्य ध्येयं वर्तते तदर्थं देहस्थितिः कथमपि भवितुम् अर्हति। यथा श्वासोच्छ्वासः विनाकष्टं भवेदिति तस्य ध्येयं वर्तते तद्वत् नामस्मरणम् अखण्डं भवेत् इति अस्माकं ध्येयं भवेत्। तदर्थम् इदमेव योग्यं यद् नामस्मरणे येन विघ्नं न भवेत् तादृशम् उपवेशनं भवेत्। उपवेशनपद्धतिः अधिकं महत्त्वं न अर्हति। चिन्तयन्तु, पद्मासने अस्माभिः नामस्मरणमम् आरब्धम्। केनचित् समयेन पृष्ठे पीडा आरब्धा। तेन अस्माकम् अवधानं नामस्मरणस्य अपेक्षया देहे एव भवितुम् अर्हति। इत्युक्ते पौनःपुन्येन नामस्मरणेन देहविस्मरणस्य अपेक्षया देहस्मृतिः एव उत्कटा भवितुमर्हति। अतः नामस्मरणे येन अन्तरायः न भवेत् तादृशं प्रकृतिधर्मानुसारं किमपि आसनं भवेत्। भगवतः नाम्नि किमपि शरीरबन्धनं न वर्तते। इदमेव नामसाधनस्य माहात्म्यम्। कस्याम् अपि अवस्थायां भगवत्स्मरणं कर्तुं मनुष्यस्य एकमेव साधनं नाम वर्तते। परं देहबुद्धिः एतादृशी विलक्षणा वर्तते यत् निरुपाधिकाय नाम्ने वयं काम् अपि उपाधिं योजयामः, नामस्मरणम् तेन उपाध्याधारेण कुर्मः। इदं न करणीयम्। अन्ये उपाधयः सुखदुःखानि उत्पादयन्ति, नाम निरुपाधिकम् आनन्दं ददाति।
==== ***'''शुद्धभावनायां निष्ठायां च अवितथं समाधानं विद्यते। एषा निष्ठा अनुसन्धानेन उत्पद्यते।'''*** ====
 
== जानेवारी 5==
== नामस्मरणम् एकाग्रता च। ==
"https://sa.wikisource.org/wiki/जानेवारीमासस्य_प्रवचनानि" इत्यस्माद् प्रतिप्राप्तम्