"जानेवारीमासस्य प्रवचनानि" इत्यस्य संस्करणे भेदः

No edit summary
अङ्कनम् : 2017 स्रोत संपादन
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ४:
भोज्यपदार्थानां स्वस्वादः वर्तते। वयम् आत्मनः रुच्या तान् खादामः। परं नाम्नः स्वस्वादः न वर्तते। स्वरुचिं संयोज्य अस्माभिः तज्जपनीयम्। यावद् अधिकया रुच्या वयं जपामः तावद् माधुर्यम् अनुभवामः। पण्ढरपुरं गन्तुं नैके मार्गाः, परम् अन्ते पङ्क्त्यां स्थितेः अनन्तरमेव दर्शनं लभ्यते। तद्वत् कियन्ति अपि इतराणि साधनानि कृतानि तथापि नामसाधनानन्तरमेव आत्मस्वरूपप्राप्तिः भवति। नाम जपनीयम्, स्वयमेव स्वकर्णैः श्रवणीयं च। जपन्तः, शृण्वन्तः चात्मानं विस्मरेम। एतद् एव नामसाधनम्, एषः एव आनन्दमार्गः च।
यथा अस्माकम् अस्मिता स्वनाम्नि वर्तते तथा देवस्य देवत्वं तस्य नाम्नि वर्तते। अद्य यद् नाम वयं जपामः तदेव अन्तपर्यन्तं विद्यते, परं यथा देहबुद्धिः क्षीणा भवति तथा नाम अधिकाधिकम् अर्थपूर्णं भवति, अन्ते नाम परमात्मस्वरूपमेव इति अनुभवः लभ्यते। यथा जलं शरीरस्य जीवनं वर्तते तथा नाम मनसः जीवनं भवेत्। नाम एतादृशम् अन्तः गच्छेत् यत् प्राणैः सहैव तद् बहिरागच्छेत्। अन्तसमये अन्तिमक्षणे निर्गच्छत् वस्तु भगवन्नाम भवेत्। नामजपः एव अन्तिमः उच्छ्वासः भवेत्।
==== *** '''नामजपे आनन्दं विना नान्यत् किमपि वर्तते।'''*** ====
== जानेवारी 2==
=== '''नाम सद्गुरुतः स्वीकरणीयम्।''' ===
नाम सद्गुरुतः स्वीकरणीयं, स्वरुच्या स्वयमेव स्वीकरणीयं वा? वस्तुतः भगवन्नाम स्वतः सिद्धं परिपूर्णं च वर्तते। तद् अन्येभ्यः पूर्णतां नापेक्षते। अतः सद्गुरुतः स्वीकृतं नाम स्वरुच्या स्वीकृतं नाम च इति एतयोः मध्ये भेदं कर्तुं न शक्यते। तथापि सद्गुरुतः स्वीकृते नाम्नि वैशिष्ट्यं वर्तते। सद्गुरुः स्वेन दत्तस्य नाम्नः पृष्ठतः सत्तारूपेण वर्तते। नामस्मरणसमये सः अस्माकं साहाय्यं करोति। तेन अस्माभिः क्रियमाणं नामस्मरणं तस्य सत्तया एव विद्यते। तेन ‘अहं नामस्मरणं करोमि’ इति एतस्य अहंकारस्य उत्पादनस्य अवसरः एव न विद्यते। सद्गुरोः आज्ञां पालयते साधकाय नाम रोचते। आकण्ठं नामजपेन तस्य आत्मा तृप्यति। अतः सद्गुरुतः नामस्वीकरणम् आवश्यकम्। सद्गुरोः मेलनपर्यन्तं स्वयमेव नामस्मरणं करणीयम्। यतो हि तन्नामस्मरणं अस्माकं सद्गुरुणा मेलनं कारयेत्। आदौ सत्पुरुषमेलनं बहुदुष्करम्। मिलति चेदपि तस्मिन् विश्वासः अतिदुर्लभः। अतः नामसाधनं निरन्तरं प्रवर्तनीयम्। शर्कराखण्डान् स्थापयामः चेत् पिपीलकाः न आह्वातव्याः। ताः सहजम् अन्विष्य आगच्छन्ति। तद्वद् भवन्तः शर्कराखण्डाः भवन्तु, सत्पुरुषाः भवन्तं प्रति धाविष्यन्ति। शर्कराखण्डाः भवन्तु इत्युक्ते सत्पुरुषेभ्यः यथा रोचेत तथा वर्तन्ताम्। सत्पुरुषेभ्यः किं रोचते? भगवन्नामस्मरणम् अखण्डानुसन्धानं च। एते विहाय तेभ्यः किमपि न रोचते। अतः स्वहृदये नामज्योतिः सदैव प्रज्वालितं भवेत्। सद्गुरुः भवन्तम् अन्विष्यन् आगच्छति, भवति कृपां वर्षति च।
अधुना अनया पद्धत्या सद्गुरुणा नाम दत्तं चेत् कश्चन चिन्तयेद् यत् ‘अहं राम रामेति जपन् अस्मि एव। सद्गुरुणा तदेव उपदिष्टम्। अथ अत्र कः विशेषः?’ परन्तु अत्रैव विशेषः वर्तते। यतो हि अत्र ‘अहं कर्ता’ इति अभिमानः त्यक्तव्यः भवति। सद्गुरुतः नाम स्वीकृतं चेत् कर्तृत्वाभिमानस्य अवसरः न विद्यते। एकः लवणकणः पायसनाशार्थं पर्याप्तः। तथैव अभिमानः सर्वसाधननाशार्थं पर्याप्तः। अतः अभिमानत्यागः महत्त्वपूर्णः विषय़ः। भगवन्नाम औषधम् इति मन्तव्यम्। भगवत्प्राप्तिः फलम्। अपेक्षितं तावत् करणीयं, यथोक्तं तथा करणीयम्, अधिकं न करणीयम्, इति अनुपानम्। औषधं तावत् बिन्दुशः सततं स्वीकर्तव्यम्।
==== ***'''सामान्यशब्दानाम् अपि महान् आधारः भवति। अथातः भगवन्नाम्नः आधारः कियान् महान् भवेत्।'''*** ====
== जानेवारी 3==
=== '''नामजपः कदापर्यन्तं करणीयः?''' ===
पङ्क्तिः १५:
कञ्चन जनम् अभानावस्थां नेतुं वैद्यः तस्मै औषधिं दत्त्वा अङ्कान् गणयितुं सूचयति। अङ्कान् गणयन् सः यदा विरमति तदा तस्य देहभानं नश्यति इति निश्चीयते। तद्वन्नामोच्चारणं कुर्वतः ‘अहं नामजपं करोमि’ इति स्मरणमपि न विद्यते तदा नामजपे तल्लीनः सः जनः एकान्ते परिणमते। नामजप्ता ‘अहं’ एकः, तस्यान्तः एकान्तः। इत्युक्ते देहबुद्धेः विस्मरणम्। देहबुद्धेः परं गमनम्। नाम जापं जापम् इदृशीं स्थितिं प्राप्नोति चेत् चित्तं भगवति वर्तते वा न वा इति प्रष्टुम् अवकाशः एव क्व वर्तते? निद्रानाशेन पीडितैः यथा निद्राप्राप्तिपर्यन्तम् औषधं स्वीक्रियते, तथैव स्वाभाविकसमाधानप्राप्तिपर्यन्तं नामजपः करणीयः। नाम उपाधिरहितं विद्यते अतः उपाधिरहितत्वेन विना नामप्रेम लब्धुं न शक्नुमः। नाम्ना आनन्दमयस्य भगवतः सन्निकर्षेण तस्य कृपा अचिराद् लभ्यते। किं बहुना यस्मिन् भगवत्कृपा विद्यते तस्य एव मुखे नाम वर्तते।
नामजपस्य संख्या लेखनीया वा? यदि दिनविषये वा संख्याविषये वा कश्चित् संकल्पः विद्यते तर्हि जपसंख्यालेखनम् अपेक्ष्यते। जपाभ्यासार्थं वा नियतजपेन विना दिनं न गच्छेत् तदर्थं वा जपसंख्यालेखनं करणीयम्। परम् अत्रैकं पथ्यमपेक्ष्यते। अद्यतनसंकल्पपूर्त्यनन्तरं श्वःपर्यन्तं नाम्ना सह मम सम्बन्धः नेति वृत्तिः सम्भवति। अत्र सावधानेन भवितव्यम्। नियतसंख्यापूर्त्यनन्तरमपि जपाभ्यासः यावत् शक्यम् अनुवर्तनीयः।
==== ***'''सामान्यजनेन बहु विचिकित्साम् अकृत्वा यथोक्तं नामजपः करणीयः। तेन तस्य कल्याणं निश्चयेन भविष्यति।''' *** ====
 
== जानेवारी 4==
पङ्क्तिः २७:
नामस्मरणसमये चित्तैकाग्र्यं किमर्थं न भवति? तदर्थं किं करणीयम्? नामस्मरणसमये मनसि सहस्रशः विचाराः आयान्ति। तान् निवारयितुं प्रथमोपायः वर्तते यत् तेषाम् अनुधावनं न करणीयम्। मनसि अन्ये विचाराः आयान्ति इति अस्ति चेत् तेषां मार्गाः निरोद्धव्याः। इत्युक्ते मनोराज्यं न करणीयम्। विचाराः आयान्ति प्रयान्ति च। तत्र न अवधातव्यम्। चित्तैकाग्र्यं कर्तुमेव नामस्मरणम् अपेक्ष्यते। नामस्मरणे चित्तैकाग्रता इति बहु अग्रिमं पदम्। चित्तं तु चञ्चलम्। तत् क्वापि स्थिरं करणीयम्। अतः नाम्नि तद् योजनीयम्। नामस्मरणसमये नाम कर्णेन श्रोतव्यम्। तेन एकाग्रतायाः साधने साहाय्यं भवेत्। एकाग्रतां विना नामस्मरणेन न कोऽपि अर्थः, नामस्मरणं विना एकाग्रता भवितुं नार्हति चेति संशयः मा भवेत्। सरलं सामान्यं च नामस्मरणं करणीयं येन सहजा एकाग्रता सेत्स्यति। अपरं च, यदस्मभ्यं रोचते तस्मिन् वयम् एकाग्रबुद्धयः भवितुं शक्नुमः। विषयाः अस्मभ्यं रोचन्ते अतः विषयसेवने वयम् एकाग्रबुद्धयः भवामः। अथ अतः विषयाणां स्थाने भगवतः रुचिं धरामः चेत् तस्मिन् अपि किमर्थम् एकाग्रबुद्धयः भवितुं न शक्नुमः? अतः अधुना विषये यावती रुचिः वर्तते तावतीं देवप्राप्त्यर्थ्यम् अपि धरामः चेत् तस्मिन् वयम् एकाग्रबुद्धयः भवितुं शक्नुमः। एकाग्रता इत्युक्ते समरसता। लवणं जले योजितं चेत् तज्जलात् भिन्नं वर्तते किम्? योगेन एकाग्रबुद्धयः भवितुं शक्नुमः, परं यावत् समाधिः वर्तते तावत्कालम् एव एकाग्रता भविष्यति। सर्वेषु भूतेषु भगवद्दर्शनम् एव एकाग्रतायाः वास्तवं साधनम्। सर्वत्र सः एव व्यापृतः इति जानीमः चेद् द्वैतं कुत्र वर्तते? यतः द्वैतं निर्गच्छति तत्र एकाग्रता सहजम् आयाति। एषा एकाग्रता एव वास्तवः समाधिः।
मनुष्यः पूर्णतः एकाकी एकान्ते वा वर्तते चेदपि स्वकल्पनया सः नैकान् जनान् स्वं परितः संगृह्णाति। विशेषतः विद्वज्जनानां कल्पनाः अधिकाः। कल्पनाः करणीयाः चेद् भगवतः विषये कुर्मः। भगवान् दाता त्राता सुखकर्ता चेति कल्पनां कुर्मः। तत्रैव हितं वर्तते। कल्पनातीतं भगवन्तं कल्पनाम् आनीय सगुणं कुर्मः। तत्रैव चित्तं स्थिरीकर्तुं प्रयतामहे च।
==== ***'''मनः एकाग्रं न भवति चेदपि नामस्मरणं न त्यक्तव्यम्।'''*** ====
 
== जानेवारी 6==
पङ्क्तिः ३३:
नामस्मरणसमये रूपध्यानम् आवश्यकं किम्? वस्तुतः नाम रूपं च भिन्ने न वर्तेते। परं नाम रूपात् प्राग् वर्तते, अनन्तरमपि अवशिष्यते। नाम रूपे व्यापृतं वर्तते। रामजन्मनः प्राग् वाल्मीकिः रामायणं लिखितवान्। अनन्तरं रामेण जनिं लब्ध्वा तत्रस्थवर्णनानुसारम् आचरणं कृतम्। इत्युक्ते रूपात् प्राक् नाम आसीत्, रूपे अतीते अपि नाम वर्तते। देशकालातीतं यत् शाश्वतं तत् सत्यम्। प्रत्यक्षाणां साकाराणां नैकानां रूपाणाम् लोपाद् अनन्तरमपि तेषां नामानि अवशिष्यन्ते। अतः नाम देशकालातीतं वर्तते। अतः तत् रूपात् अपि अधिकं सत्यम्। यत्सत्यं तत् श्रेष्ठम्। अतः नामस्मरणं मुख्यं, तदा रूपमपि ध्यायते चेद् उत्तमम्। तथा न भवति चेदपि नामस्मरणसमये रूपस्मरणमपि सूक्ष्मरूपेण वर्तते एव। चिन्तयन्तु, कस्यचित् गृहस्थस्य गृहे रामः नाम कर्मकरः वर्तते। सः गृहस्थः रामनाम जपति। परं रूपं प्रति तस्य अवधानं न वर्तते। सहसा कश्चन तं पृच्छति, ‘ भवान् कस्य नाम जपति ?’ तदा स वदति, ‘ अर्थात् रामस्य।’ तदा तस्य मनसि दाशरथिः रामः एव वर्तते, न तु कर्मकरः रामः। अतः नामस्मरणे सति रूपध्यानं सूक्ष्मरूपेण जागर्ति एव। रूपं ध्यानं न आयाति इति मत्वा न स्थातव्यमपि तु नामस्मरणस्य आग्रहः अनुवर्तनीयः। तस्मिन् एव सर्वम् समाविष्टम्।
परिचितस्य जनस्य रूपम् आदौ मनः आयाति अनन्तरं नाम आयाति। परं यदि सः अपरिचितः अदृष्टः च तर्हि नाममात्रं मनः आयाति। अधुना भगवतः परिचयः नास्ति। तस्य रूपमपि न जानीमः। केवलं तस्य नाम वयं जप्तुं शक्नुमः। साम्प्रतम् अपि तस्य नामजपनेन तस्य स्मरणमपि वर्तते इति अस्माकम् अनुभवः। भगवतः रूपमपि क्व निश्चितम्? एकः रामः कृष्णः, अपरः गौरकायः। एकः कनीयान् अपरः ज्यायान्। परं सर्वाणि रूपाणि एकस्य रामस्यैव। स्वयं भगवान् अरूपः। यस्मिन् रूपे तं पश्यामः तत् तस्य रूपम्। अतः कस्मिन् अपि रूपे तं ध्यायामः तर्हि अनुमन्यते। नाम्नः अनन्तरूपाणि उत्पद्यन्ते तस्मिन्नेव निलीयन्ते च। अतः भगवन्नाम श्रेष्ठम्। तद् भवन्तः आन्नदेन निरन्तरं जपन्तु, आनन्दे भवन्तु च।
==== ***'''दानेषु दानम् अन्नदानम्। उपासनासु उपासना सगुणोपासना। साधनेषु साधनं नामस्मरणम्।'''*** ====
==जानेवारी 7==
=== '''नामप्रेमार्थं सत्या आर्तता अपेक्ष्यते।''' ===
नामप्रेम किमर्थं न उत्पद्यते इति बहवः पृच्छन्ति। परम् अल्पेन चिन्तनेन वयम् अवगन्तुं शक्नुमः यत् एषः प्रश्नः एव न योग्यः। वन्ध्यया महिलया कृतेन ‘पुत्रप्रेम कथम् उत्पद्येत’ इति प्रश्नेन समः एषः प्रश्नः। पुत्रेण सहैव प्रेमोत्पद्यते। ‘पुत्रप्रेम कथम् उत्पद्येत’ इति प्रश्नस्य अपेक्षया ‘पुत्रः कथम् उत्पद्येत’ इति अस्य चिन्तनं योग्यम्। अस्माभिः अपि प्रश्नः करणीयः चेत् ‘नामप्रेम कथम् उत्पद्येत’ इति प्रश्नस्य अपेक्षया ‘मुखे नाम कथं भवेत्’ इति पृच्छा करणीया। मुखे नामागमनार्थं कस्य अवरोधः वर्तते? न कस्यापि अन्यस्य, परं स्वस्यैव। वस्तुतः ‘एकवारं नामजपारम्भः निश्चितः चेत् पर्याप्तम्। परं तथा न भवति चेत् दोषः न अन्यस्य, परं स्वस्य एव। अतः नामजपकरणम् अस्माकं कार्यं तस्य अनुगमनं प्रेम्णः धर्मः। पुत्रः प्रेमपानं च मातृदृष्ट्या यथा अभिन्नं वर्तते तथा नाम नामप्रेम च अभिन्ने एव भवतः। एतेन एतत् तु निश्चितं यत् ‘प्रेम किमर्थं नायाति’ इति एतस्य उत्तरम् आत्मनः समीपे एव वर्तते। तत् ‘नाम न जपामः अतः’ इति। अत्र कश्चन पृच्छेत् यत् वयं नामजपं कुर्मः, परं प्रेम कथं न उत्पद्यते? एषः प्रश्नः योग्यः। अधुना यत् नामस्मरणं कुर्मः तद्विषये चिन्तयामः चेत् किं दृश्येत? औरसपुत्रं प्रति या आर्तता मातुः वर्तते, सा नामविषये अस्माकं न वर्तते। सर्वसत्पुरुषैः गुरुणा वा कथितम् अतः वयं नाम जपामः। कदाचित् अन्यत् किमपि कर्तुं न विद्यते अतः नाम जपामः। एतावत् एव। अर्थात् तथा जपामः चेत् अपि अद्य श्वः वा अस्माकं कार्यं भवेत् एव। परं प्रेम किमर्थं न उत्पद्यते इति प्रश्नात् प्राग् वयं नामस्मरणं कियत्या आस्थया कुर्मः इति प्रश्नः आत्मानं प्रति करणीयः। चिरेण प्रसूतायाः सुतविषये यादृशी स्थितिः वर्तते, तादृशी नामस्मरणविषये अस्माकं भवेत्।
अस्माकं देहवृद्धिः यथा अज्ञाततया भवति तथा पारमार्थिकी उन्नतिः अपि अज्ञाततया भवतु। सा ज्ञायते चेत् सर्वं व्यर्थं भवितुमर्हति। परमार्थस्य प्राप्तेः अपेक्षया प्राप्तस्य तस्य रक्षणम् इतोऽपि कठिनतरम्। यः ‘अहं किञ्चन विशिष्टं जन्म प्राप्तवान्’ इति मन्यते, तस्य अपि जन्मनि न तथा किमपि वैशिष्ट्यम्। एतेन जनेन आत्मा बहु एव रक्षणीयः।
==== '''***'''पत्ये न रोचते तथापि पत्न्या नामस्मरणं न त्यक्तव्यम्। सा नामस्मरणं करोति चेत् तया धर्मः त्यक्तः इति न भवति अपि तु कौटुम्बिकजीवनं सुखकरं भवति।'''***''' ====
 
== जानेवारी 8==
पङ्क्तिः ४४:
नामप्रेम कथम् उत्पद्यते इति अवगन्तुम् आत्मनः वत्सलां मातरं पश्यन्तु। पुत्रः अल्पेन ज्वरेण पीडितः चेत् मातुः उदरे आतङ्कः उद्भवति। अन्नरुचिः निर्गच्छति। निद्रा नायाति। एतादृश्यः नैकाः पीडाः आरभन्ते। सारांशेन सा सर्वथा अस्वस्था भवति। नामजपे विक्षेपे आगते सति अस्माकम् अवस्था तथा भवति किम्? उत्तरं स्वतः एव लभ्यते। नामजपः मम धर्मः। मम आद्यं कर्तव्यम्। तद्विना जीवनं मृत्युसमानम्। नामजपकरणे मम आत्यन्तिकं हितं वर्तते। किं बहुना, अहं नामार्थम् एव जातः, तद्रूपः भवेयं च - इत्येतादृश्या उत्कटया भावनया नामजपः करणीयः। तेन नामप्रेम न उत्पद्येत इति न भवितुम् अर्हति। प्रेम न उत्पद्यते इति एतस्य एषः एव अर्थः यत् नाम आस्थया न जप्तम्। अत्र एतस्य उपायः विद्यते यत् दृढनिश्चयेन यथाशक्यं नामजपः करणीयः। तन्नामस्मरणम् अस्माकम् एकैकं पदं पुरः सारयेत्, ध्येयं प्रापयेत् च। परिस्थितिः सम्यक् भवति चेत् नामस्मरणं करोमि इति यः वदति सः कदापि नामस्मरणं न करोति।
नामजपं मनसि मुखेन उच्चार्य वा कर्तुं शक्यते। नाम्नि वर्तितव्यं तेन अन्तःकरणशुद्धता भवति। शुद्धान्तःकरणे भगवत्प्रेम उत्पद्यते। नामजपः केवलं प्रचुरजपात् विवेकजन्यं प्रेम अपेक्षते। वस्तुतः नामस्मरणे एव नामस्मरणप्रेम वर्तते। तक्रे नवनीतं विद्यते एव। केवलं तत् उपरि न दृश्यते। दधिमन्थनेन तत् उदायाति तथा भगवन्नामस्मरणेन तस्य प्रेम स्वाभाविकतया उदायाति। सामान्यशब्दैः अपि चित्तवृत्तयः परिणमन्ते, शब्दानुकूलाः भावाः उत्पद्यन्ते च। अतः भगवन्नाम्ना भगवत्प्रेम किमर्थं न उत्पद्येत? साम्प्रतं भवन्तः यावन्तं समयं लभन्ते तावन्तं सर्वं भगवन्नामजपे योजयन्तु। दीर्घं कालं यदि एकस्मिन्गृहे निवसामः तर्हि तस्मिन् गृहे वयं प्रीणीमः नु? प्रपञ्चप्रेम तेन सह वासेन उत्पद्यते, तथा एव नामप्रेम तस्य अखण्डं सह वासेन सहजम् उत्पद्येत। उत्थाने, उपवेशने, चलने, भाषणे चानुसन्धानम् अनुवर्तनीयम्। व्यसनं गच्छता कालेन दृढं भवति मनुष्यः तस्य नितराम् अधीनो भवति। अहिफेनं पश्यन्तु। गच्छता कालेन मनुष्यः अधिकाधिकम् अहिफेनम् अपेक्षते। तथैव भगवच्चिन्तनस्य व्यसनम् अस्माभिः लभ्येत। समीचीनविषयप्राप्तिः दुर्लभा। परं स्वल्पश्रमेण प्रचुरं लब्धुं नामजपं विना साधनं न वर्तते। अतः मनसा सदा नामजपः करणीयः।
==== ***'''नामप्रेम उत्पादयितुं, गुरोः इच्छा इति मत्वा जपः करणीयः, नामजपे कल्याणं वर्तते इति भावनया वा जपः करणीयः।'''*** ====
== जानेवारी 9==
=== '''नाम तथा विक्षेपाः। '''===
"https://sa.wikisource.org/wiki/जानेवारीमासस्य_प्रवचनानि" इत्यस्माद् प्रतिप्राप्तम्